नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 98, कुल 309 में से
संदर्भ में पढ़ें( ६४ )
महाणुभाओ वाङ्गामेत्तएण वि मए ण संभाविदो ।
महानुभावो वाङ्मात्रेणापि मया न सम्भावितः ।
सो वि अकिदपडिवत्तीं अदक्खिणोत्ति मं संभाविस्सदि ।
सोऽप्यकृतप्रतिपत्तिमद्¹क्षिणेति मां सम्भावयिष्यति ।
( इति रोदिति )
चेटी-- भट्टिदारिए ! मा रोद । अहवा कहं ण रोइस्सदि ?
भर्तृदारिके ! मा रुदिहि । अथवा कथं न रोदिष्यति ?
अहिओ से हिअअस्स संदावो अधिअदरं बाधेदि ।
अधिकोऽस्याः हृदयस्य सन्तापोऽधिकतरं बाधते ।
ता किं दाणीं एत्थ करिस्सं ? ता जाव चंदणलदा-
तत्किमिदानीमत्र करिष्ये । तद्यावच्चन्दनलता-
पल्लवरसं से हिअए दाइस्सं ।
पल्लवरसमस्या हृदये दास्ये ।
(उत्थाय चन्दनपल्लवं गृहीत्वा निष्पीड्य हृदये ददाति)
भट्टिदारिए ! णं भणामि, मा रोद । अअं क्खु
भर्तृदारिके ! ननु भणामि, मा रुदिहि । अयं खलु
चंदणरसो इमेहिं अणावरद-पडंतेहिं वाहबिंदूहिं उण्हो-
चन्दनरस एभिरनवरत-पतद्भिर्बाष्पविन्दुभिरुष्णी-
किदो ण दे हिअअस्स संदाबदुक्खं अवणेदि ।
कृतो न ते हृदयस्य सन्तापदुःखमपनयति ।
(कदलीपत्रमादाय वीजयति)
नायिका-(हस्तेन निवारयन्ती) सहि ! मा वीजेहि ।
सखि ! मा वीजय ।