सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 53, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 53

प्रथम उच्छ्वासः । ३७
तथापि ।
नो नेत्राञ्जलिना निपीतमसकृत्तस्याः स्वरूपामृतं
नो नामान्वयपल्लवोऽपि च मया कर्णावतंसीकृतः ।
चित्रं चुम्बति चुम्बकाश्मकमयो यद्वद्दूलाईरूत-
स्तद्वत्तर्जितधैर्यमेतदपि मे तस्यां मनो धावति ॥ ६२ ॥
सोऽयं दुर्लभेष्वनुरागः पुंसाम्, अज्वरमस्वास्थ्यम्, अदौर्गत्यं
दौःस्थ्यम्, अविपास्वादनमाघूर्णनम्, असाध्वसं कम्पनम्, अनात्म-
विक्रयं पारवश्यम्, अजरं जाड्यम्, अनिन्धनं ज्वलनम्, अलग्नग्र-
हमुन्मादनम्, अवात्याघातमुद्भ्रमणम्, अमौनं मौक्यम्, अहीनश्रुति
बाधिर्यम्, अनष्टदृष्टिकमन्धत्वम्, अस्खलितमनोरथं मनःस्तम्भनम्,
अमन्द आवेशः ॥ क ॥
सर्वथा नमः सुस्थितजनदुर्जनाय मनोजन्मने, यस्यायमेवंविधो
व्यापारः' इत्यवधारयन्नवतार्य सर्वाङ्गेभ्यो भूषणानि तस्मै सद्यम-
दात् ॥ ख ॥
तैस्तैरालापैः स्थित्वा च कंचित्समयमिममंथ यथाप्रस्थितं पान्थं
कथमपि प्रैर्षयामास ॥ ग ॥
स्वयमपि तत्कालान्तरालमिलितैर्नक्षत्रैरिव सार्द्रमृगशिरोहस्तैः स-
श्रवणचित्रकृत्तिकोपस्करवाहिभिः पापर्द्धिकपरिजनैरनुगम्यमानो राजा
निजावासमयासीत् ॥ घ ॥
नो नेत्रेति ॥ यद्वद्यथा चुम्बकसंज्ञमश्मकम्। पाषाणं कर्म ॥ अयो लोहं कर्तृ ॥
चुम्बति । तथा मेऽपि मनस्तस्यां धावति ॥ ६२ ॥
सोऽयमिति ॥ आवेशो व्यन्तरादेर्मनसि प्रवेशः ॥ क ॥
स्वयमपीति ॥ राजा निजहर्म्म्यमगात् । तत्कालं तत्क्षणात् । अन्तराले-
ऽध्वमध्ये । राजा चन्द्रोऽपि । तदा तस्मिञ्ज्योतिःप्रसिद्धे काले कलासमूहे
अष्टशतीलक्षणे यदन्तरालं तत्र । मिलितैः परिजनैरनुगम्यमानः । कीदृशैः ।
सार्द्राणि सास्राक्ष्योतन्ति हरिणशिरांसि येषु तथाविधा हस्ता येषां तैः ।
सश्रवणां सकर्णाम् । चित्रस्य चित्रकायस्य कृत्तिकां त्वचम् । उपस्करं मृग-
योपयोगि वहन्ति तैः । आर्द्रशब्दो भाववचनः । पक्षे सह आर्द्राया नक्षत्र-
त्रेण, सार्धे मृगशिरो हस्तश्च नक्षत्रं येषु । श्रवणचित्रे नक्षत्रे । अनयोः
समाहारद्वन्द्वः । तेन सह । ताश्च ताः कृत्तिकाश्च तासामुपस्करं समवायं
वहन्ति ॥ घ ॥
१ 'अलग्नं ग्रहम'. २ 'स्थित्वा स च'. ३ 'इमं यथा'. ४ 'संप्रेषयामास'.
४