सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 58, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 58

४२ नलचम्पूः ।
श्लेषोक्तिकुशलया वनपालिकया निवेद्यमानानि वनविनोदस्थानान्यव-
लोकयांचकार ॥ क ॥
चलच्चकोरचक्रवाकचक्रचञ्चुचलच्चञ्चरीकचरणचूर्णितचम्पका-
ङ्कुरमरिचमञ्जरीदलदन्तुरेण वनमार्गेण स्तोकमन्तरमतिक्रान्तस्तया
पुनरेवं बभाषे ॥ ख ॥
'देव, पुरंदरनन्दिनन्दनोद्यानस्पर्धिनोऽस्य वनस्य किं किं वर्ण्यते
॥ ग ॥
यत्र । त्रिजटाश्रयमनेकजटाः, स्फुरदेकपुष्पकमनेकपुष्पाः, समुद्वे-
जितराममानन्दितरामाः, समुपहसन्ति लङ्केश्वरं तरवः ॥ घ ॥
यस्मिंश्च मत्तमयूरहारिणि भद्रभुजंगप्रयाते विचित्रक्रौञ्चपदे छन्दः-
शास्त्र इव वैतालीयं मौलिनी शिखरिणी पुष्पिताग्रा च दृश्यते विवि-
धा जातिः ॥ ङ ॥
यस्मिंश्च । एकभीमार्जुनविनिर्जितानाक्रान्तानेकभीमर्जुनाः, कोपि-
येषु कुलेषु तैः कुलैर्गोत्रैः संकुलम् । पुंनागमगः अन्यत्र पुन्नागो वासुकिः ।
कृता उत्पादिता अश्वत्थाः पिप्पला यस्याम् । तथा महिता चार्वा । पक्षे कृतमश्व-
त्थाम्ने द्रोणसुताय हितं यया ॥ क ॥
चलदिति ॥ संचारयोग्येन मार्गेण कियदपि व्यवधानमतिक्रान्तः पुनरपि
तयैष बभाषे ॥ ख ॥
देवेति ॥ देव, नन्दनस्पर्धिनोऽस्य किं वर्ण्यते ॥ ग ॥
यत्रेति ॥ रावणं तरवो हसन्ति । त्रिजटा रावणस्वसा । जटा मूलानि पुष्पकं
विमानं कुसुमं च । रामो दाशरथिः । रामाः स्त्रियः । अनेकजटा इत्येकशब्देन
संख्योपलक्ष्यते । ततोऽनेकशब्दोऽसंख्यातवचनः ॥ घ ॥
यस्मिंश्चेति ॥ वै स्फुटमियं ताली तालद्रुमः । इयं जातिर्मालती दृश्यते ।
द्वे अपि कीदृश्यौ । माला अस्यामस्ति । तथा शिखरयुक्ता कुसुमिताग्रभागा
च । किंविशिष्टे वने । मत्तैर्मयूरै रम्ये । तथा भद्रं मनोज्ञं भुजंगानांमहीनां
विटानां च प्रयातं यत्र । क्रौञ्चः पक्षी । पक्षे मत्तमयूरं भुजंगप्रयातं क्रौञ्चपदा
वैतालीय मालिनी शिखरिणी पुष्पिताग्रा च छन्दोनामानि । जातिश्च उक्तादिरु-
क्तलन्ता ॥ ङ ॥
यस्मिंश्चेति ॥ वने वीरुधो लताः कुरुवीरान गौरवयन्ति । आक्रान्ता अनेके


१ 'क्वचित्पुस्तके चक्रवाकचक्रेति नास्ति'. २ 'स पुनरेवम्'; 'पुनरेषः'. ३ 'किं वर्ण्यते'.
४ 'मध्यमणिविभूषिते, चम्पकमालाचित्रे, हरिगीताकर्णनसुखे, शार्दूलविक्रीडिते, हरिणी-
मनोहरे, सहरिणपुते छन्दःशास्त्रे'. ५ 'शालिनी'.