सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 27, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 27

सर्गः १ ] जीवातु मद्यन्तिकासहितम् । ११
[ उत्सर्गजलव्ययः ] उत्सर्गजलानां व्ययः दानाम्बुप्रक्षेपः । मरुः=निर्जलदेशः,
न कृतः इति यत्, तत्=तस्मात्, तेन=नलेन, द्विफाळबद्धाः = द्वयोः फालयोः
शिरःपार्श्वयोः बद्धा रञ्जिता इति यावत् । फलतेर्विशरणार्थे अप्प्रत्ययः । विलासिनां
पुंसां सीमन्तितशिरोरुहत्वात् चिकुराणां द्विपालबद्धत्वमिति भावः । द्विधा विभक्ता
इति यावत् । चिकुराः = केशाः । चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः'
इत्यमरः । शिरःस्थित = मस्तकमृतमिति भावः । [ निजायशोयुगं ] निजं
स्वीयम्, अयशोयुगम् अपकीर्त्तिद्वयं, पूर्वोक्तमेरुविभागसिन्धुजलव्ययाकरणजनित-
मिति भावः । अमानि केशरूपेण द्विधास्थितं स्वशिरसि अयशोयुगमेव तिष्ठति
इति अमन्यत इत्यर्थः । अयशसः पापरूपत्वात् कृष्णवर्णत्वेन वर्णनं कविसमयसिद्धं
तथाच मालिन्यं व्योम्नि पापे इत्यादि । उद्देश्यविधेयरूपं कर्मद्वयम् । केशेषु कार्ण्य-
साम्यात् अयशोरूपणमिति व्यस्तरूपकम् ॥ १६ ॥
सुमेरु पर्वत को काट काट कर, नल ने न तो याचकों को दिया और न दान-
सङ्कल्प के लिए जल लेकर समुद्र.को रेगिस्तान बनाया । इन दोनों को अपयश मान
कर, उन्होंने अपने शिर के ऊपर माँग काढ़े हुए बालों की तरह समझा ॥ १६ ॥
अजस्रमभ्यासमुपेयुषा समं मुदैव देवः कविना बुधेन च ।
दधौ पटीयान् समयं नयन्नयं दिनेश्वरश्रीरुदयं दिने दिने ॥१७॥
अस्य विद्वज्जनसम्माननामाह-अजस्रमिति । [ दिनेश्वरश्रीः ] दिनेश्वरस्येव
श्रीर्यस्य स इति ; अन्यत्र दिने ईश्वरस्येव श्रीः यस्य तथाभूतः । पटीयान् = समर्थ-
तरः । अय देवो = राजा, सूर्य्यश्च । 'देवः सूर्ये यमे राज्ञि' इति विश्वः । अजस्रं =
सततम्, अभ्यासं = सान्निध्यम्, उपेयुषा = प्राप्तवता, सहचारिणा इति यावत् ।
'उपेयिवाननाश्वाननूचानश्च' इति निपातः । कविना = काव्यशास्त्रविदा पण्डितेन,
शुक्रेण च बुधेन=विदुषा धर्मशास्त्रादिदर्शिनेति भावः, सौम्येन च । समं=सह,
मुदैव=आनन्देनैव, न तु दुःखेनेत्येवकारार्थः । समयं = कालं, नयन् = अति-
वाहयन्, दिने दिने = प्रतिदिनम्, उदयम् = अभ्युन्नतिम्, आविर्भावञ्च, दधौ =
धारयामास । अत्र श्लेषालङ्कारः ॥ १७ ॥
दिवाकर की प्रभा की भाँति कान्तिशाली यह देव ( १ राजा, २ सूर्य ) कवि
( १ पण्डित, २ शुक्र ग्रह ) और बुध ( १ विद्वान्, २ बुध ग्रह) के साथ निरन्तर