सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 100, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 100

( ६६ )
उण्हो क्खु एसो कअलीदलमारुदो ।
उष्णः खल्वेष कदलीदलमारुतः ।
चेटी- भद्दिदारिए ! मा इमस्स दोसं कहेहि ।
भर्तृदारिके ! माऽस्य दोषं कथय ।
कुणासि घणचन्दणालदापल्लवसंसग्गसीदलं पि इमं ।
करोषि घनचन्दनलतापल्लवसंसर्गशीतमपीमम् ।
णीसासेहिं तुमं एव्व कअलीदलमारुअं उण्हं ॥१॥
निःश्वासैस्त्वमेव कदलीदलमारुतमुष्णम्
नायिका—(सास्रम्)
सहि ! अत्थि कोबि इमस्स संदावस्स उवसमोवाओ ?
सखि ! अस्ति कोऽप्यस्य सन्तापस्योपशमोपायः ?
चेटी- भद्दिदारिए ! अत्थि, जदि सो एत्थ आअच्छदि ।
भर्तृदारिके ! अस्ति यदि सोऽत्राऽऽगच्छति
[ ततः प्रविशति नायको विदूषकश्च ]
श्लोक नं०: १, अन्वयः —
घनचन्दनलतापल्लवसंसर्गशीतलम् अपि इमं
कदलीदलमारुतं त्वम् एव निःश्वासैः उष्णं करोषि ॥