सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 29, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 29

सर्गः १ ] जीबातु-मदयन्तिकासहितम् । १३
अधारि पद्मेषु तदंघ्रिणा घृणा क्व तच्छयच्छायलवोऽपि पल्लवे ।
तदास्यदास्येऽपि गतोऽधिकारितां न शारदः पार्विकशर्वरीश्वरः ॥२०॥
अधारीति । [ तदंघ्रिणा ] तस्य नलस्य अङ्घ्रिणा चरणेन, पद्मेषु, घृणा=
अवज्ञा । 'घृणा जुगुप्साकृपयोः'इति विश्वः । अधारि=धृता । पल्लवे=नवकिसलये,
[ तच्छयच्छायलवः ] तस्य नलस्य, शयः पाणिः, 'पञ्चशाखः शयः पाणिः'
इत्यमरः । तस्य छाया, तच्छयच्छायं'विभाषा सेना' इत्यादिना समासे छायाया
नपुंसकत्वम् । तस्य लवो लेशोऽपि क्व = कुतः ? नैवं लेशोऽस्तीत्यर्थः । [शारदः]
शरदि भवः शारदः, शरत्कालीन इत्यर्थः । 'सन्धिवेलाद्यृतुनक्षत्रेभ्यः' इत्यण्प्रत्ययः ।
[ पार्विकशर्वरीश्वरः ] पर्वणि पौर्णमास्यां भवः पार्विकः । पार्वणेति पाठान्तरं ।
कालाट्ठञ्, 'नस्तद्धिते' इति टिलोपः । स च असौ शर्वरीश्वरश्चेति तथोक्तः, पूर्णचन्द्र
इत्यर्थः । [ तदास्यदास्येऽपि ] तस्य नलस्य, यत् आस्यं मुखं, तस्य दास्ये
कैङ्कर्येऽपि, अधिकारितां = योग्यतां, न गतः = न प्राप्तः । एतेनास्य पाणिपाद-
वदनानामनौपम्यं व्यज्यते । अत्र, अंघ्यादीनां पद्मादिषु घृणाद्यसम्भवेऽपि
सम्बन्धोक्तेरतिशयोक्तिरलङ्कारः ॥ २० ॥
नल के चरण ने कमलों पर घृणा ( अवज्ञा ) की। पल्लव में उस के हाथ की
परछाहीं का कहीं लेशमात्र भी पाया जाता था ? शरत्कालीन पूर्णिमा का चन्द्र
तो उन के मुख का दास बनने की भी योग्यता नहीं रखता था ॥ २० ॥
किमस्य रोम्णां कपटेन कोटिभिर्विधिर्न रेखाभिरजीगणद्गुणान् ।
न रोमकूपौघमिषाज्जगत्कृता कृताश्च किं दूषणशून्यविन्दवः ॥२१॥
किमिति । विधिः = विधाता, अस्य = नलस्य, गुणान्, रोम्णां कपटेन =
व्याजेन, कोटिभिः = कोटिसंख्याभिः, रेखाभिः, न अजीगणत् = न गणितवान्
किम् ? अपितु गणितवानेवेत्यर्थः । तथा जगत्कृता=स्रष्ट्रा, विधिनेत्यर्थः। [रोम-
कूपौघमिषात्] रोम्णां कूपाः विवराणि, तेषाम् ओघः समूह एव, मिषं व्याजः
तस्मात् । [ दूषणशून्यबिन्दवः ] दूषणानां दोषाणां, शून्यस्य अभावस्य, बिन्दवः
ज्ञापकचिह्नभूता वर्त्तुलरेखाः, न कृताः किम् ? = अपि तु कृता एवेत्यर्थः । अस्मिन्
गुणा एव सन्ति, न कदाचिद् दोषा इति भावः । अत्र रोम्णां रोमकूपाणाञ्च कपट-
मिषशब्दाभ्याम् अपह्नवे गुणगणनारेखत्व-दूषणशून्यबिन्दुत्वयोरुत्प्रेक्षणात् सापह्नवो-
त्प्रेक्षयोः संसृष्टिः ॥ २१ ॥