नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 157, कुल 258 में से
संदर्भ में पढ़ेंतदायुष्मति, स्वामिसुते यथा मया तँत्कथाप्रश्नानुराग उपलक्षित-
स्तथा निश्चितमँचिरादयमेष्यति' इत्यभिधाय स ब्राह्मणः स्वगृहैम-
गात् ॥ क ॥
गते च तस्मिन्दमयन्ती 'श्लाघ्यः स कः कालः, धन्यः स कैतमो
वासरः, सँलक्षणा सा का नाम वेला, यस्यामिदमिन्दुदर्शनेनेव कुमु-
द्मसच्चक्षुस्तदालोकनेन कैम्प्यानन्दमनुभविष्यति, इति चिन्तयन्ती
कान्यपि दिनानि कयाप्यवस्थया व्यनैषीत् ॥ ख ॥
अथ नलोऽप्याम्मन्त्रितस्तेन ब्राह्मणेन रणरणकेन च, प्रेरितो म-
न्त्रिणा मदनेन च, परिवृतः सेनयोत्कण्ठया च, तत्कालमेव विदर्भ-
मण्डलाभिमुखमुद्चलत् ॥ ग ॥
चलिते च चैतुरङ्गबैलचलनचूर्णितशिलोच्चयचक्रवाले चक्रिचक्रच-
ङ्क्रमणचीत्कारबधिरितककुभि विषमवैरिवृन्दवनवैश्वानले नले, चल-
न्तश्चटुलतरचरणप्रहाररणितधरणिमण्डलाः कान्तकाञ्चनरचनारोचि-
ष्णवश्चकासांचक्रुश्चक्रवर्तिवाहनोचिताः साश्चर्यमपर्यन्तपर्यायाः पर्या-
णितास्तुरङ्गाः, शृङ्गारिताश्च चलचारुचामरावेधूलनालंकृतकपोलभि-
त्तिभागसंलॅगितभृङ्गसंगीतमुखरितमुखमण्डलाः कथमप्याधोरणनि-
रुध्यमानशौर्यविकारस्फुरणाः स्फुरत्कुम्भभित्तिसिन्दूरा दूरापसा-
रितस्यन्दनाः स्यन्दमानामन्दमदकर्दमितमेदिनीकाः कम्पयांबभूवुर्भुवं
भूरिभारभुग्नाङ्गपन्नगशिरैः शिथिलावष्टम्भामिभेन्द्राः ॥ घ ॥
किंबहुना ।
तत्रावसरे
पूर्वापरपयोराशिसिमासंक्रान्तसैनिके ।
तस्मिन्सस्मार भूर्भाराद्वराहवपुषो हरेः ॥ ३० ॥
अपिच ।
पूर्वेति ॥ पूर्वापरसागरावधिसंक्रान्तचमूचरे तस्मिन्नले भूर्मेदिनी भाराद्धेतो-
र्हरेः सस्मार । 'अधीगर्थ-' इति सूत्रेण कर्मणि षष्ठी ॥ ३० ॥
१ 'त्वत्कथा'. २ 'अचिरादेष्यति'. ३ 'स्वगृहान्'. ४ 'कः'. ५ 'सुलक्षणा'. ६
'कथमपि'. ७ 'चलच्चतुरङ्ग'. ८ 'बलचमूचलन'. ९ 'काञ्चनाभरणरचना'. १० 'धूनना';
'चूला'. ११ 'संकलित'; 'संमिलितमदमिलित'; 'संग्रलितमदजललुलित'. १२ 'विस्फु-
रणः'. १३ 'शिरःसहस्रैः'.