सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 192, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 192

१७२ नलचम्पूः ।
एवमेनुगुणमनुरागस्य, सदृशं शृङ्गारस्य, सहोदरमादरस्य, प्रियं
प्रेमप्रपञ्चस्य, प्रोत्साहनमनङ्गस्य, अनुकूलमुत्कण्ठायाः, समुचितम-
भिनिवेशस्य, कौतुकजननं जल्पति पुष्कराक्षे, श्रवणकुतूहलिनि वि-
स्मृतान्यव्यापारे तन्मयतामिवानुभवति भूभुजि, जरठीभवत्सु पूर्वा-
ह्णवेलालवेषु, गगनमध्यासन्नवर्तिनि व्रजति तीव्रतां ब्रध्नमण्डले, स्व-
लयति पथि पथिकानसह्योर्मिणि घर्मजले, जलाशयाननुसरत्सु पि-
पासाकूततरलिततारकेषु श्वासिषु श्वापदेषु, पङ्किलकूलकर्दमविमर्दौद्य-
तेषु सरित्परिसरवनविहारिकरिवराहमहिषमण्डलेषु, विटपिकोटरकु-
टीरनीडनिलयनितीयमानेषु संपुटितपक्षेषु पक्षिषु, कूलकुलायकोणकू-
णितकोकूयमानकुकुहेषु गिरिसरित्सुरङ्गाङ्गणेपु, रङ्गतकुरङ्गचर्वितखर्व-
दूर्वानलनीलनिम्रशाद्वलस्थलस्थितये हिण्डमानासु कारण्डवशिखण्डिम-
ण्डलीषु, शिशिरनिवासवाञ्छया कूजत्सु करञ्जनिकुञ्जोपजितकपिञ्ज-
लकपोतपोतकेषु, वहति मनाङ्म्लानकोमलकुसुमकोशकोष्णामेन्दम-
करन्दबिन्दूद्गारिणि तापीतीरतरङ्गस्पर्शसेव्ये मध्याह्नमरुति, श्रमवश-
विलोलमीलन्नयननीलोत्पलासु बहलतरुतलच्छायामाश्रयन्तीषु सीद्-
त्सैनिकनितम्बिनीषु प्रस्तावपाठकः पपाठ ॥ क ॥
'विचित्राः पत्रालोर्दलयति गलत्स्वेदसलिलै-
रमन्दं मृद्नाति प्रमदकरिकुम्भस्तनतटीः ।
प्रबन्धेनाक्रामन्जनजघनजङ्घोरुयुगलं
श्रमः सेनाङ्गेषु प्रसरति शनैः कामुक इव ॥ २४ ॥
अपि च ।
एवमिति ॥ एवं ब्रघ्नमण्डलादिग्विदृशेषु सत्सु प्रस्तावपाठकः पपाठ । पिपा-
साया आकूतेनाभिप्रायेण तरलिता तारा कनीनिका यैः । श्वासान्वितश्वापदैः ।
गिरिसरितां सुरङ्गाः संधयस्तदङ्गणेपु ॥ क ॥
विचित्रा इति ॥ अनेकविधाः पत्रालोर्वाहनश्रेणीर्विलेपनपञ्चवल्लीश्च दलयति ।
तथा मत्तकरिकुम्भानेव स्तनतटीरमन्दं खेदयति । प्रबन्धेन सातत्येन प्रकृष्टबन्ध-
नेन च । करणविशेषेण । प्रयाणारूढत्वात्कंदर्पभावाच्च । जघनं च जङ्घे चोरुयुगलं
च प्राण्यङ्गत्वात्समाहारः । ततः कर्मधारयः । तदाक्रामन्कामीव श्रमः सेनाया
अङ्गेषु हस्त्यश्वादिषु प्रसरति ॥ २४ ॥
१ 'मुक्त'. २ 'कौतूहलिनि'. ३ 'असह्योष्मणि'. ४ 'जले'. ५ 'श्वसु'; 'श्वासिश्वाप-
देपु'. ६ 'कूलप्रौढकर्दम'. ७ 'समङ्गाङ्गणे'; 'तरङ्गाङ्गणे'. ८ 'खर्वेति नास्ति'. ९ 'अमन्देति
नास्ति'. १० 'प्रमदेन'