नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 158, कुल 258 में से
संदर्भ में पढ़ें१३८ नलचम्पूः।
आसीत्पिण्डितपाण्डुपङ्कजवनं श्वेतातपत्रैः क्वचि-
न्मायूरातपवारणैः क्वचिदभूदुन्नालनीलोत्पलम् ।
उन्मेघं क्वचिदूर्ध्वधूलिपटलैस्तस्य प्रयाणेऽभव-
त्प्रोद्वीचि क्वचिदम्बरं सर इव प्रेङ्खत्पताकापटैः ॥ ३१ ॥
जाताश्च जङ्घाजघनस्पृशो, वक्षःस्थलीलोलनलम्पटा, ग्रीवाग्रहणा-
ग्रहिण्यः, प्रसमं लगन्त्यो वक्त्रेषु, निस्त्रपाः स्त्रिय इव, नखपदामिघा-
तोद्यताः, चुम्बन्त्यश्चिबुककपोलधराक्षूंषि सैनिकानाम्, अतिप्रसरेण
शिरोऽवलग्नाः, प्रबला धूलयो, वियदावरणाश्च चक्रुरुच्चैरतिप्रसङ्गमा-
सन्नवननिकुञ्जेषु ॥ क ॥
कूजन्तश्च कोटिशः कोदण्डमण्डलाग्रव्यग्रपाणयः, पाणिनीया इवा-
धिकरणकर्मकुशलाः समुल्लसन्तो विचेलुर्बलानपटवो लाम्पट्योल्लुण्ठि-
तरिपुर्पुरः पुरः पदातयः ॥ ख ॥
तत्र च व्यतिकरे
मन्दं मन्दरमन्दिरेषु शयितानुन्निद्रयन्किन्नरा-
न्मेरोर्मस्तक्कंदरे प्रतिरवानुत्थापयन्नुल्बणः ।
आध्वं धावत यात मुञ्चत पुरः पन्थानमेवंविध-
स्त्रैलोक्यं बधिरीचकार बहलः सैन्यस्य कोलाहलः ॥ ३२॥
आसीदिति ॥ सितच्छत्त्रैः पिण्डितपुण्डरीकवनं, श्रीकरीभिः सनीलोत्पलं,
रेणुपटलैरून्नतमेघं, क्वचिच्चलद्ध्वजाञ्चलैः प्रवृद्धोर्ध्वरङ्गं, तडागमिवाम्बरमाकाशं तत्प्र-
याणेऽभूत् । प्राच्यदेशे महासरःसु मेघा अम्भो ग्रहीतुमुन्नमन्त इति प्रसिद्ध्योन्मे-
घत्वमुक्तम् ॥ ३१ ॥
जाताश्चेति ॥ धूलयो निर्लज्जाः स्त्रिय इव । जङ्घेत्यादीन्युभयत्र समानानि ।
नखा अश्वादीनां खुराः, पदं पादविन्यासस्तेषामभिघातादुत्थिताः । पक्षे नखक्षत-
पदयोश्चाभिघाते उद्यताः सोद्यमाः । बलात्सैन्यात्प्रवृद्धाः, पक्षे प्रवृद्धवीर्याः । विय-
दावरणा नभश्छादिन्यो विगच्छद्ध्वजाश्च । वियन्नभः । विपूरेण्वेषेणः शतरि च विय-
दिति । अतिप्रसङ्गमभिव्याप्तिं, पक्षे रतिप्रसङ्गं सुरतप्रबन्धम् ॥ क ॥
कूजन्तश्चेति ॥ पदातयो विचेलुः । किं कुर्वन्तः । कोटिशोऽनेकधा कूजन्तः
शब्दायमानाः । तथा कोदण्डेन धनुषा मण्डलाग्रेण चासिना व्याकुलाः पाणयो
येषां ते । तथाधिकं रणकर्मणि कुशलाः । पाणिनीयपक्षेऽधिकरणकर्मणी कारके ।
लाम्पट्येनोल्लुण्ठिता अरिपुरोऽरिनगर्यो यैः । पुरोऽग्रतः ॥ ख ॥
१ 'पुरः पदातयः'; 'अरिपुरःपुरः पदा', २ 'कन्दर', ३ 'बृहतः'