सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 19, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 19

प्रथम उच्छ्वासः । ५
सदूषणापि निर्दोषा सखरापि सुकोमला ।
नमस्तस्मै कृता येन रम्या रामायणी कथा ॥ ११ ॥
व्यासः क्षमाभृतां श्रेष्ठो वन्द्यः स हिमवानिव ।
सृष्टा गौरीदृशी येन भवे विस्तारिभारता ॥ १२ ॥
कर्णान्तविभ्रमभ्रान्तकृष्णार्जुनविलोचना ।
करोति कस्य नाह्लादं कथा कान्तेव भारती ॥ १३ ॥
शश्वद्वाणद्वितीयेन नमदाकारधारिणा ।
धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः ॥ १४ ॥
तस्यावस्थानात् । तथा मा लक्ष्मीः, इः कामः, ताभ्यां सहितः समेर्विष्णुस्तत्र सेव-
नाय मतिर्यस्य । विष्णुपक्षीय इति भावः ॥ १० ॥
संप्रति वाग्विलासाधारानुदारान्वाल्मीकिप्रभृतीनकतिचित्कवीन्वर्णयन्नाह—स-
दूषणेति ॥ अपिर्विरोधे । स च दूषणखरयोर्दोषार्थकठिनार्थकत्वे भवेत् । परिहारस्तु
दूषणखरौ राक्षसौ यत्र वर्णितौ । इह्यानुक्तोऽपि वाल्मीकिः प्रतीयते । 'प्रौढविशे-
षणयोगाद्विशेष्यप्रतिपत्तिः' इति वचनात् । किं चासौ भगवान्मर्त्यलोके काव्यसृ-
ष्टिप्रथमवेधा निरुपमरमणीयकरामायणनिर्माणप्रवीणतयैव निर्दिश्यमानः प्रकृष्यते ।
नत्वितरसाधारणसंज्ञामात्रनिर्देशेन । अतएव कवितोत्कर्षचमत्कृतेन वाक्यसमाप्तिं
प्रतीक्षितुमक्षमेण त्रिविक्रमेण वाक्यगर्भेऽपि तस्मै नम इति भक्तिप्रकर्षप्रकाशनमु-
क्तम् । अर्धयोर्व्यत्यासपाठे तु गर्भितदोषशङ्कैव न स्यात् ॥ ११ ॥
व्यास इति ॥ स कृष्णद्वैपायनो वन्द्यः । किंभूतः । क्षान्तानां मध्येऽतिशयेन
प्रशस्यः । तथा येनेदृशी सर्वत्र विख्याता विस्तरणशीलं भारतं यस्यां सा भवे
संसारे गौर्वाक्सृष्टा । क इव । हिमवानिव । किंभूतः सः । क्षमाभृतां भूभृतां
श्रेष्ठः । तथा येन भवे शिवे रतानुरक्तैवंभूता गौरी सृष्टा । किंभूता । विस्तारिणी
भा कान्तिर्यस्याः ॥ १२ ॥
कर्णेति ॥ कर्णस्य राधेयस्यान्ते विनाशे सति विभ्रमेण विस्मयेन वेगरुडस्य
भ्रमेण वाऽतिलाघवेन भ्रान्ता विचरितुं प्रवृत्ताः कृष्णपार्थधृतराष्ट्रा यस्याम् । केव ।
कान्तेव । किंभूता । श्रवणपर्यन्ते विलासेन भ्रान्ते स्फुरिते कृष्णार्जुने श्यामवलक्षे
विलोचने नेत्रे यस्याः ॥ १३ ॥
शश्वदिति ॥ वाणः कविः शरश्च । गुणाढ्यकविर्वृहत्कथाकारो गुणेन ज्यया
युक्तश्च । न मदाकारं स्तब्धत्वादिरूपं धरतीत्येवंशीकः कविः । बाणाकर्षणाय नम-
दाकारं धरतीत्येवंशीलं धनुः । रञ्जितः प्रमोदं प्रापितः । अरमत्यर्थे जितो जनः
प्रतिपक्षलोकश्च ॥ १४ ॥
१ 'तस्मै नमः'.