नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 84, कुल 226 में से
संदर्भ में पढ़ें६८ नैषधचरितम् । [ प्रथमः
नास्तीत्यर्थः । जरातुरा = स्वयमप्यसमर्थेत्यर्थः, वरटा = स्वभार्य्या । 'हंसस्य योषि-
द्वरटा'इत्यमरः । नवप्रसूतिः = अचिरप्रसवा, तपस्विनी = शोच्या एष जनः=
स्वयमित्यर्थः । तयोः = जाया-जनन्योः गतिः = शरणं तं = जनं, मामित्यर्थः ।
अर्दयन्=पीडयन् अहो विधे ! = विधातः ! त्वां करुणा न रुणद्धि=मत्पीडनान्न
निवारयतीति काकुः । न रुणद्धि किमित्यर्थः ? ॥१३५॥
वृद्धावस्था के कारण पीडित, अपनी जननी का मैं ही एकमात्र पुत्र हूँ, मेरी
हंसिनी--पत्नी-अभी हाल में ही प्रसूता हुई है और उसकी दशा भी अच्छी नहीं
है । यही जन ( अर्थात् अकेला मैं ) ही उन दोनों का अवलम्ब है । ऐसी परि-
स्थिति में मुझे बे-मौत मारते ( कष्ट पहुँचाते ) हुए, हे विधाता ! क्या तुझे करुणा
नहीं आती ? ॥ १३५ ॥
मुहूर्त्तमात्रं भवनिन्दया दयासखाः सखायः स्रवदश्रवो मम ।
निवृत्तिमेष्यन्ति परं दुरुत्तरस्त्वयैव मातः ! सुतशोकसागरः ॥१३६॥
अथ मातरं शोचयति—मुहूर्त्तेति । हे मातः ! मम सखायः = सुहृदो
दयासखाः = सदयाः अत एव स्रवदश्रवः सन्तः । अश्रु नेत्राग्बु । 'रोदनं चास्र-
मश्रु च'इत्यमरः । मुहूर्त्तमात्रं = क्षणमात्रं भवनिन्दया = संसारगर्हणेन निवृत्ति=
शोकोपरतिम् , एष्यन्ति, किन्तु त्वयैव [सुतशोकसागरः ] सुतशोक एव
सागरः परम् = अत्यन्तः, दुखेनोत्तीर्यत इति दुरुत्तरः = दुस्तरः । तरतेः कृच्छ्रार्थे
खल्प्रत्ययः ॥ १३६ ॥
मेरे ( लँगोटिया यार ) दयालु मित्र ( क्षणभङ्गुर ) संसार की निन्दा करके
और आँसू वहा करके, क्षणभर के बाद अपने कष्ट को भूल जायेंगे; पर हे माता !
एकमात्र आपके लिए, पुत्र-शोकरूपी सागर को, पार करना कठिन होगा ॥१३६॥
मदर्थसन्देशमृणालमन्थरः प्रियः कियद्दूर इति त्वयोदिते ।
विलोकयन्त्या रुदतोऽथ पक्षिणः प्रिये ! स कीदृग्भविता तव क्षणः ॥१३७॥
अथ भार्य्यामुद्दिश्य विलपति-मदर्थेत्यादिना । हे प्रिये ! [ मदर्थसन्देश-
मृणालमन्थरः ] मह्यमिमे मदर्थे । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता च
वक्तव्या ।' तयोः सन्देशमृणालयोः वाचिकबिसयोः मन्थरस्तत्प्रेषणे विलम्बितप्रवृत्तिः
प्रियः कियददूरे = कियति दूरे देशे वर्तत इति त्वया उदिते = उक्ते, पृष्टे सती-
त्यर्थः । अथ = प्रस्थानानन्तरं रुदतः = अनिष्टोच्चारणाशक्त्या अश्रूणि विमुञ्चतः,