नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 30, कुल 226 में से
संदर्भ में पढ़ें१४ नैषधचरितम् । [ प्रथमः
क्या विधाता ने रोओं के बहाने, करोड़ों रेखाओं से, नल के गुणों की गणना
तो नहीं की ? और क्या रोम-कूपों के बहाने जगत्स्रष्टा ब्रह्मा ने दोषाभाव को जत-
लाने वाली शून्य की बिन्दु तो नहीं लगा दी ? ॥ २१ ॥
अमुष्य दोर्भ्यामरिदुर्गलुण्ठने ध्रुवं गृहीताऽर्गलदीर्घपीनता ।
उरःश्रिया तत्र च गोपुरस्फुरत्कवाटदुर्घर्षतिरःप्रसारिता ॥२२॥
अमुष्येति । अमुष्य=नलस्य, दोर्भ्यां=भुजाभ्यां कर्तृभ्याम्, अरिदुर्गलुण्ठने
= शत्रुदुर्गभञ्जने, [ अर्गलदीर्घपीनता ] अर्गलस्य कपाटविष्कम्भदारुविशेषस्य ।
'तद्विष्कम्भोऽर्गलं न ना' इत्यमरः । दीर्घञ्च पीनञ्च तयोर्भावो दीर्घपीनता, आयतपीवर
त्वमित्यर्थः । किञ्चेति चार्थः । [ उरःश्रिया ] उरसः वक्षसः, श्रिया लक्ष्म्या कर्त्र्या।
तत्र = अरिदुर्गलुण्ठने [गोपुरस्फुरत्कवाटदुर्घर्षतिरःप्रसारिता] गोपुरेषु पुरद्वा-
रेषु । 'पुरद्वारं तु गोपुरम्' इत्यमरः । स्फुरतां राजतां, कवाटानां दुर्धर्षाणि च तानि
तिरःप्रसारीणि च, तेषां भावस्तत्ता; अप्रधृष्यत्वं तिर्यक्प्रसारित्वञ्चेत्यर्थः । गृहीता
ध्रुवम् = अवलम्बिता किम् ? ध्रुवमित्युत्प्रेक्षाव्यञ्जकम् । तदुक्तं दर्पणे-'मन्ये शङ्के ध्रुवं
प्रायो नूनमित्येवमादयः । उत्प्रेक्षाव्यञ्जकाः शब्दा इव शब्दोऽपि तादृशः' इति ।
दीर्घबाहुः कवाटवक्षाश्चायमिति भावः ॥ २२ ॥
नल के भुजदण्ड, शत्रुओं के किलों पर अधिकार करने में, क्या बेंवड़ों की लम्बाई
और मोटाई नहीं ग्रहण की ? अरि-दुर्ग-लुण्ठनमें उनके वक्षःस्थल की शोभा ने क्या
नगर-द्वार पर शोभायमान किवाड़ की कठिनता और विशालता नहीं ली ? ॥२२॥
स्वकेलिलेशस्मितनिर्जितेन्दुनो निजांशदृक्तर्जितपद्मसम्पदः ।
अतद्द्वयीजित्वरसन्दरान्तरे न तन्मुखस्य प्रतिमा चराचरे ॥२३॥
स्वकेलीति [ स्वकेलिलेशस्मितनिर्जितेन्दुः ] स्वस्य केलिलेशः विलास-
बिन्दुर्यत् स्मितं मन्दहसितं, तेन निर्जितः तिरस्कृतः, इन्दुश्चन्द्रः येन, तथोक्तस्य ।
स्मितरूपकिरणेन निर्जितशीतांशुमयूखस्येति भावः। [निजांशदृक्तर्जितपद्मसम्पदः]
निजांशः स्वावयवः, या दृक् नेत्रं, तया तर्जिता निर्भर्त्सिता, पद्मानां सम्पद् सौभाग्यं,
येन तथाभूतस्य । तन्मुखस्य = नलमुखस्य [अतद्द्वयीजित्वरसन्दरान्तरे ] तयो-
श्चन्द्रपद्मयोः द्वयी तस्या जित्वरं जयशीलं ततोऽधिकमिति यावत् सुन्दरान्तरं नास्ति
यत्र तथाविधे, चराचरे = जगति । 'चराचरं स्याज्जगत' इति विश्वः । प्रतिमा =
उपमानं, न, आसीदिति शेषः । अत्र चन्द्रारविन्दजयविशेषणतया मुखस्य निरौपम्य-