सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 54, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 54

३८ नलचम्पूः ।
ततःप्रभृति च
हृद्योद्यानमरुत्तरङ्गितसरित्तीरे तरूणामध-
स्तल्पेऽनल्पसरोजिनीनवदलप्रायेऽपि खिन्नात्मनः ।
धीरस्यापि मनाङ्मनस्तृणकुटीकोणान्तराले बला-
ल्लग्नोऽस्येति विभाव्यते परवशैरङ्गैरनङ्गानलः ॥ ६३ ॥
एवमस्य
पुनरपि तदभिज्ञानपृच्छतः पान्थसार्था-
न्प्रतिपथमथ यूनो यान्ति तस्य क्रमेण ।
हरचरणसरोजद्वन्द्वमुद्राङ्कमौले-
र्मदनमदनिवासा वासराः प्रावृषेण्याः ॥ ६४ ॥
इति श्रीविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरो-
जाङ्कायां प्रथम उच्छ्वासः समाप्तः ॥
अथ द्वितीय उच्छ्वासः ।
अथ कदाचिद्देवगलद्बहलपरिमलमिलदलिकुलाकुलितकुटजकदम्ब-
कुसुमकर्णपूरशून्यकाननासु, विश्राम्यन्मदमुखरमयूररसनावलीकलक-
णितासु, विरलतरतडिल्लतादलितलावण्यासु, विगतहंसद्विजराजिषु,
पतत्पयोधरासु, क्षीणशुक्रासु, वृद्धास्विव गतप्रायासु वर्षासु, रतिमकु-
हृद्येति ॥ हृदयस्य बन्धनं हृद्यम् ॥ ६३ ॥
तमसो यत्र विनाशः पथिकोच्छ्वासः पदार्थनिर्भासः ।
उदयं प्रतिपाद्यासौ भुवनमुदे जयति चण्डरुचिः ॥
इति विषमपदप्रकाशमेतं दमयन्त्यास्तनुते स्म चण्डपालः ।
शिशुमतीलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥
इति चण्डपालविरचिते दमयन्तीकथाविवरणे प्रथम
उच्छ्वासः समाप्तः ॥
अथेति ॥ अनन्तरमितीति सति स राजा निकटकानने विचरन्किन्नरमिथुनेन
गीयमानं रागविशेषेणोच्चार्यमाणमिदमिति वक्ष्यमाणमनश्लीलमग्राम्यं श्लोकत्रितय-
माकर्णितवान् । किंविरिष्टः । कलहंसा एव हासस्तेन रम्यायां तरुणायामभिनव-
प्रवृत्तायाम् । अथ च शरद्रेव तरुणी युवतिः । तस्यामागतायां रागात्स्वयं
१ 'सरस्तीरे'. २ 'समविपमकविश्रीत्रिविक्रम'; 'श्रीभट्टत्रिविक्रम'. ३ 'हरचरणसरो-
जाङ्कः'. ४ 'प्रथमोच्छ्वासः'. ५ 'विगलत्'. ६ 'बहुल'.