सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 52, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 52

३६ नैषधचरितम् । [ प्रथमः
Digitized by Sarayu Trust Foundation and eGangotri
एक दूसरे पर भाले की नोक चलायी ; इस प्रकार नल की सेना के अगले मोर्चे पर
स्थित घुड़सवारों की दो टुकड़ियों ने-कुतूहल से नकली लड़ाई का अभ्यास किया ॥
प्रयातुमस्माकमियं कियत्पदं धरा तदम्भोधिरपि स्थलायताम् ।
इतीव बाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुत्थितं रजः ॥६९॥
प्रयातुमिति । इयं धरा = भूः, समुद्रातिरिक्तेति भावः । अस्माकं प्रयातुं
= प्रस्थातुं कियत्पदं = गन्तव्यं स्थानं न किञ्चित् पर्याप्तमित्यर्थः । [ तदम्भोधि-
रपि ] तस्माद् समुद्रोऽपि स्थलायतां = स्थलवदाचरतु, भूरेव भवत्वित्यर्थः । 'कर्तुः
क्यङ् सलोपश्च' इति क्यङ् प्रत्ययः । इतीव = इति मत्वेत्यर्थः । इतिनैव गम्यमानार्थ-
त्वादप्रयोगः, अन्यथा पौनरुक्त्यात् । क्रियानिमित्तोत्प्रेक्षा । [ निजवेगदर्पितैः ]
निजवेगेन दर्पितैः सञ्जातदर्पः, बाहैः = नलाश्वैः पयोधिरोधक्षमं = समुद्रच्छादन-
पर्याप्तं, रज उत्थितम् = उत्थापितं, तथा सान्द्रमिति भावः ॥ ६६ ॥
'हमारे चलने पर, यह पृथ्वी रह ही कितनी कदम जायगी--इस लिए समुद्र
भी स्थल हो जाय।' ऐसा विचारकर, अपने वेग पर गर्व करनेवाले घोड़ों ने, मानों
समुद्र को पाटने के लिए पर्याप्त, धूलि उड़ायी ॥ ६६ ॥
हरेर्यदक्रामि पदैककेन खं पदैश्चतुर्भिः क्रमणेऽपि तस्य नः ।
त्रपा हरीणामिति नम्रिताननैर्न्यवर्ति तैरर्धनभःकृतक्रमैः ॥७०॥
हरेरिति । यत् खम् = आकाशं हरेः = विष्णोः, एककेन = एकाकिना
'एकादाकिनिच्चासहाये' इति चकारात् कन्प्रत्ययः । पदा = पादेन । 'पदङ्घ्रि-
श्चरणोऽस्त्रियाम्' इत्यमरः । 'पद्दन्' इत्यादिना पदादेशः । अक्रामि = अलङ्घि,
तस्य = खस्य चतुर्भिः पदैः क्रमणे = लङ्घने, कृते सत्यपीति शेषः । हरीणां =
वाजिनां, विष्णूनां चेति गम्यते । 'यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुका-
हिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः । उभयत्रापि नः = अस्माकं त्रपा इति
वा इत्यर्थः । गम्यार्थत्वादिवशब्दस्याप्रयोगः । अत एव गम्योत्प्रेक्षा । [नम्रिताननैः]
नम्रीकृतानिः, निम्रीकृतानि आननानि यै स्तैः=हरिभिः । [अर्धनभःकृतक्रमैः] अर्धे
नभसि कृतक्रमैः कृतलङ्घनैः सद्भिः न्यवर्त्ति = निवर्त्तितम्, भावे लुङ् । यदन्येन
पुंसा लघूपायेन साधितं तस्य गुरूपायेन करणं समानस्य लाघवाय भवेदिति भावः ।
एतेन प्लुतगतिरुक्ता, तत्र गगनलङ्घनस्य सम्भवादिति भावः ॥७०॥
CC-0. Prof. Satya Vrat Shastri Collection
जिस आकाश को विष्णु ने (वामनावतार में) एक पग से आक्रान्त किया