नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 52, कुल 258 में से
संदर्भ में पढ़ें३६ नलचम्पूः।
भाग्यैर्योग्यसमागमेन युवयोर्मानुष्यमाणिक्ययोः
श्रेयानस्तु विधेर्विचित्ररचनासंकल्पशिल्पश्रमः ॥ ६० ॥
तन्न जाने स कः सुकृती तेन तस्याः श्रवणादेवोल्लसद्बहुलपुलका-
ङ्कुरोत्तम्भितांशुकायाः पुरो विस्तरेणैवं वर्णितः ॥ क ॥
नच मयापि विस्मयविस्मृतविवेकेन केयं कस्येयं कुत्र कुतो वा
प्रस्थितेति प्रश्नाग्रहः कृतः । केवलमदृष्टपूर्वरूपोत्पन्नाकस्मिककौतुका-
तिरेकास्तमितसमस्तान्यव्यापारेणैकाग्रतया ग्रहनिरुद्धेनेवान्धेनेव मूके-
नेव मूढेनेव मूर्च्छितेनेव संजातसंतमसेनेव विषविघूर्णितेनेव स्तोभस्त-
म्भितेनेव गतायामपि तस्यां तेनाध्वनीनेन सह तत्रैव न्यग्रोधतरुतले
सुचिरमासितमासीत् ॥ ख ॥
तदायुष्मन्नेष कथितः स्ववृत्तान्तः ॥ ग ॥
तस्यां दिशि तया सकलजगज्ज्योत्स्नया, अस्मिन्नपि देशे निःशेष-
जननयनकुमुदेन्दुना त्वया दृष्टेन, दृष्टं यद्द्रष्टव्यम् । अभूच्च मे श्ला-
घ्यं जन्म । जाते कृतार्थे चक्षुषी । संपन्नः सफलः परिभ्रमणप्रया-
सः ॥ घ ॥
तदिदानीं किमन्यत् ॥ ङ ॥
अनुमन्यस्व स्वविषयगमनाय माम्' इत्यभिधाय न्यरंसीत् ॥ च ॥
राजाप्येतदाकर्ण्य चिन्तितवान् ॥ छ ॥
स्त्रीमाणिक्यमहाकरः स विषयः पान्थोऽप्ययं तथ्यवा-
ग्व्यापारोऽपि विधेर्विचित्ररचनस्तत्किं न संभाव्यते ।
किं त्वाश्चर्यमदृष्टरूपविभवाप्याकर्ण्यमाना सती
कान्तेत्युन्नतचेतसोऽपि कुरुते नाम्नैव निम्नं मनः ॥ ६१ ॥
भवतोरित्याह । भवती च भवांश्च भवन्तौ । 'पुमान्स्त्रिया' इत्येकशेषः ॥ मानुषत्वे
भूषणभूतत्वात्तयोर्माणिक्यत्वम् ॥ ६० ॥
नेति ॥ स्तोमश्चेष्टाविघातः ॥ ख ॥
स्त्रीति ॥ निम्नमभिलाषादीनत्वालाघवास्पदम् ॥ ६१ ॥
१ 'क्रमः'. २ 'पुरतः'. ३ 'केयम्' इति क्वचित्पुस्तके नास्ति. ४ 'मूकेनेवेति क्वचित्पु-
स्तके नास्ति'. ५ 'संजातान्धतमसेनेव'. ६ 'विषघूर्णितेन'. ७ 'मोहसंस्तम्भितेनेव'.
८ 'त्वया चाद्य'. ९ 'पाथः'.