नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 28, कुल 226 में से
संदर्भ में पढ़ें१२ नैषधचरितम् । [ प्रथमः
प्रसन्नतापूर्वक अपना समय व्यतीत करते हुए, प्रतिदिन उदय ( १ उन्नति
२ आविर्भाव ) के समान प्रतीत होते थे ॥ १७ ॥
अधोविधानात् कमलप्रवालयोः शिरःसु धानादखिलक्ष्माभुजाम् ।
पुरेदमूर्ध्वं भवतीति वेधसा पदं किमस्याङ्कितमूर्ध्वरेखया ॥१८॥
अध इति । कमलप्रवालयोः = पद्मपल्लवयोः कर्मभूतयोः । अधोविधानात्
= अधःकरणात्, न्यक्करणादिति यावत् । तथा, [ अखिलक्ष्माभुजां ] अखिलानां
सर्वेषां, क्ष्माभुजां प्रतिकूलवर्तिनां राज्ञां । शिरःसु, धानात् = निधानात् । इदम्=
अस्य = नलस्य पदम्, ऊर्ध्वम् = उत्कृष्टम् ऊर्ध्वस्थितञ्च, पुरा भवति = भविष्य-
तीत्यर्थः । 'यावत् पुरा निपातयोर्लट्' इति पुराशब्दयोगात् भविष्यदर्थे लट् । इति=
इत्थं मत्वा, इति शेषः । गम्यमानार्थत्वादप्रयोगः । वेधसा = विधात्रा कर्त्रा, ऊर्ध्व-
रेखया, अङ्कितं = चिह्नितं, किम् ? इत्युत्प्रेक्षा । ऊर्ध्वरेखाङ्कितपदः सर्वोत्कर्षं
भजेत् पुमानिति सामुद्रिकाः । सोन्दर्यसुलक्षणाभ्यां युक्तमस्य पदमिति भावः ॥१८॥
'ये भविष्य में ऊर्ध्व ( सबके ऊपर, सर्वोच्च ) रहेंगे-'क्या यही समझकर
विधाता ने उनके चरण में ऊर्ध्वरेखा अङ्कित की; क्योंकि वह चरण-कमल और
प्रवाल को-नीचा दिखाता (तिरस्कृत करता) था और अखिल राजाओं के शिर
पर विराजमान रहता था ॥ १८ ॥
जगज्जयं तेन च कोशमक्षयं प्रणीतवान् शैशवशेषवानयम् ।
सखा रतीशस्य ऋतुर्यथा वनं वपुस्तथालिङ्गदथास्य यौवनम् ॥१९॥
अथ अस्य यौवनागमं क्रमेण वर्णयति-जगदित्यादिभिः । अयं = नलः,
शैशवशेषवान् = ईषदवशिष्टशैशव एवेत्यर्थः । [ जगज्जयं ] जगतां जयं, तेन
च=जयेनेत्यर्थः । कोषं = धनजातम्, अक्षयं प्रणीतवान् = कृतवान् । अथ =
अनन्तरं, रतीशस्य=कामस्य, सखा, ऋतुः = वसन्त इत्यर्थः । वन यथा,
यौवनम् अस्य=नलस्य, वपुः = शरीरं, तथा, आलिङ्गत् = संश्लिष्टवत् , संक्रान्त-
मित्यर्थः । उपमालङ्कारः ॥ १६ ॥
उन्होंने बाल्यावस्था को पार कर, जगद्विजय कर लिया और उस ( विजय )
से अपना अक्षय राजकोष भी पूर्ण कर लिया । फिर, यौवन ने उनके शरीर का
इस तरह आलिङ्गन किया-जैसे रति-नाथ ( कामदेव ) का मित्र वसन्त वन को
आलिङ्गन करता है ॥ १९ ॥