सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 55, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 55

सर्गः १ ] जीवातु-मदयन्तिकासहितम् । ३९
वनान्तपर्यन्तमुपैत्य सस्पृहं क्रमेण तस्मिन्नवतीर्णदृक्पथे ।
न्यवर्त्ति दृष्टिप्रकरैः पुरौकसामनुव्रजद्वन्धुसमाजबन्धुभिः ॥७५॥
वनान्तेति । अनुव्रजद्वन्धुसमाजबन्धुभिः = स्नेहादनुगच्छद्बन्धुसङ्घसदृशैरित्यर्थः ।
अत एवोपमालङ्कारः । पुरौकसां = नगरनिवासिनां दृष्टिप्रकरैः = दृष्टिसमूहैः कर्तृभिः ।
वनान्तपर्यन्तं = काननोपान्तसीमाम्; उदकप्रान्तपर्यन्तञ्चेति गम्यते । 'वने
सलिलकानने' इत्यमरः । सस्पृहं = साभिलाषं यथा तथा उपेत्य = गत्वा; क्रमेण
तस्मिन् = नले अवतीर्णदृक्पथे = अतिक्रान्तदृष्टिविषये सति । न्यवर्त्ति = निवृत्तं ।
भावे लुङ् । यथा बन्धुभिः 'उदकात् प्रियं पान्थमनुव्रजेत्' इत्यागमात् प्रवसन्त-
मनुव्रज्य निवर्त्त्यते तद्वदित्यर्थः ॥७५॥
तब पीछे पीछे जानेवाले आत्मीयजनों के तुल्य नगर-निवासियों की आँखें—
प्रेमपूर्वक वन की छोर तक जाकर, नल के नजरों से ओझल होने पर—क्रमशः
लौटीं ॥ ७५ ॥
ततः प्रसूने च फले च मञ्जुले स सम्मुखीनाङ्गुलिना जनाधिपः ।
निवेद्यमानं वनपालपाणिना व्यलोकयत् काननरामणीयकम् ॥७६॥
तत इति । ततः = वनप्रवेशानन्तरं, स जनाधिपः = नलः, मञ्जुले = मनोज्ञे
प्रसूने = कुसुमे च फले च विषये, [सम्मुखीनाङ्गुलिना] सम्मुखीना सन्दर्शिनी,
सम्मुखावस्थितवस्तुप्रकाशिकेति यावत् । 'यथामुखसम्मुखस्य दर्शनः खः'इति खप्रत्य-
यान्तो निपातः । तादृशी अङ्गुली यस्य तेन । वनपालपाणिना निवेद्यमानम् ;
इदमिदमित्यङ्गुल्या पुष्पफलादिनिर्देशेन प्रदर्श्यमानमित्यर्थः । काननरामणीयकं =
वनसौन्दर्यम् । 'योपधाद्गुरूपोत्तमद्वुञ्' इति वुञ्प्रत्ययः । व्यलोकयत् =अपश्यदिति
स्वभावोक्तिः ॥७६॥
फिर नल ने सुन्दर फूलों और फलों से लदे हुए उपवन की शोभा देखी—जिसे
माली ने सामने अंगुलि करके दिखाया ॥७६॥
फलानि पुष्पाणि च पल्लवे करे वयोऽतिपातोद्गतवातवेपिते ।
स्थितैः समाधाय महर्षिवाङ्मुखाद्वने तदातिथ्यमशिक्षि शाखिभिः॥७७॥
फलानीति । [ वयोऽतिपातोद्गतवातवेपिते ] वयोऽतिपातेन पक्षिपातेन,
बाल्याद्यपगमेन च, उद्गतेन उत्थितेन, वातेन वायुना वातदोषेण च, वेपिते कम्पिते ।
'खगबाल्यादिनोर्वयः' इत्यमरः । पल्लवे एव करे इति समस्तं रूपकं । फलानि