सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished258 पृष्ठ

पृष्ठ 20, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 20
पृष्ठ 20 स्कैन

६ नलचम्पूः ।
इत्थं काव्यकथाकथानकरसैरेषां कवीनाममी
विद्वांसः परिपूर्णकर्णहृदयाः कुम्भाः पयोभिर्यथा ।
वाचो वाच्यविवेकविप्लवधियामीदृग्विधां मादृशां
लप्स्यन्ते क्व किलावकाशमथवा सर्वसहाः सूरयः ॥ १५ ॥
वाचः काठिन्यमायान्ति भङ्गश्लेषविशेषतः ।
नोद्वेगस्तत्र कर्तव्यो यस्मान्नैको रसः कवेः ॥ १६ ॥
काव्यस्याम्रफलस्येव कोमलस्येतरस्य च ।
बन्धच्छायाविशेषेण रसोऽप्यन्यादृशो भवेत् ॥ १७ ॥
अस्ति समस्तमुनिमनुजवृन्दवृन्दारकवन्दनीयपादारविन्दस्य भगव-
तो विधेर्विश्वव्यापिन्यापारपारवश्यादवतीर्णस्य संसारचक्रे क्रतुक्रिया-
काण्डशौण्डस्य शाण्डिल्यनाम्नो महर्षेर्वंशः ॥ क ॥
श्रूयन्ते च यत्र श्रवणोचिताश्चन्दनपल्लवा इव केचिदनूचानाः शुचयः
सत्यवाचो विरञ्चिवर्चसोऽर्चनीयाचारा ब्रह्मविदो ब्राह्मणाः । पुण्यज-
नाश्च न च ये लङ्कापुरुषाः, सूसूत्राश्च न च ये लम्पटाः, प्रसिद्धाश्च न-
च ये लम्पाकाः, कामवर्षाश्च न च ये लङ्घनाः सन्मार्गस्य, नववयसो-
इत्थं कविवर्णनं संक्षिपन्नाह—इत्थमिति ॥ तर्हि कथाग्रथनप्रयत्नेन किमि-
त्याह—अथवेति ॥ १५ ॥
भङ्गश्लेषमुक्तिविशेषेण संवृण्वन्नाह—वाच इति ॥ यतो हेतोः कवेः काव्य-
कर्तुर्नेको रसो नैका रुचिः प्रसत्तिलक्षणा व्युत्पत्तिलक्षणाप्यस्ति ॥ १६ ॥
ननु प्रसत्तिमार्गेण कोमलमेव काव्यं निबध्यताम्, किमितरेण व्युत्पत्तिमार्गेण
भङ्गश्लेषकृतकाठिन्येनोद्वेगहेतुनेत्यत आह—काव्यस्येति ॥ कोमलस्य प्रसन्नस्ये-
तरस्य व्युत्पन्नस्य काव्यस्य रचनाचारुत्वेन रसोऽपि शृङ्गारादिरसोऽप्यन्यादृशोऽन्य-
रूपो व्युत्पत्तिचर्चया सोत्कर्ष इव स्यात् । कस्येव । आम्रफलस्येव । यथाम्रफलस्या-
कारवैसादृश्यं बन्धस्य वृन्तस्य नीलपीतादिच्छायायाश्च विशेषेण यावद्रसः स-
खादोऽप्यन्यादृग्भवति । बध्यतेऽनेनेति कृत्वा बन्धो वृन्तं फलारम्भकरसकणि-
कारूपो वा । काव्यपक्षे बन्धो रचना ॥ १७ ॥ क ॥
श्रूयन्त इति ॥ यत्र महर्षेर्वंश ईदृशा ब्राह्मणाः श्रूयन्त इत्यन्वयः । कीदृशाः ।
श्रवण आकर्णन उचिता योग्याः । पुण्यरूपत्वात् । चन्दनपल्लवास्तु श्रवणयोः
कर्णयोरवतंसीकरणाय योग्याः । पुण्यजना यातुधाना लङ्कावासिनो नेति विरोधः ।
पुण्याः पवित्रा जना लोका अलमर्थे न कापुरुषा इति विरोधपरिहारेण ब्राह्मणाः
प्रशस्यन्ते । एवमग्रेऽपि । तथा सूत्रेण तन्तुना सहिता अप्यत्यन्तं पटाभाववन्तः ।
१ 'फलस्यापि'. २ 'च श्रवणोचिताः'. ३ 'इव तत्र केचित्'. ४ 'सूरयः'.
५ 'सत्यवाचिनः'. ६ 'सुसूत्राश्च'.