सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished258 पृष्ठ

पृष्ठ 18, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 18
पृष्ठ 18 स्कैन

४ नलचम्पूः ।
अक्षमालाप्रवृत्तिज्ञा कुशासनपरिग्रहा ।
ब्राह्मीव दौर्जनी संसद्वन्दनीया समेखला ॥ ७ ॥
रोहणं सूक्तरत्नानां वृन्दं वन्दे विपश्चिताम् ।
यन्मध्यपतितो नीचः काचोऽप्युच्चैर्मणीयते ॥ ८ ॥
अत्रिजातस्य या मूर्तिः शशिनः सज्जनस्य च ।
क्व सा वै रात्रिजातस्य तमसो दुर्जनस्य च ॥ ९ ॥
निश्चितं ससुरः कोऽपि न कुलीनः समेऽमतिः ।
सर्वथासुरसंबद्धं काव्यं यो नाभिनन्दति ॥ १० ॥
चरणक्षेपेऽनिपुणाः । तथा जनन्या मातृ रागहेतवोऽनुरागकारणम् । तथा वही-
र्लीला निष्ठीवनजलानि पिबन्तीति बहुलालापाः । यद्वा बह्व्यो लाला अप्सुरूपा
येषु ॥ 'ऋक्पूर-' इति सूत्रेण समासान्तः ॥ ६ ॥
कारणं विनापि केचित्परोत्कर्षमसहिष्णवः । ततस्तानेव क्षुद्रान्काव्यप्रवृत्तिभङ्ग-
हेतुञ्छब्दमात्रेण गौरवयन्नाह—अक्षेति ॥ दुष्टानां कृत्याकृत्यभव्याभव्यविशेषवि-
वेकविकलानां जनानांमियं दौर्जनी संसद्सभा वन्दनीया नमस्कार्येत्युपहासवाक्य-
म् । श्लेषतस्तु वन्दे गृसौ करणीया वन्दनीया । केव । ब्रह्मणां विप्राणामियं ब्राह्मी
द्विजसभेव । यथा द्विजसभा वन्यते तथा दुर्जनसंसदपि वन्या । किंभूता दौर्जनी ।
अक्षमया रुषा संभाषणस्य वृत्तिं जानाति कोपोल्लापयुग्वाक्प्रसरा । तथा कुशासनस्य
कुत्सितशिक्षणस्य स्वीकारो यस्याः । तथा समे साधावपि खला प्रतिपक्षभूता ।
द्विजसभा लक्षमालाया भ्रमणं जानाति या । तथा दर्भासनस्य स्वीकारो यस्याः ।
तथा मेखलया मौञ्ज्या सहिता ॥ ७ ॥
रोहणमिति ॥ सुभाषितान्येव रत्नानि तेषां प्रशस्तरत्नानां वा रोहणमुत्पत्ति-
स्थानं माणिक्यशैलो वा । 'कच बन्धे' कच्यन्तेऽर्था अनेनास्मिन्वा काचः प्रबन्धः
क्षारमृद्विकारश्च । विपश्चितो ह्येतादृशमपि प्रबन्धं व्याख्यानप्रागल्भ्यादनुगृह्योत्कर्षं
लम्भयन्ति ॥ ८ ॥
आस्तां सज्जनदुर्जनयोः शीलेन साम्यम् । यावन्मूर्त्यापि महदन्तरमिति निरूप-
यन्नाह—अत्रीति ॥ अत्रिमुनिजातस्य शशाङ्कस्य न त्रिभिर्जातस्य सज्जनस्य च
या मूर्तिः सर्वाभीष्टा सा वै स्फुटं रात्रिजातस्य तमसस्त्रिजातस्य दुर्जनस्य च क्व ।
यतो दुर्जनस्य वैरा वैरप्रधाना । सज्जनस्य त्ववैरा ॥ ९ ॥
निश्चितमिति ॥ सुष्ठु रसाः शृङ्गारादयो यत्र तथा बद्धं रचितं काव्यं ग्रन्थं
यो नाभिनन्दति स निश्चितं ध्रुवं ससुरो मद्यपः कोऽपि । नच कुलीनः नाभि-
जातः । सर्वथा समे साधावमतिः । असुरैः संबद्धं मिलितं काव्यं भृगुं यो न
नन्दति स सुरो देवः कोऽपि । तथा न कौ भूम्यां लीन आश्लिष्टः । स्वर्ग एव
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA