सामग्री पर जाएँ
सर्वकोश
मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठ 90, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 90

पृष्ठम् १५०

१५० मध्यमकशास्त्रे [ १८.५-
एवं तावत् कर्मक्लेशा विकल्पतः प्रवर्तन्ते। ते च विकल्पाः अनादिमत्संसारारभ्य-
स्ताद् ज्ञानज्ञेयवाच्यवाचककर्तृकर्मकरणक्रियाघटपटरूपवेदनास्त्रीपुरुषलाभालाभसुखदुःख-
यशोऽयशोनिन्दाप्रशंसादिलक्षणाद्विचित्रात्प्रपञ्चादुपजायते । स चायं लौकिकः प्रपञ्चो निरवशेषः
शून्यतायां सर्वस्वभावशून्यतादर्शने सति निरुध्यते । कथं कृत्वा ? यस्मात्सति हि वस्तुनि
उपलब्धे स्याद् यथोदितप्रपञ्चजालम् । न हि अनुपलभ्य वन्ध्यादुहितरं रूपलावण्य-
यौवनवतीं तद्विषयं प्रपञ्चमवतारयन्ति रागिणः । न च अनवतार्य प्रपञ्चं तद्विषयमयोनिशो
विकल्पमवतारयन्ति । न च अनवतार्य कल्पनाजालम् अहम्ममेत्यभिनिवेशात् सत्कायदृष्टि-
मूलकान् क्लेशगणानुत्पादयन्ति । न च अनुत्पाद्य सत्कायदृष्ट्यात्मकान् क्लेशगणान् कर्माणि
शुभाशुभानिङ्ग्यानि कुर्वन्ति । नै च अकुर्वाणाः कर्माणि जातिजरामरणशोकरिदेवदुःखदौर्मनस्य-
[ उपायासादिरूपं ] एकजालीभूतं संसारकान्तारमनुभवन्ति । एवं योगिनोऽपि शून्यतादर्शना-
वस्था निरवशेषस्कन्धधात्वायतनानि स्वरूपतो नोपलभन्ते । न च अनुपलभमाना वस्तुस्वरूपं
तद्विषयं प्रपञ्चमवतारयन्ति । न च अनवतार्य तद्विषयं प्रपञ्चं विकल्पमवतारयन्ति । न च
अनवतार्य विकल्पम् अहम्ममेत्यभिनिवेशात् सत्कायदृष्टिमूलकं क्लेशगणमुत्पादयन्ति । न च
अनुत्पाद्य सत्कायदृष्ट्यादिकं क्लेशगणं कर्माणि कुर्वन्ति । न च अकुर्वाणाः जातिजरामरणारूढं
संसारमनुभवन्ति । तदेवम् अशेषप्रपञ्चोपशमशिवलक्षणां शून्यतामागम्य यस्मादशेषकल्पनाजाल-
प्रपञ्चविगमो भवति, प्रपञ्चविगमाच्च विकल्पनिवृत्तिः, विकल्पनिवृत्त्या च अशेषकर्मक्लेशनिवृत्तिः,
कर्मक्लेशनिवृत्त्या च जन्मनिवृत्तिः, तस्मात् शून्यतैव सर्वप्रपञ्चनिवृत्तिलक्षणात्वान्निर्वाणमित्युच्यते ।
यथोक्तं शतके -
धर्मं समासतोऽहिंसां वर्णयन्ति तथागताः ।
शून्यतामेव निर्वाणं केवलं तदिहोभयम् ।। इति ।।
[ चतुःशतक - १२.२३ ]
आचार्यभावविवेकस्तु श्रावकप्रत्येकबुद्धानां यथोदितशून्यताधिगममप्रतिपद्यमानः एवं
वर्णयति - अपरोत्पन्नप्रतिक्षणविनश्वरसंस्कारकलापमात्रमनात्मानात्मीयमवलोकयतः आर्यश्रावकस्यापि
आत्मात्मीयवस्तुभावाद् धर्ममात्रमिदं जायते म्रियते चेति दर्शनमुपपद्यते । अहंकारविषयो
ह्यात्मा, [ तद्भावात्तस्याप्यभावः ], तद्भावादेव न क्वचिदाध्यात्मिकं बाह्यं वा वस्तु
अस्तीति ममकारानुत्पत्तेः निर्ममो निरहंकारोऽहमिति न स्वरूपविनिश्चैतिरुपजायते, अन्यत्र
व्यवहारसंकेतात् । प्रागेव अजातसर्वसंस्कारदर्शिनां निर्विकल्पप्रज्ञाचारविहारिणां महाबोधि-
सत्त्वानामिति । अत आह -
निर्ममो निरहंकारो यश्च सोऽपि न विद्यते ।। इति ।।
१. T haplographically seems to om. from न च down to क्लेशगणं कुर्वन्ति a few
lines below. २. The portion in brackets supplied after T.


पृष्ठम् १५१

-१८.५ ] आत्मपरीक्षा अष्टादशं प्रकरणम् । १५१
तदयमाचार्यो यथैवंविधे विषये नाचार्यपादमतानुवर्ती तथा प्रतिपादितं मध्यमावतारे -
दूरंगमायां तु धियाधिकैः [मध्यमकावतार - १.८ ]
इत्यत्रेति न पुनस्तद्दूषणे यत्न आस्थीयते । अत एवोक्तं भगवता आर्याष्टसाहस्रिकायां
भगवत्याम् -
श्रावकबोधिमभिसंबोद्धुकामेन सुभूते अस्यामेव प्रज्ञापारमितायां शिक्षितव्यम् । प्रत्येक-
बोधिमभिसंबोद्धुकामेन सुभूते अस्यामेव प्रज्ञापारमितायां शिक्षितव्यम् । अनुत्तरां सम्यक्संबोधिमभि-
संबोद्धुकामेन सुभूते बोधिसत्त्वेन महासत्त्वेन अस्यामेव प्रज्ञापारमितायां शिक्षितव्यमित्यादि ।।
[अष्टसाहस्रिका - ३७९]
आह च -
यो इच्छती सुगतश्रावकु हं भवेयं
प्रत्येकबुद्धु भविजा तथ धर्मराजो ।
इमु क्षान्ति नागत्य न शक्यति पापुणेतुं
यथ आरपारगमनीयं अतीरदर्शी ॥
इति ॥ ५ ॥
अत्राह - यद्येवमाध्यात्मिकवाह्यवस्त्वनुपलम्भाद्व्यात्मं बहिश्च अहम्ममेतिकल्पनाजालाना-
मनुत्पादस्तत्त्वमिति व्यवस्थापितम्, यत्तर्हि एतदुक्तं भगवता -
आत्मा हि आत्मनो नाथः को नु नाथः परो भवेत् ।
आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डितः ॥
आत्मा हि आत्मनो नाथः को नु नाथः परो भवेत् ।
आत्मा हि आत्मनः साक्षी कृतस्यापकृतस्य च ॥
[ = धम्मपद, - १६०-६१ ]
तथा आर्यसमाधिराजे -
कृष्णशुभं च न नश्यति कर्म
आत्मन कृत्व च वेदयितव्यम् ।
नो पि च संक्रम कर्मफलस्य
नो च अहेतुक प्रत्यनुभोति ॥
[ समाधिराज - ३७.३५ ]
इति विस्तरः । तत्कथं न विरुध्यत इति ? उच्यते । इदमपि किं नोक्तं भगवता -
नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः । इति ?
तथा हि - रूपं नात्मा रूपवान्नापि चात्मा रूपे नात्मा नात्मनि रूपं .... । एवं यावत् विज्ञानं
नात्मा, विज्ञानवान्नात्मा विज्ञाने नात्मा नात्मनि विज्ञानम् इति । तथा-अनात्मानः सर्वधर्मा इति ।
तत्कथमिदानीमेनेनागमेन पूर्वकस्यागमस्य विरोधो न स्यात् ? तस्माद्देशनाभिप्रायो भगवतोऽन्वेष्यः ।
१ T अपि च for आह च.