नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 191, कुल 258 में से
संदर्भ में पढ़ेंषष्ठ उच्छ्वासः । १७१
कदा किल भविष्यन्ति कुण्डिनोद्यानभूमयः ।
उत्फुल्लस्थलपद्माभभवच्चरणभूषिताः ॥ २१ ॥'
इति लेखलिखितप्रणयसुभाषितामृतरसप्लवेनाप्लावितहृदयः, 'विधे,
विधेहि मे पक्षिण इव पक्षयुगलमुड्डीय येन तां पश्यामि' इति चिन्त-
यन्नरंपतिः पुरतः स्थितं तं प्रियावार्तिकमाश्लिष्यन्निवोद्गतर रोमाञ्चनिच-
येन, पिवन्निवाभिलाषतृषितया दृशा, स्नपयन्निव मधुरस्मितामृतर-
सेन, पुनः पुनः सादरमभाषत ॥ क ॥
'पुष्कराक्ष, सा सर्वथा विजयते राजपुत्री । यस्याः प्रसन्नमुदारस-
त्कान्तिश्लिष्टं सुकुमारमनेकालंकारभाजनं वयो वचनं च, सप्रश्रयः
प्रगल्भो विवेकवान्विदग्धबुद्धिर्भवद्विधः परिजनश्च ॥ ख ॥
तत्कथय 'कथनीयकीर्तिः क्वास्ते कथमास्ते कं विनोदमनुतिष्ठति
केन व्यापारेण परिणामयति वासरं वाऽसौ भवत्स्वामिसुता'
इत्येवमुक्तः स पुनः पल्लवयन्ननुरागकन्दलं नलमलपत् ॥ ग ॥
'त्वद्देशागतवायसाय ददती दध्योदनं पिण्डितं
त्वन्नाम्नः सदृशे दृशं निदधती वन्येऽपि मुग्धा नले ।
त्वत्संदेशकथार्थिनी मृगयते तान्राजहंसान्पुनः
क्रीडोद्यानतरङ्गिणीतरुतलच्छायासु वापीषु च ॥ २२ ॥
अपिच । सांप्रतं तया
त्वद्देशागतमारुतेन मृदुना संजांतरोमाञ्चया
त्वद्रूपाञ्चितचारुचित्रफलके निर्वापयन्त्या दृशम् ।
त्वन्नामामृतसिक्तकर्णपुटया त्वन्मार्गवातायने
नीचैः पञ्चमगीतिगर्भितगिरा नक्तंदिनं स्थीयते ॥ २३ ॥'
पुष्करेति ॥ प्रसन्नं निर्मलम् । उदारं रम्यम् । सत्कान्ति तेजस्वि । श्लिष्टं सुघटि-
तसर्वावयवम् । कुमारं मृदु । अनेकालंकारभाजनं बहुभूषणपात्रम् । वयःशब्देन
तदाधारभूतं शरीरमुच्यते । पक्षे प्रसन्नं झटित्यर्थप्रतीतिकृत् । महार्थमुदारम् ।
औज्ज्वल्यं कान्तिः । मसृणत्वं श्लेषः । अजरठं सुकुमारम् । अनुप्रासोपमादयोऽलं-
काराः ॥ ख ॥
त्वद्देशेति ॥ तव नामापि दुर्लभं ततोऽस्य सदृशे समुचिते । 'नाम्ना त्वत्स-
दृशे' इत्यायः पाठः । सतु स्पष्ट एव ॥ २२ ॥
त्वद्देशागतेति ॥ नीचैरिति निभृतम् । प्रच्छन्नरागत्वात् ॥ २३ ॥
१ 'नरपतिरग्रतः'. २ 'मुदारकान्ति'. ३ 'पुत्री'.