सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 56, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 56

( २२ )
नायकः- (सविस्मयं विलोक्य) अहो !¹ नु खलु मुदित-
मुनिजनप्रविचार्यमाणसन्दिग्ध²वेदवाक्यविस्तरस्य.
पठद्बटुजनच्छिद्यमानाद्रार्द्रसमिधस्तापसकुमारिकापूर्य-
माणबालवृक्षालवालस्य³प्रशान्तरमणीयता⁴ तपो-
वनस्य । इह हि—
मधुरमिव वदन्ति स्वागतं भृङ्गनादै-
र्नतिमिव⁵ फलनम्रैः कुर्वतेऽमी शिरोभिः ।
मम ददत इवार्घ्यं पुष्पवृष्टिं किरन्तः
कथमतिथिसपर्यां⁶ शिक्षिताश्शाखिनोऽपि ॥ १२ ॥
तन्निवासयोग्यमिदं तपोवनम्। मन्ये भविष्यतीह वसता-
मस्माकं परा निर्वृत्तिः⁷ ।
विदूषकः — (इतस्ततो विलोक्य)
भो वयस्स किं क्खु एदे ईसिवलिअ-
भो वयस्य किं खल्वेते ईषद्वलित—⁸
कन्धरा णिच्चलमुहावसरंतदरदलिअदब्भकवलाः समुण्णमिद-
कन्धरा निश्चलमुखापसरद्दर⁹दलितदर्भकवलाः समुन्नमित
श्लोक नं १२ अन्वयः—
शाखिनोऽपि भृङ्गनादैः मधुरं स्वागतमिव वदन्ति ;
फलनम्रैः शिरोभिः अमी नतिमिव कुर्वते ;
पुष्पवृष्टिं किरन्तः मम अर्घ्यमिव ददतः ;
कथं (शाखिनोऽपि) अतिथिसपर्यां शिक्षिताः ।