सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 83, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 83

सर्गः १ ] जीवातू-मदयन्तिकासहितम् । ६७
फलेन मूलेन च वारिभूरुहां मुनेरिवेत्थं मम यस्य वृत्तयः ।
त्वयाद्य तस्मिन्नपि दण्डधारिणा कथं न पत्या धरणी हृणीयते ? ॥१३३॥
फलेति । यस्य मम मुनेरिव वारिभूरुहां = जलरुहां पद्मादीनाम् ; अन्यत्र
वारिरुहां भूरुहाञ्च, फलेन मूलेन च इत्थम् = अनेन दृश्यमानप्रकारेण वृत्तयः =
जीविकाः, तस्मिन् अपि = अनपराधेऽपीति भावः । दण्डधारिणा = दण्डकारिणा,
अदण्ड्यदण्डकेनेत्यर्थः । पत्या त्वया हेतुना । अद्य धरणी कथं न हृणीयते =
जुगुप्सत एवेत्यर्थः । हृणीयतेः कण्ड्वादियगन्ताल्लट् । तत्र हृणीङिति ङित्करणादा-
त्मनेपदम् । अकार्यकारिणं भर्तारमपि गर्हन्ते स्त्रिय इति भावः ॥१३३॥
कन्द-मूल, फल, कमल-नाल आदि को खा करके, मुनियों के समान जीवन-
निर्वाह करनेवाले, मुझ सरीखे जीवों की—आप जैसे (पृथ्वी-पति) व्यक्ति हिंसा
करते हैं तो उन दण्डधारी 'पति' पर मेरी 'माता' धरती क्यों नहीं घृणा करती ? ॥
इतीदृशैस्तं विरचय्य वाङ्मयैः सचित्रवैलक्ष्यकृपं नृपं खगः ।
दयासमुद्रे स तदाशयेऽतिथीचकार कारुण्यरसापगा गिरः ॥१३४॥
इतीति । इति = इत्थं, स खगः = हंसः, तं नृपम्, ईदृशैः = दोषालम्भे-
रित्यर्थः । वाङ्मयैः = वाग्विकारैः । 'एकाचो नित्यं मयटमिच्छन्ति'इति विकारार्थे
मयट्प्रत्ययः । पक्षिकथनात् चित्रं, परैः स्वकार्योद्घाटनादपत्रपा वैलक्ष्यं, परार्तिदर्शने
तन्निवर्त्तनेच्छा या कृपा, ताभिः सह वर्त्तत इति सचित्रवैलक्ष्यकृपं विरचय्य
= विधाय । 'ल्यपि लघुपूर्वात्' इत्यादेशः । दयासमुद्रे तदाशये = तच्चित्ते
कारुण्यरसापगाः = करुणरासनदीः गिरः अतिथीचकार = प्रवेशयामासेत्यर्थः ।
समुद्रे नदीप्रवेशो युक्त इति भावः । रूपकालङ्कारः ॥१३४॥
इस तरह के (धिक्कारयुक्त) कथन से, राजहंस ने राजा नल को चकित,
लज्जित और कृपालु बनाने के बाद, उनके दया-समुद्ररूपी हृदय में—अपनी करुणा-
रसमयी नदी रूपी (वक्ष्यमाण करुणरस-व्यञ्जक) वाणी को—अतिथि बनाकर,
प्रवेश करा दिया ॥१३४॥
मदेकपुत्रा जननी जरातुरा नवप्रसूतिर्वरटा तपस्विनी ।
गतिस्तयोरेष जनस्तमर्हयन्नहो विधे ! त्वां करुणा रुणद्धि नो ॥१३५॥
तावद्गिरः प्रपञ्चयति--मदित्यादिना । तत्र तावद्दैवमुपालभते हे विधे !
जननी = माता, अहमेवैकः पुत्रो यस्याः सा मदेकपुत्रा, जरातुरा =