सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 268, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 268

( २४४ )
गरुडः-- यदाज्ञापयति भगवान् —
अज्ञाननिद्राशयितो भवता प्रतिबोधितः ।
सर्वप्राणिवधदेष विरतोऽद्यप्रभृत्यहम् ॥२६॥
सम्प्रति हि—
क्वचिद् द्वीपाकारः पुलिनविपुलैर्भोगनिवहैः १
कृतावर्त्तभ्रान्तिर्वलयितशरीरः क्वचिदपि ।
व्रजन् कूलात्कूलं क्वचिदपि च सेतुप्रतिसमः
समाजो नागानां विहरतु महोदन्वति सुखम् ॥२७॥
अपि च,
स्रस्तानापादलम्बाँस्तिमिरचयनिभान्केशहस्तान् वहन्त्यः,
सिन्दूरेणेव दिग्धैः २ प्रथमरविकरस्पर्शताम्रैः कपोलैः ।
आयासेनालसाङ्ग्योऽप्यवगणितरुजः कानने चन्दनानाम्-
अस्मिन् गायन्तु रागादुरगयुवतयः कीर्तिमेतां तवैव ॥२८॥
श्लोक न०: २६, अन्वयः-अज्ञाननिद्राशयितो (ऽहं) भवता प्रतिबोधितः ।
एषः अद्य प्रभृत्यहं सर्वप्राणिवधाद् विरतः ।
श्लोक न०: २७, अन्वयः- क्वचित् पुलिनविपुलैर्भोगनिवहैः द्वीपाकारः,
क्वचिदपि वलयितशरीरः कृतावर्त्तभ्रान्तिः, क्वचिदपि च कूलात्कूलं
व्रजन् सेतुप्रतिसमः नागानां समाजः महोदन्वति सुखं विऽहरतु ।
श्लोक नं०: २८, अन्वयः—
स्रस्तानापादलम्बान् तिमिरचयनिभान् केशहस्तान् वहन्त्यः, प्रथम-
रविकरस्पर्शताम्रैः सिन्दूरेणेव दिग्धैः कपोलैः, आयासेनाल-
साङ्ग्योऽप्यवगणितरुजः, उरगयुवतयः चन्दनानामस्मिन् कानने
रागात् तवैव एतां कीर्तिं गायन्तु ।