नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 214, कुल 258 में से
संदर्भ में पढ़ें१९२ नलचम्पूः ।
किं चान्यत् ।
नृप चलसि यथा यथा त्वमस्मि-
न्नपि वदनानि तथा तथा चलन्ति ।
तरलितनयनानि पामरीणां
पवनविनर्तितपङ्कजोपमानि ॥ ६८ ॥
अपिच ।
उत्कम्पाद्गलितांशुकेषु रभसादत्यन्तमुच्छ्वासिषु
प्रोत्तुङ्गस्तनमण्डलेषु विलुठद्गुञ्जावलीदामसु ।
आसां खेदिषु दृश्यते मृगदृशां संक्रान्तबिम्बो भवा-
नाश्लिष्यन्निव गोपिकाः कृतबहुप्राकाम्यरूपो हरिः ॥ ६९ ॥
अहो नु खल्वाश्चर्यमिदमेतैसां तथाविधनेपथ्यनिरपेक्षाप्युन्माद-
यति यूनां मनो युवतीनां यौवनश्रीः ॥ क ॥
तथा हि ।
माल्यं मूर्धनि कर्णिकार्ककलिकाः पिष्टातकं चन्दनं
मुक्तादाम गले च काचमणयो लाक्षामयाः कंकणाः ।
रागोऽङ्गेषु हरिद्रया नयनयोरत्युल्बणं कज्जलं
वेषोऽयं विरसस्तथापि हृदयं ग्राम्या हरन्ति स्त्रियः ॥ ७० ॥
इतश्च ।
कन्दलितकन्दविशेषाः कर्कशकर्कटिका विशालकालिङ्गाः कूष्मा-
ण्डमण्डितमण्डपाः सुवृत्तवृन्ताकाः सुहस्तितहस्तिकर्णपुनर्नवाः स्थूल-
मूलकाः पिण्डितपलाण्डवो वास्तूकवास्तुभूतभूतलाः संजीवितजीवन्ति-
काः सर्षपराजिकाराजिराजिताः सरित्सारिणीसारिवारिसेचनसुकुमा-
रपल्लवितविविधशाकाः शाकवाटिकाः ॥ ख ॥
उत्कम्पेति ॥ भ्रष्टांशुकत्वं खेदित्वं च स्तनमण्डलस्य निरावरणत्वेन नृपप्र-
तिबिम्बस्य संक्रान्तौ हेतुः । प्राकाम्यं महासिद्धिविशेषः । प्राकाम्येन रूपाणि प्रा-
काम्यरूपाणि । कृतानि बहूनि प्राकाम्यरूपाणि येन ॥ ६९ ॥
अहो न्विति ॥ तथाविधमुदारं हारकुण्डलादिरूपं नेपथ्यम् ॥ क ॥
माल्यमिति ॥ हरिद्रा तण्डुलचूर्णम् । पिष्टातकं विलेपनम् ॥ ७० ॥
कन्दलितेति ॥ शाकवाटिकाः । सुहस्तितेति । हस्तः कन्दलोद्भेदः सं-
जातोऽस्येऽति । तारकादित्वादितच् । हस्तिकर्णः पुनर्नवा च वल्लीभेदौ । वास्तूकेन
१ 'वलन्ति' २ 'विनर्तन'. ३ 'एतेषां'. ४ 'कुत्रचिन्नास्ति'. ५ 'कुत्रचिन्नास्ति'.
६ 'कलितं'; 'कलिलं'. ७ 'पदे'. ८ 'वास्तू'.