नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 215, कुल 258 में से
संदर्भ में पढ़ेंषष्ठ उच्छ्वासः। १९३
इतश्च।
विकसन्मुचुकुन्दानन्दिनो मकरन्दस्यन्दिसुन्दरसिन्दुवाराः पामरी-
संकेतनिकेतकेतकीवनाः कम्रास्रातकाः कुड्मलितकङ्कोलफलाः कोरकि-
तकुरण्टकाः पल्लवितवल्लीकाः फुल्लमल्लिकोल्लासिनः सुजातजातयो विचि-
त्रशंतपत्रिकास्ताण्डवितपाण्डुपिण्डितागुरुकरवीरवीरुधो दृश्यमानसवै-
र्तुपुष्पाः पैष्पायुधावासा आरामाः ॥ क ॥
इतश्च।
नातिदूरे दक्षिणदिशि दृशं निवेशयतु देवः ॥ ख ॥
एतास्ताः परिपक्वशालिकलमाः सुस्वादुदीर्घेक्षवो
वप्रप्रान्तहरित्तृणस्थलचलत्पीनाङ्गगोमण्डलाः।
दृश्यन्ते पुरतः सरोरुहवनभ्राजिष्णुनीराशयाः
प्रान्तोन्नादिविचित्रपत्रिनिचयाः सस्यस्थलीभूमयः ॥ ७१ ॥
अपिँच।
स्वःसौन्दर्यविडम्बि कुण्डिनमिदं सैषा विदर्भा नदी
सा चेयं वरदा स चायमनयोः पुण्याम्भसोः संगमः।
अस्यैवोत्नमदहंसहारिणि तटे सेनास्थितिः कल्प्यतां
यस्मिन्मत्तकरीन्द्रकुम्भकषणक्रीडासहाः पादपाः ॥ ७२ ॥
एवमनेकधा दर्शनीयप्रदेशप्रकाशनव्याजेन विनोदलीलां पल्लवयति
पुष्कराक्षे, 'प्राप्ताः कुण्डिनपुरम्' इत्युच्छ्वसितहृदयो निषधेश्वरः पर-
मपरितोषात्पारितोषिकप्रदानपूर्वमिदमवादीत् ॥ ग ॥
'भद्र, भवतः सौकुमार्यमाधुर्यमधुविश्रम्भसंदर्िभतभङ्गश्लेषगर्भाभि-
र्गीर्भिराक्षिप्तमनसामस्माकमविदितखेदं इव, अदृष्टसमविषमविभाग
इव, अनुत्पादितस्वेदलव इव, अर्धगव्यूतिमात्रैशेषोऽतिक्रान्तः क्रीडा-
शाकविशेषेण वस्तुभूतं गणनाहें भूतं यासु। राजिकानां राजसर्षपाणां राज्या
राजिता ॥ क ॥
एता इति ॥ विचित्रपत्रिणो विविधपक्षिणः ॥ ७१ ॥
अच्छिन्नचैत्यद्रुमेति ॥ चैत्या ग्रामप्रदेशप्रसिद्धवृक्षाः ॥ ख ॥
१ 'शरपत्रिकाः'. २ 'पिण्डीतगरकर'. ३ 'पुष्पागमाः'; 'पुष्पारामाः'. ४ 'नीराश्रयाः'.
५ 'इतोऽपि' कुत्रतु नास्त्येव. ६ 'कथ्यतां'. ७ 'आश्वसितहृदयो'. ८ 'रुक्तिभि'.
९ 'खेदेति नास्ति'. १० 'मात्रावशेषः'.
१७