मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)
Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary
आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा
पृष्ठ 99, कुल 176 में से
संदर्भ में पढ़ें२०
सामग्रीपरीक्षा विंशतितमं प्रकरणम् ।
२०
सामग्रीपरीक्षा विंशतितमं प्रकरणम् ।
अत्राह – विद्यते कालः, फलप्रवृत्तौ सहकारिकारणभावात् । यो नास्ति, नासौ सह-
कारिकारणभावेन प्रतिपद्यते, बन्ध्यातनयवत् । तस्मादस्ति कालः, सहकारिकारणभावात् । इह
बीजावनिसलिलज्वलनपवनगगनाभिधानहेतुप्रत्ययसामग्रीं प्रतीत्य अयमङ्कुर उपजायमानः, सत्यामपि
बीजादिप्रत्ययसामग्र्याम्, ऋतुविशेषासंनिधानान्नोपजायते । यथा च बाह्येषु, एवमाध्यात्मिकेष्वपि ।
यथोक्तं भगवता –
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ इति ।
यस्माच्च एवमस्ति कालव्यवस्था, तस्मादस्त्यसौ कालो नाम, यः अङ्कुरादिप्रवृत्तौ
सहकारिकारणं भवतीति । उच्यते । स्यात् सहकारिकारणता कालस्य, यदि अङ्कुरादिफलस्य
प्रवृत्तिरेव स्यात् । न त्वस्ति । कथं कृत्वा ? इह बीजादिहेतुप्रत्ययसामग्रीतोऽङ्कुरादिफलोदये
परिकल्प्यमाने व्यवस्थितस्य वा फलस्य सामग्र्यां सत्यां तत उत्पादः परिकल्प्येत अव्यवस्थितस्य
वा ? किं चातः ? यदि तावद् व्यवस्थितस्य परिकल्प्यते, तन्न युज्यते इति प्रतिपादयन्नाह –
हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि ।
फलमस्ति च सामग्र्यां सामग्र्या जायते कथम् ॥ १ ॥
यदि हेतुप्रत्ययसामग्र्यां त्वन्मतेन फलमस्ति, ननु एवं सति यस्मात् सामग्र्यामस्ति, कथं
तया तज्जन्यते ? न हि कुण्डे दधि विद्यमानं कुण्डेन जन्यते । अपि च । यदिष्यते तन्निष्पन्नत्वात्
निष्पन्नपुरोवस्थितघटवत् न पुनर्जन्मापेक्षते । अभिव्यक्तिः स्थौल्यं वा सूक्ष्मात्मना विद्यमानस्य
क्रियत इति चेत्, तस्यापि पक्षस्य पूर्वमेवै–
आगच्छत्यन्यतो नाग्निरिन्धनेऽग्निर्न विद्यते ।
[ म० शा० – १०.१३ ]
इत्यत्रोक्तमुत्तरम् ॥ १ ॥
अथ नास्त्येव सामग्र्यां फलमिति परिकल्प्यते, एतदपि नोपपद्यते इति प्रतिपादयन्नाह–
हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि ।
फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम् ॥ २ ॥
यदि हेतोश्च प्रत्ययानां च सामग्र्यां नास्ति तत्फलम्, कथं तर्हि हेतुप्रत्ययसामग्र्या फलं
जन्यते ? तत्र अविद्यमानत्वात् सिकताभिरिव तैलम् । अत एव असंभवयन्नाह–
फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम् ।
न तत्फलं सामग्रीतो जायते इत्यभिप्रायः ॥ २ ॥
किं चान्यत्–
१ P reads पूर्वमेवोत्तरत्वात् for पूर्वमेवै-
-२०.४] सामग्रीपरीक्षा विंशतितमं प्रकरणम् । १६९
हेतोश्च प्रत्ययानां च सामग्र्यामस्ति चेत्फलम् ।
गृह्येत ननु सामग्र्यां सामग्र्यां च न गृह्यते ॥ ३ ॥
यद् यत्र अस्ति, तत् तत्र गृह्यते, तद्यथा कुण्डे दधि । यच्च यत्र नास्ति
न तत्तत्र गृह्यते तद्यथा सिकतासु तैलम्, मण्डूकजटायां शिरोमणिः ॥
अथ स्यात्–विद्यमाना अपि पदार्थाः अतिसौक्ष्म्यात्, अतिसंनिकर्षात्, अतिविप्रकर्षात्,
इन्द्रियोपघातात्, मूर्तिवद्द्रव्यव्यवधानात्, मूर्त्यन्तर्धानात्, मनोऽनवस्थानात्, परमाण्ववत्
अक्ष्ण्योञ्जनशलाकावत् आदित्यगतिवत् तैमिरिकैकैककेशवत् अन्धबधिरादिरूपशब्दादिवत्
कुड्यादिव्यवहितघटादिवत् सिद्धदेवपिशाचादिशरीरवत् विषयान्तरव्यापृतस्य विषयान्तरवन्न गृह्यते
इति चेत्, किं खलु एषामगृह्यमाणानामस्तित्वे लिङ्गम्, येन एषामस्तित्वे सति अनुपलब्धिरिति
स्यात् ? अनुमानोपमानागमैर्ग्रहणादेषामस्तित्वमिति चेत्, न तर्हि तेषामनुपलब्धिरिति वक्तव्यम्,
अनुमानादिभिरुपलभ्यमानत्वात् । यद् रूपीन्द्रियग्राह्यं तद् एभिः कारणैर्विद्यमानमपि सन्न गृह्यते,
इति चेत्, उच्यते । किमस्माभिरेवमुक्तम् – रूपीन्द्रियैर्विद्यमानं सद् गृह्येतेति ? किं तर्हि
सामान्येनैव यद् ब्रूमः – गृह्येत ननु सामग्र्यामिति ॥
अथापि मन्यसे – यद् यत्र नास्ति, न तत् तस्मादुत्पद्यते सिकताभ्यस्तैलवत् । उत्पद्यते
च सामग्रीतः फलम्, तस्मादनुमानतः सामग्र्यां फलस्यास्तित्वमिति । उच्यते । यद् यत्र अस्ति,
न तत् तस्मादुत्पद्यते, तद्यथा कुण्डाद् दधि इति । अस्मादप्यनुमानादस्तित्वमस्य अयुक्तमिति
कृत्वा नास्त्येव सामग्र्यां फलमिति किं न गृह्यते ?
अथापि स्यात् – उभयोरपि पक्षयोरनुमानविरोधाद् यथा अस्तित्वं न युक्तम्, एवं
नास्तित्वमपीति । उच्यते । न वयमसत्त्वं प्रतिपादयामः, किं तर्हि परपरिकल्पितं सत्त्वमस्य
निराकुर्मः । एवं न वयमस्य सत्वं प्रतिपादयामः, किं तर्हि परपरिकल्पितमसत्त्वमस्य अपाकुर्मः ।
अन्तद्वयपरिहारेण मध्यमायाः प्रतिपदः प्रतिपादयितुमिष्टत्वादिति । उक्तं च आर्यदेवपादीये शतके—
स्तम्भादीनामलंकारो गृहस्यार्थे निरर्थकः ।
सत्कार्यमेव यस्येष्टं यस्यासत्कार्यमेव च ॥ इति ।
[ चतुःशतक -११.१५ ]
तदेवं न सामग्रीतः फलमुत्पद्यते विद्यमानस्य ग्रहणप्रसङ्गात्, इति व्यवस्थितम् ॥ ३ ॥
अथ मन्यसे – नास्त्येव सामग्र्यां फलमिति, एवमपि –
हेतोश्च प्रत्ययानां च सामग्र्यां नास्ति चेत्फलम् ।
हेतवः प्रत्ययाश्च स्युरहेतुप्रत्ययैः समाः ॥ ४ ॥
यथा हि ज्वालाङ्गारादिषु अङ्कुरो नास्तीति कृत्वा तस्य ते हेतुप्रत्यया न भवन्ति, एवं
विवक्षितानामपि बीजादीनां हेतुप्रत्ययता न स्यात् तेषु अङ्कुरो नास्तीति कृत्वा । न च अहेतु-
प्रत्ययेभ्यः फलप्रवृत्तिर्युक्तेति नास्ति स्वभावतः फलप्रवृत्तिः ॥
१ T om. आर्यदेवपादीये.
म. २२