नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 105, कुल 226 में से
संदर्भ में पढ़ेंसर्गः २ ] जीवातु-मदयन्तिकासहितम् ८९
'चक्रो गणे चक्रवाके चक्रं सैन्येरथाङ्गयोः' 'भ्रमजालं कुलालस्य भाण्डं शङ्कास्त्रयोरपि'
इत्युभयत्रापि विश्वः । अत्र समवायिकारणगुणा रूपादयः कार्ये संक्रामन्ति न
निमित्तगुणा इति तार्किकाणां समये स्थिते, गुण इति चक्रभ्रम इति चोभयत्रापि
वाच्यप्रतीयमानयोरभेदाध्यवसाय एव 'स तदुच्चकुचौ भवन्' इति कुचकलशयोर-
भेदातिशयोक्त्युत्थापितझरचक्रभ्रमात्मकक्रियानिमित्ता कुचात्मनि कलशे कार्ये चक्र-
भ्रमकारितालक्षणनिमित्तकारणगुणसंक्रमलक्षणेनोत्प्रेक्षेति सङ्क्षेपः । तार्किकसमये
विरोधात् विरोधाभासोऽलङ्कार इति कैश्चिदुक्तम् । तदेतदत्यन्ताश्रुतचरमलङ्कार-
पारदृश्वानः शृण्वन्तु ॥ ३२ ॥
कलश में—जो चाक को घुमाने का गुण दिखाई पड़ता है, वह क्या उसे
अपने निमित्तकारणीभूत कुम्हार के डण्डे से मिला है ? क्योंकि कलश—दमयन्ती
के उच्चस्तन का रूप धारण कर, अपने लावण्य के प्रवाह से, कामीजनों के चित्त
में, चक्र ( चाक और चकवा ) का भ्रम उत्पन्न करता है ॥ ३२ ॥
भजते खलु षण्मुखं शिखी चिकुरैर्निर्मितबर्हगर्हणः ।
अपि जम्भरिपुं दमस्वसुर्जितकुम्भः कुचशोभयेभराट् ॥ ३३ ॥
भजत इति । दमस्वसुः = दमयन्त्याश्चिकुरैर्निर्मितबर्हगर्हणः = कृतपिच्छ-
निन्दः, जितबर्ह इत्यर्थः । शिखी = मयूरः षण्मुखं = कार्त्तिकेयं भजते खलु ।
तथा कुचशोभया जितकुम्भ इभराट् = ऐरावतोऽपि जम्भरिपुं = इन्द्रं भजते ।
परपरिभूताः प्राणत्राणाय प्रबलमाश्रयन्त इति प्रसिद्धम् । अत्र शिख्यैरावतयोः
षण्मुखजम्भारिभजनस्य जितबर्हत्व-जितकुम्भत्वपदार्थहेतुकत्वात् तद्धेतुके काव्यलिङ्गे
तदसम्बन्धेऽपि सम्बन्धाभिधानादतिशयोक्तिश्च ॥ ३३ ॥
दमयन्ती के केश-कलाप से, अपनी पूँछ को तुच्छ समझकर, मोर तो स्कन्द-
कुमार की सेवा करता है और उसके स्तनों की कान्ति से, अपने कुम्भों को
पराजित ( हीन ) समझकर, ऐरावत इन्द्र की परिचर्या करता है ॥ ३३ ॥
उदरं नतमध्यपृष्ठता-स्फुरदङ्गुष्ठपदेन मुष्टिना ।
चतुरङ्गुलिमध्यनिर्गतत्रिबलिभ्राजि कृतं दमस्वसुः ॥ ३४ ॥
उदरमिति । दमस्वसुः उदरं, [ नतमध्य-पृष्ठता-स्फुरदङ्गुष्ठपदेन ] नत-
मध्यं निम्नमध्यप्रदेशं, पृष्ठं यस्योदरस्य तस्य भावस्तत्ता तया स्फुरत् दृढग्रहणात्
पृष्ठफलके स्फुटीभवदङ्गुष्ठपदमङ्गुष्ठन्यासस्थानं यस्य तेन मुष्टिना करणेन, [चतुरङ्गुलि-