सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 85, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 85

सर्गः १ ] जीवातु·दमयन्तिकासहितम् । ६९
पक्षिणः इतो गच्छतो गतान् विलोकयन्त्यास्तव स क्षणः = स कालः, कीदृक्
भविता = भविष्यति, वज्रपातप्राय इति भावः । कर्त्तरि लुट् ॥१३७॥
'मेरा प्रियतम कितनी दूर है और मेरे लिए सन्देश तथा मृणाल भेजने में
उसने बड़ी देर कर दी' — इस प्रकार हे प्यारी ! जब तू ( चारा लेकर लौटे हुए
अन्य) पक्षियों से पूछेगी और ( तब कुछ न कहकर, केवल मेरे शोक में) पक्षियों
को रोता हुआ देखेगी तो तेरा वह समय कितने कष्ट से बीतेगा ? ॥१३७॥
कथं विधातमयि पाणिपङ्कजात्तव प्रियाशैत्यमृदुत्वशिल्पिनः ।
वियोक्ष्यसे वल्लभयेति निर्गता लिपिर्ललाटन्तपनिष्ठुराक्षरा ॥१३८॥
कथमिति । हे विधातः ! प्रियायाः वरटायाः शैत्यमृदुत्वशिल्पिनः =
तादृक् तदङ्गशैत्यमार्दवनिर्माणकात् तब पाणिपङ्कजात् = पङ्कजमृदुशिशिरात् पाणे-
रित्यर्थः । मयि विषये 'वल्लभया सह वियोक्ष्यसे' इति एवंतरूपा अत एव
[ललाटन्तपनिष्ठुराक्षरा ] ललाटं तपन्ति दहन्तीति ललाटन्तपानि । 'सूर्यं-
ललाटयोर्दृशितपोः' इति खल्प्रत्ययः । 'अरुर्द्विषत्' इत्यादिना मुमागमः । तानि
निष्ठुराणि कर्ककठोराणि, चाक्षराणि यस्याः सा । लिपिः = अक्षरविन्यासः, कथं
निर्गता = निःस्रुता ? । अत्र कारणात् विरुद्धकार्योत्पत्तिकथनाद्विषमालङ्कारभेदः ।
'विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य भावयेत् । विरूपघटना वा स्याद्विषमालङ्कृतिर्मता' इति॥
हे विधाता ! मेरी पत्नी के शीतल ( अङ्ग ) तथा कोमल ( स्वभाव ) बनाने
वाले आपके इन्हीं कर-कमलों द्वारा — 'प्राणवल्लभा के साथ तेरा वियोग होगा'—
यह ( अङ्ग-शीतलता के विरुद्ध ) उत्तमाङ्ग-शिर में ताप-जनक और ( मृदुत्व के
प्रतिकूल ) निष्ठुर उक्ति मेरे माथे में—कैसे लिखी गयी ? ॥१३८॥
अथ स्वयूथ्यैरशनिक्षतोपमं ममाद्य वृत्तान्तमिमं बतोदिता ।
मुखानि लोलाक्षि ! दिशामसंशयं दशानि शून्यानि विलोकयिष्यसि ॥१३९॥
अद्येति — अद्य = अस्मिन् दिने । 'सद्यः परुत्' इत्यादिना निपातः । स्वयूथ्यैः =
स्वसहचरैर्हंसैः कर्तृभिः अशनिक्षतोपमं = वज्रप्रहारप्रायं मम इमं वृत्तान्तम् =
अनर्थवार्त्ता उदिता = उक्ता सती । वदेब्रु'अर्थस्य दुहादित्वादप्रधाने कर्मणि क्तः ।
'वचिस्वपि'इत्यादिना सम्प्रसारणम् । अयि लोलाक्षि ! चञ्चलनेत्रे दश अपि
दिशां मुखानि शून्यानि = आलम्ब्य लक्ष्याकाराणि विलोकयिष्यसि, असंशयं =
सन्देहो नास्तीत्यर्थः । अर्थाभावेऽव्ययीभावः । बत इति खेदे ॥१३९॥