सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 25, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 25

सर्गः १ ] जीवातु-मदयन्तिकासहितम् । ९
Digitized by Sarayu Trust Foundation and eGangotri
प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि भेत्तृतोज्झिता ।
अमित्रजिन्मित्रजिदोजसा स यद्विचारदृक् चारदृगप्यवर्त्तत ॥१३॥
प्रतीपेति । [प्रतीपभूपैः] प्रतीपाः प्रतिकूलाः भूपा राजानः तैः । विरुद्धधर्मैः
= असमानाधिकरणधर्मैः । विपरीतवृत्तिभिरित्यर्थः । अपि, ततः = नलात्,
भिया = भयेन, इव = हेतुना । भेत्तृता स्वाश्रयभेदकत्वं परोपजाप इत्यर्थः ।
उज्झिता = त्यक्ता किम् ? यत् = यस्मात्, स = नलः, ओजसा = तेजसा
[अमित्रजित् ] अमित्रान् शत्रून् जयतीति तथोक्तः । [ मित्रजित् ] मित्रं सूर्य्यं
जयतीति तथाभूतः । अत्र यः खलु अमित्रजित्, स कथं मित्रजिदिति विरोधाभासः,
परिहारस्तु पूर्व्वमुक्तः [विचारदृक्] तथा विचारेण पश्यतीति विचारदृक् । [चारदृक्]
चारैः गूढपुरुषैः पश्यतीति चारदृक् । 'राजानश्चारचक्षुषः' इति । 'चारैः पश्यन्ति
राजानः' इति च नीतिशास्त्रम् । अत्रापि यो विचारदृक्, स कथं चारदृग् भवतीति
विरोधाभासः, परिहारस्तु पूर्व्वमुक्तः । अवर्त्तत = आसीत् । अपिर्विरोधे । सूर्य्यतेजसं
चारदृशञ्च नलं ज्ञात्वा शत्रवो भयात् परस्परोपजापादिवैरभावं तत्यजुरिति भावः ।
अत्र विरोधोत्प्रेक्षयोरङ्गाङ्गिभावः ॥१३॥
प्रतिकूल राजाओं के समान, उसके भय से विरोधी स्वभावों ने भी अपनी
विरुद्धता छोड़ दी थी; क्योंकि वे तेज के द्वारा अमित्रजित् (वैरियों को जीतनेवाला)
होकर भी मित्रजित् (१ मित्रों को जीतनेवाले २ सूर्य से बढ़कर प्रभावशाली) थे
और चार-चक्षु (गुप्तचरों के द्वारा देखनेवाले) होकर भी विचार-चक्षु (१ बिना
चारचक्षु के २ विचार शक्ति के द्वारा देखनेवाले) थे ॥१३॥
तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा ।
तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥१४॥
तदिति । [तदोजसः] तस्य नलस्य ओजः तेजः प्रताप इत्यर्थः, तस्य तथा ।
[तद्यशसः ] तस्य नलस्य यशः तस्य, स्थितौ = सत्तायाम् । इमौ = भानु-विधू,
वृथा = निरर्थकौ, इति चित्ते यदा यदा कुरुते = विवेचयतीत्यर्थः । विधिः ।
तदा तदा, [परिवेषकैतवात् ] परिवेषः परिधिः, 'परिवेषस्तु परिधिरुपसूर्यकमण्डले'
इत्यमरः । एव कैतवं छलं तस्मात् । भानोः = सूर्य्यस्य, विधोरपि = चन्द्रस्य च,
कुण्डलनां = अतिरिक्ततासूचकं वृत्तमित्यर्थः । तनोति = करोति ; अधिकाक्षरवर्जनार्थे
लेखकादिवदिति भावः । विजितचन्द्रार्कौ अस्य कीर्त्तिप्रतापौ इति तात्पर्य्यम् । अत्र