सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 104, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 104

८८ नैषधचरितम् । [ द्वितीयः
प्रविभज्य, रोमराजः प्रागेव अत्र शैशवेन स्थातव्यं, ततः परं यौवनेनेति कालतो
विभागं कृत्वा, कृतसीम्नी = कृतमर्यादे अपि । 'विभाषा ङिश्श्योः' इत्यलोपः । न
रज्यतः = न सन्तुष्यतः । रम्यवस्तु दुस्त्यजमिति भावः । एतेन वयःसन्धिरुक्तः ।
अत्र प्रस्तुतवयोविशेषसाम्यादप्रस्तुतविवादप्रतीतेः समासोक्तिरलङ्कारः ॥ ३० ॥
शैशव और उसके बाद आनेवाले यौवन-इन दोनों अवस्थाओं को विधाता
ने, समानरूप से विभाग करके (उदर और पीठ में रोओं के रेखा-चिह्न) रोम-
राजि रूप से उनकी सीमा बाँध दी; परन्तु उस सुनयनी दमयन्ती पर, अपना
स्वामित्व जमाने की अभिलाषा से (मैं ही इसे व्याप्त करके अड्डा जमाऊँ-यही
प्रत्येक की इच्छा रहती है जिससे) वे परस्पर सन्तुष्ट नहीं रहते ॥ ३० ॥
अपि तद्वपुषि प्रसर्पतोर्गमिते कान्तिझरैरगाधताम् ।
स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ ॥ ३१ ॥
सम्प्रति मौनमेवाश्रित्याह-अपीति। कान्तिझरैः = लावण्यप्रवाहैः, अगाधतां
= दुरवगाहतां गमिते तद्वपुषि = दमयन्तीशरीरे, प्रसर्पतोः = तरतोः, स्मरयौवन-
योः द्वयोरपि, उभौ कुचौ [ प्लवकुम्भौ ] प्लवस्योन्मजनस्य कुम्भौ, प्लवनार्थे
कुम्भावित्यर्थः । प्रकृतिविकारभावाभावादश्वघासादिवत्तादर्थ्ये षष्ठीसमासः । लोके
तरद्भिः, अनिमज्जनाय कुम्भादिकमवलम्ब्यत इति प्रसिद्धं । भवतः खलु । अत्र
कुचयोः स्मरयौवनप्लवनकुम्भत्वोत्प्रेक्षया तयोरौत्कट्यं कुचयोश्चातिवृद्धिर्व्यज्यत
इत्यलङ्कारेण वस्तुध्वनिः ॥ ३१ ॥
दोनों स्तन उसके-लावण्य-प्रवाह से अगाध हुए-शरीर (-पयोधि) पर विहार
करते हुए, कामदेव तथा यौवन के तैरने के दो घड़े हैं ॥ ३१ ॥
कलशे निजहेतुदण्डजः किमु चक्रभ्रमकारितागुणः ।
स तदुच्चकुचौ भवन् प्रभाझरचक्रभ्रममातनोति यत् ॥ ३२ ॥
कलश इति । निजहेतुदण्डजः = स्वनिमित्तकारणजन्यः, [ चक्रभ्रम-
कारिता-गुणः ] चक्रभ्रमकारिता कुलालभाण्डभ्रमणजनकत्वं, सैव गुणो धर्मो
रूपादिश्च । गुणः प्रधाने रूपादावित्यमरः । सः कलशे किमु = दण्डकार्ये कलशे
संक्रान्तः किमु इत्यर्थः ? कुतः ? यतः = यस्मात् स = कलशः [तदुच्चकुचौ] तस्या
दमयन्त्या उच्चकुचौ भवन् = तत्कुचात्मना परिणतः सन्, [ प्रभाझर-चक्रभ्रमं ]
प्रभाझरे लावण्यप्रवाहे, चक्रभ्रमं चक्रवाकभ्रान्ति, कुलालदण्डभ्रमणं च, आतनोति ।