सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 53, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 53

सर्गः १ ] जीवातू-मदयन्तिकासहितम् । ३७
था, उसी (आकाश) को हम चार पैरों से आक्रान्त करेंगे—ऐसा सोचकर,
घोड़े नीचा मुँह कर, आकाश में आधी दूर जाकर, रुक गये ॥७०॥
चमूचरास्तस्य नृपस्य सादिनो जिनोक्तिषु श्राद्धतयेव सैन्धवाः ।
विहारदेशं तमवाप्य मण्डलीमकारयन् भूरि तुरङ्गमानपि ॥७१॥
चमूचरा इति । तस्य नृपस्य, चमूचराः=सेनाचराः । 'चरेष्टन्' । सिन्धु-
देशभवाः सैन्धवाः = अश्वाः । 'हयसैन्धवसप्तयः' इत्यमरः । 'तत्र भवः' इत्यण्-
प्रत्ययः । तत्सम्बन्धिनोऽपि सैन्धवाः 'तस्येदम्' इत्यण् । ते सादिनः = अश्वसादिन
इत्यर्थः । जिनोक्तिषु श्राद्धतया इव = जैनदर्शनश्रद्धालुतयैवेत्युत्प्रेक्षा । 'श्रद्धा-
चाँवृत्तिभ्योऽणः'इतिमत्वर्थीयोऽणप्रत्ययः । तं विहारदेश = सञ्चारभूमि, सुगाताल-
यञ्च । 'विहारो भ्रमणे स्कन्धे लीलायां सुगतालये'इति विश्वः । अवाप्य तुरङ्गमान्
भूरि = बहुलं मण्डलीमपि = मण्डलाकारं च, अकारयन् । अपिशब्दोऽवाप्ति-
समुच्चयार्थः । अन्यत्र मण्डलीं मण्डलासनमित्यर्थः । बौद्धाः स्वकर्मानुष्ठाने प्रायेण
मण्डलानि कुर्वन्ति इति प्रसिद्धिः ॥७१॥
उस राजा के सिन्धुदेशीय घोड़ों के सवार सैनिकों ने—जिस प्रकार बुद्ध के
उपदेश पर श्रद्धा करनेवाले अपने विहार (बौद्धमठ) में आकर, मण्डलाकार खड़े
हो जाते हैं—उसी प्रकार विहार (विहारभूमि) में पहुँचकर, घोड़ों को मण्डला-
कार खड़ा कराया ॥७१॥
द्विषद्विरेवास्य विलङ्घिता दिशो यशोभिरेवान्धिरकारि गोष्पदम् ।
इतीव धारामवधीर्य मण्डलीक्रियाश्रियामण्डि तुरङ्गमैः स्थली ॥७२॥
द्विषद्विरिति । अस्य = नलस्य द्विषद्विरेव, पलायमानैरिति भावः । दिशो
विलङ्घिताः, अस्य यशोभिरेवान्धिः । गोः पदं गोष्पदमकारि = गोष्पदमात्रः
कृतः । 'गोष्पदं सेवितासेवितप्रमाणार्थे'इति सुडागमषत्वयोर्निपातः । इतीव = इति
मत्वा इवेत्युत्प्रेक्षा; अन्यसाधारणं कर्म नोत्कर्षाय भवेदिति भावः । तुरङ्गमैः धारां=
गतिं । जातावेकवचनं; पञ्चापि धारा इत्यर्थः । 'आस्कन्दितं धौरितकं रेचितं वल्गितं
प्लुतम् । गतयोऽमूः पञ्च धाराः'इत्यमरः । अवधीर्य = अनादृत्य मण्डली-
क्रियाश्रिया = मण्डलीकरणलक्ष्म्या, मण्डलगत्यैवेत्यर्थः । स्थली = कृत्रिमा भूः ।
'जानपद'इत्यादिना कृत्रिमार्थे ङीप् । अमण्डि = अभूषि । मडि भूषणायमिति
धातोर्ण्यन्तात् कर्मणि लुङ्-०, इदित्त्वान्नुमागमः ॥७२॥