सामग्री पर जाएँ
सर्वकोश
मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठ 100, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 100

Here is the complete, line-by-line transcription of the Sanskrit text from both pages, following the original formatting and layout.

[Page 170]

अत्राह – नैव हि सामग्र्याः फलोत्पादनसामर्थ्यमस्ति यतः इयं चिन्ता स्यात् – किं
सामग्र्यां फलमस्ति उताहो नास्तीति । किं तर्हि हेतोः फलोत्पादनसामर्थ्यम् । सामग्री तु हेतो-
रनुग्रहमात्रं करोति । स हेतुः फलोत्पत्त्यर्थं हेतुं दत्वा निरुध्यते, तेन च हेतुना अनुगृह्यमाणं
फलमुत्पद्यते इति । उच्यते । नैव हि अजातस्य फलस्य हेतोरनुग्रहणमस्ति । न चाप्यजातस्य
वन्ध्यातनयस्येव केनचित्किंचिन्मात्रं कर्तुं शक्यमित्युक्तैषा कल्पना ॥ ४ ॥
अपि च –
हेतुं फलस्य दत्वा यदि हेतुर्निरुध्यते ।
यद्दत्तं यन्निरुद्धं च हेतोरात्मद्वयं भवेत् ॥ ५ ॥
यदि हेतुः फलोत्पत्त्यर्थं हेतुर्कं कारणं दत्वा निरुध्यत इति परिकल्प्यते, एवं सति
य