सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished258 पृष्ठ

पृष्ठ 17, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 17
पृष्ठ 17 स्कैन

प्रथम उच्छ्वासः । ३

प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः ।
भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ ४ ॥
किं कवेस्तेन काव्येन किं काण्डेन धनुष्मतः ।
परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥ ५ ॥
अप्रगल्भाः पदन्‍यासे जननीरागहेतवः ।
सन्त्येके बहुलालापाः कवयो बालका इव ॥ ६ ॥

प्रकरणान्म‍नसि परिस्पन्दश्चमत्कारी स्फूर्तिर्विशेषो यस्य । पक्षेऽगाधो गम्भी-
रोऽन्तर्मध्ये परि समन्तात्स्पन्दश्चलनमावर्तविशेषो यस्य । तथा विबुधानां
देवानां पण्डितानां वा हर्षस्थानम् । भारतीविलासेन हि सुराणामपि प्रमोदः
संपद्यते । पक्षे वीनां पक्षिणां मध्ये बुधा राजहंसास्तेषां हर्षस्थानम् । तथा
रसानां शृङ्गारादीनामन्तरेण विशेषेण प्रौढं प्रगल्भम् । पक्षे रसाया भूमेरन्तरे
मध्ये प्रवहति स्म । कर्तरि क्तः । सरस्वती किल म्लेच्छदेशे न्यग्भूय तदन्ते
पुनरुद्भवतीति लोकश्रुतिः ॥ ३ ॥

प्रसन्ना इति ॥ कीदृश्यो वाचः । नानानेकधा प्रसन्नाः प्रसादगुणोपेताः ।
शब्दगुणः प्रसाद ओजोमिश्रितशैथिल्यात्मा । अर्थगुणस्तु प्रसादो वैमल्यं झटि-
त्यवबोधगोचरत्वम् । तथाच काव्यप्रकाशकारः—'श्रुतिमात्रेण शब्दानां येनार्थ-
प्रत्ययो भवेत् । साधारणः समग्राणां स प्रसादो गुणः स्मृतः ॥' इति । यद्वा
प्रसन्नाः समासरहिताः । उक्तं च—'माधुर्यमभिवाञ्छन्तः प्रसादं च सुमे-
धसः । समासवन्ति भूयांसि न पदानि प्रयुञ्जते ॥' इति । तथानेकधा कान्ति-
गुणेन हर्तुं मनो वशीकर्तुं शीलं यासाम् । शब्दगुणः कान्तिरुज्ज्वल्यम् ।
ग्राम्यादिभिरनभिप्रयुक्तत्वमिति यावत् । अर्थगुणस्तु कान्तिर्दीप्तरसत्वम् ।
तथा नाना शब्दगुणार्थगुणार्यालंकारशब्दांलकाररूपं चतुर्विधं श्लेषं विशेषेण
चक्षते याः । शब्दगुणो मसृणत्वं श्लेषः । अर्थगुणस्तु श्लेषो घटना । शब्द-
कृतः शब्दालंकारः श्लेषः । अर्थकृतस्तु श्लेषोऽर्थालंकारः । स्त्रियस्तु प्रसन्नास्तो-
षान्विताः । तथा कान्त्या वपुषो गुणविशेषेण मनोज्ञाः । तथा नानानेकविधे स्पृष्टक-
विद्धक-उद्घृष्ट-पीडन-लतावेष्टक-वृक्षाधिरूढ-तिलतण्डुल-क्षीरनीर-ऊरु-पगूढ-
जघनोपश्लेष-स्तनालिङ्गन-ललाटिक-रूपे द्वादशविध आलिङ्गने विचक्षणा
दक्षाः ॥ ४ ॥ ५ ॥

अथ कुकविनिन्दाव्याजेन विपरीतगिरामग्राह्यत्वमाह—अप्रगल्भा इति ॥
एके कवयो बालका इव सन्ति । किंभूताः कवयः । पदानां सुप्तिङन्तरूपाणां
न्यासे नैयत्यप्रयोगेऽप्रगल्भा अनिपुणाः । तथा जनानां विदुषां नीरागे रागाभावे
हेतवः कारणम् । नहि तादृशां काव्यं श्रुत्वा रसिकानां कश्चिच्चमत्कारः संजायते ।
तथा बहुल आलापो येषाम् । एतेन निःसारवक्तृत्वोक्तिः । बालकास्तु पदन्‍यासे

१ 'तस्य'.