सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 54, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 54

३८ नैषधचरितम् । [ प्रथमः
इनके शत्रुओं ने माँगकर, दिशाओं का उल्लङ्घन किया है, इनके यश ने सागर
को गौ के खुर के समान (गड़ही) बना दिया है-ऐसा विचारकर, घोड़ों ने अपनी
(टेढ़ी-मेढ़ी) चाल छोड़कर, उस स्थल को मण्डलाकार खड़े होकर, अलंकृत किया ॥
अचीकरच्चारुहयेन या भ्रमीर्निजातपत्रस्य तलस्थले नलः ।
मरुत् किमद्यापि न तासु शिक्षते वितत्य वात्यामयचक्रचंक्रमान् ॥७३॥
अचीकरदिति । नलः [ चारुहयेन ] चारु यथा भवति तथा हयेन प्रयो-
ज्येन कर्त्रा । निजातपत्रस्य, तलस्थले = अधःप्रदेशे । 'अधः स्वरूपयोरस्त्री तलम्'
इत्यमरः । याः भ्रमीः = मण्डलगतीः अचीकरत् = कारितवान् ; करोतेर्णौ चङ् ।
तासु = भ्रमीषु विषये मरुन् अद्यापि । [ वात्यामयचङ्क्रमान् ] वातानां
समूहो वात्याः, वातादिभ्यो यः । अत्र तन्मयो लक्ष्यन्ते । तन्मयान् तद्रूपान्, चक्र-
चंक्रमान् मण्डलगतीः, वितत्य = विस्तीर्य न शिक्षते किं ? = नाभ्यस्यते किमित्यु-
त्प्रेक्षा । शिक्षितश्चेत् तथा सोऽपि गतिं कुर्यादित्यर्थः । वायोरप्यसम्भाविता गतीरची-
करदिति भावः ॥७३॥
नल ने अपने राजछत्र के नीचे सुन्दर घोड़े द्वारा जो मण्डल गति करायी,
उसको पवन अब भी आँधीके रूपमें गोल-गोल घूमकर क्या नहीं सीख रहा है ? ॥
विवेश गत्वा स विलासकाननं ततः क्षणात् क्षोणिपतिर्धृतीच्छया ।
प्रवालरागच्छुरितं सुषुप्सया हरिर्घनच्छायमिवाम्भसां निधिम् ॥७४॥
विवेशेति । ततः स क्षोणीपतिः क्षणाद्गत्वा धृतीच्छया = सन्तोष-
काङ्क्षया । [ प्रवालरागच्छुरितं ] प्रवालाः पल्लवाः; अन्यत्र विद्रुमाः । 'प्रवालो
वल्लकीदण्डे विद्रुमे नवपल्लवे' इत्यमरः । तेषां रागेणारुण्येन, छुरितं रूपितं ।
घनच्छायं = सान्द्रानातपम्, अन्यत्र मेघकान्तिम् । 'छाया त्वनातपे कान्तौ'इति
विश्वः । विलासकाननं = क्रीडावनम्; अन्यत्र वबयोरभेदात्, बिलासकानां बिलेश-
यानां सर्पाणाम् , आननं प्राणनं । सुषुप्सया = स्वप्तुमिच्छया, हरिः = विष्णुः,
अम्भसां निधिम् = अब्धिम्, विवेश ॥७४॥
जिस तरह विष्णु--मूँगे के रङ्ग से व्याप्त और मेघ की कान्तिवाले सागर में
सर्पराज की पीठ पर शयन की अभिलाषा से जाते हैं,उसी तरह राजा नल सन्ताप
दूर करने के लिए लाल-लाल पल्लवों की कोरों से रञ्जित और घनी छायावाले
विलास-कानन में क्षणमात्र में जाकर पहुँचे ॥७४॥