सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 26, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 26

१०- नैषधचरितम् । [ प्रथमः
प्रकृतस्य परिवेषस्य प्रतिषेधेन अप्रकृतस्य कुण्डलनस्य स्थापनाद् अपह्नुतिरलङ्कारः ।
तदुक्तं दर्पणे--'प्रकृतं प्रतिषिद्ध्यान्यस्थापनं स्यादपह्नुतिः' इति । प्राचीनास्तु-परि-
वेषमिषेण सूर्याचन्द्रमसोः कुण्डलनोत्प्रेक्षणात् सापह्नवोत्प्रेक्षा, सा च गम्या व्यञ्जका-
प्रयोगादित्याहुः ॥ १४ ॥
जब-जब ब्रह्माजी अपने मनमें यह सोचते हैं कि नल के प्रताप और यश के
सामने ये—सूर्य तथा चन्द्र-वृथा हैं, तत्र-तत्र वे मण्डल के बहाने सूर्य-चन्द्र के
चारों ओर शून्य ( गोल घेरा ) बना देते हैं ॥१४॥
अयं दरिद्रो भवितेति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रतीम् ।
मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्र्यदरिद्रतां नल. ॥१५॥
अस्य वदान्यतां द्वाभ्यां वर्णयति अयमिति । विभज्येति च । [अल्पितकल्प-
पादपः ] अल्पितः अल्पीकृतः निर्जित इति यावत्, दानशौण्डत्वादिति भावः ।
कल्पपादपः कल्पतरुः, वाञ्छितफलप्रदवृक्ष इति यावत् , येन तथाभूतः, स नलः ।
[ दारिद्र्यदरिद्रतां ] दारिद्र्यस्य अभावस्य निर्धनत्वस्य इति यावत्, दरिद्र्ताम्
अभावमिति यावत् । प्रणीय = कृत्वा, दरिद्रेभ्यः प्रभूतधनदानेन तेषां दारिद्र्यम्
अपनीयेति भावः । अयं दरिद्रः अभाववानिति यावत्, भविता इति, अर्थिजनस्य
= याचकजनस्य, ललाटे, जाग्रतीं = दीप्यमानामिति यावत् । [ वैधसीं ] वेधस
इयं वैधसी तां, लिपिं, मृषा = मिथ्या, न चक्रे = न कृतवान् । विधातुलिपौ सामा-
न्यतः दरिद्रशब्दस्य स्थितौ दरिद्रशब्दस्य यथायथं धनदरिद्रः पापदरिद्रः ज्ञानदरिद्र
इत्यादिप्रयोगदर्शनाद् अभावमात्रबोधकत्वमङ्गीकृत्य राजा दरिद्राणां धनाभावरूपं
दारिद्र्यमपाचकार इति निष्कर्षः ॥ १५ ॥
याचकों के ललाट पर लिखी हुई 'यह दरिद्र होगा' इस ब्रह्मा की लिपि को नल
ने मिथ्या नहीं किया, उस में केवल इतना सुधार ( दान देकर ) कर दिया कि
'यह दारिद्र्य का दरिद्र होगा;' क्योंकि उन्होंने (अपने दान से) कल्पवृक्ष को
भी छोटा बना दिया ॥ १५ ॥
विभज्य मेरुं न यदर्थिसात्कृतो न सिन्धुरुत्सर्गजलव्ययैर्मरुः ।
अमानि तन्नेन निजायशोयुगं द्विधाऽळबद्धाश्चिकुराः शिरःस्थितम् ॥१६॥
विभज्येति । मेरुः = हेमाद्रिः, विभज्य = विभक्तीकृत्य, अर्थिसात् = अर्थिभ्यो
देयः, न कृतः । 'अर्थिने देयमिति' देये सात् इति सातिप्रत्ययः । सिन्धुः = समुद्रः