सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 72, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 72

( ३८ )
नायकः -तनुरियं तरलायतलोचने श्वसितकम्पितपीनघनस्तनि !
श्रममलं¹ तपसैव गता पुनः किमिति संभ्रमधारिणि ! खिद्यते ॥१७॥
नायिका — (अपवार्य)
हञ्जे ! अदिसद्धसेण ण सक्कुणोमि एदस्स संमुहे ठादुं ।
हञ्जे ! अतिसाध्वसेन न शक्नोम्येतस्य सम्मुखे स्थातुम् ।
(नायकं तिर्यक् सलज्जञ्च पश्यन्ति किञ्चित्परावृत्तमुखी तिष्ठति)
चेटी — भद्दिदारिए ! किं एदम् ?
भर्तृदारिके ! किमेतत् ?
नायिका—हञ्जे ण सक्कुणोमि एदस्स आसण्णे चिट्ठिदुं ।
हञ्जे न शक्नोम्येतस्यासन्ने स्थातुम् ।
ता एहि अण्णदो गच्छह्म ।
तदेहान्यतो गच्छावः । (इत्युत्थातुमच्छिति)
विदूषकः — भो ! भाइदि खु एसा ।
भो ! बिभेति खल्वेषा ।
मम पठिअविज्जं चित्र मुहुत्तअं धारेमि ।
मम पठितविद्यामिव मुहूर्त्तं धारयामि ।
नायकः — को दोषः ?
श्लोक नं० १७, अन्वयः—
तरलायतलोचने ! श्वसितकम्पितपीनघनस्तनि ।
इयं (ते) तनुः तपसा एव अलं श्रमम् गता ।
संभ्रम धारिणि ! किमिति पुनः खिद्यते ?