सामग्री पर जाएँ
सर्वकोश
मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठ 91, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 91

सामान्येन तु भगवद्भिर्बुद्धैः प्रवचने नेयनीतार्थविस्तरप्रभेदेऽशेषजगद्विनेयबुद्धिप्रभाकरविबोधन-
परैरादित्यकल्पैरनस्तंगतमहाकरुणोपायविज्ञानगभस्तिविस्तरैः -
आत्मेत्यपि प्रज्ञपितमनात्मेत्यपि देशितम् ।
बुद्धैर्नात्मा न चानात्मा कश्चिदित्यपि देशितम् ॥ ६ ॥
अत्र चायमभिप्रायः - इह ये [ आत्मेत्याभावविपर्यास ] कुदर्शनतिमिरपटलावच्छादितारशेष-
बुद्धिनयनतया लौकिकावादतद्दर्शनविषयानतिक्रान्तमपि भावजातमपश्यन्तो व्यवहारसत्यावस्थिता
एव सन्तः क्षितिसलिलज्वलनपवनाभिधानतत्त्वमात्राद्यनुवर्णनपरा मूलोदनोदर्ककिण्वादिद्रव्य-
विशेषपरिपाकमात्रप्रत्ययोत्पन्नमदमूर्च्छादिसामर्थ्यविशेषातुगतमद्यपानोपलम्भवत् कललादिमहाभूत-
परिपाकमात्रसंभूता एव बुद्धीरनुवर्णयन्तः पूर्वान्तापरागतावदाप्रवृत्ताः सन्तः परलोकमात्मानं
चापवदन्ते -- नास्त्ययं लोकः, नास्ति परलोकः, नास्ति सुकृतदुष्कृतानां कर्मणां फलविपाकः, नास्ति
सत्त्व उपपादुकः, इत्यादिना । तदपवादाच्च स्वर्गापवर्गविशिष्टफलविशेषोत्क्षेपपराङ्मुखाः सतत-
समितमकुशलकर्माभिसंस्करणप्रवृत्त्या नरकादिमहाप्रपातपतानाभिमुखाः । तेषां तदसद्ग्राहनिवृत्त्यर्थं
चतुरशीतिचित्तचरितसहस्रभेदभिन्नस्य सत्त्वधातोरैथशयानुवर्तकैरशेषसत्त्वधातूत्तारणाक्षिप्त-
प्रतिज्ञासंपादनतत्परैः प्रज्ञोपायमहाकरुणासंभारपूरःसरैर्निरुपमैर्कजगद्वन्धुभिर्निरवशेषक्लेशमहाव्याधि-
चिकित्सकैर्महावैद्यराजभूतैर्हीनमध्योत्कृष्टविनेयजनानुजिघृक्षया हीनांनां विनेयानामकुशलकर्म-
कारिणामकुशलादि निवर्तयितुं बुद्धैर्भगवद्भिः कचिदात्मेत्यपि प्रज्ञपितं लोके व्यवस्थापितम् ।
अहेतुवादप्रतिषेधोपपत्तिश्च कर्मकारकपरीक्षातः, नायंहेतुतः इत्यतः, मध्यकavataraच्च विस्तरेण
वेदितव्येति तत्प्रतिषेधार्थं नेह पुनर्यत्न आस्थीयते ॥
ये तु सद्भूतामहंकठिनातिदीर्घशिथिलमहासूत्रबद्धा विहंगमा इव सुदूरमपि गताः कुशल-
कर्मकारिणोऽकुशलकर्मपव्यावृत्ता अपि न शक्नुवन्ति त्रैधातुकभवोपपत्तिमतिवाह्य शिवमजर-
मरणं निर्वाणपुरमभिगन्तुम्, तेषां मध्यानां विनेयानां सत्कायदर्शनाभिनिवेशशिथिलीकरणाय
निर्वाणाभिलाषसंजनायै बुद्धैर्भगवद्भिर्विनेयजनींनुग्रहचिकीर्षुभिग्नात्मेत्यपि देशितम् ॥
ये तु पूर्वीभ्यासविशेषानुगतगम्भीरधर्मीधिमोक्षलब्धबीजपरिपाकाः प्रत्यासन्नवर्तिनि
निर्वाणे तेषामुत्कृष्टानां विनेयानां विगतात्मस्नेहानां परमगम्भीरमौनीन्द्रप्रवचनार्थतत्त्वावगाहन-
समर्थानामधिसुक्तिविशेषमवधार्य -
बुद्धैरात्मा न चानात्मा कश्चिदित्यपि देशितम् ॥
यथैव हि आत्मदर्शनमतत्त्वम्, एवं तत्प्रतिपक्षभूतमपि अनात्मदर्शनं नैव तत्त्वमिति । एवं
नास्त्यात्मा कश्चित्, न चाप्यनात्मा कश्चिदस्तीति देशितम् । यथोक्तमार्यरत्नकूटे -
1 T om. from नेयनीतार्थ down to विस्तरैः below. 2 T om. आत्माभावविपर्यास. 3 T अनुवर्तन for अनुवर्णन. 4 Mss. मूलोदनोदकस्यादि°. Our reading confirmed by T. 5 T om. °चित्त°. 6 T om. एकजगत्. 7 T om. निरवशेष. 8 T om. from हीन up to निवर्तयितुं. 9 Mss. सूत्रकालबद्धाविह्यतोमथमकारोहंगमा; P सद्भूतामहंकठिनातिदीर्घतरात्मात्मीयभावस्नेहसूत्रकारबद्धा. Our text is based on T. 10 T om. विनेयजनानुग्रहचिकीर्षुभिः. 11 T मुनीन्द्र° for मौनीन्द्र°.
आत्मेति काश्यप अयमेकोऽन्तः । नैरात्म्यमित्ययं द्वितीयोऽन्तः । यदेतदनयोरन्तयोर्मध्यं
तदरूप्यमनिदर्शनमप्रतिष्ठमनाभासमविज्ञप्तिकमनिकेतम् । इयमुच्यते काश्यप मध्यमा प्रतिपद
धर्मीणां भूतप्रत्यवेक्षा इति ॥
उक्तं चार्यरत्नावल्याम्-
नैवात्मा न चानात्मा यथाभूतेन लभ्यते ।
आत्मानात्मकृते दृष्टी ववारास्मान्महामुनिः ॥
दृष्टश्रुतार्थं मुनिना न सत्यं न मृषोदितम् ।
पक्षाद्धि प्रतिपक्षः स्यादुभयं तच्च नार्थतः ॥ इति ।
यतश्चैवं हीनमध्योत्कृष्टविनेयजनाशयनानात्वेन आत्मानात्मतदुभयप्रतिषेधेन बुद्धानां
भगवतां धर्मदेशना प्रवृत्ता, तस्मान्नास्ति आगमबाधो माध्यमिकानाम् । अत एवोक्तमार्य-
देवपादैः -
वारणं प्रागपुण्यस्य मध्ये वारणमात्मनः ।
सर्वस्य वारणं पश्चाद्यो जानीते स बुद्धिमान् ॥ इति ॥
[ चतुःशतक-८.१५ ]
तथा आचार्यपादैरुक्तम्-
यथैव वैयाकरणो मातृकामपि पाठयेत् ।
बुद्धोऽवदत्तथा धर्मं विनेयानां यथाक्षमम् ॥
केषांचिदवदद्धर्मं पापेभ्यो विनिवृत्तये ।
केषांचित्पुण्यसिद्ध्यर्थं केषांचिद् द्वयमाश्रितम् ॥
द्वयानिश्रितमेकेषां गम्भीरं भीरुभीषणम् ।
शून्यताकरुणागर्भं केषांचिद् बोधिसाधनम् ॥ इति ॥
अथवा - अयमन्योऽर्थः - आत्मेत्यपि प्रज्ञपितं सांख्यादिभिः प्रतिक्षणविनश्वराणां संस्का-
राणां कर्मफलसंबन्धाभावमुद्वीक्ष्य । अनात्मेत्यपि प्रज्ञपितं लोकायतिकैः उपपत्त्या आत्मानं
संसर्त्तारमपश्यद्भिः -
एतावानेव पुरुषो यावानिन्द्रियगोचरः ।
भद्रे वृकपदं ह्येतद् यद्वदन्ति बहुश्रुताः ॥
इत्यादिना । तैमिरिकोपलब्धकेशमशकादिविश्व वित्तैमिरिकैरिव बालजनपरिकल्पितात्मानात्मादि-
वस्तुस्वरूपं सर्वथैवापश्यद्भिः -
बुद्धैर्नात्मा न चानात्मा कश्चिदित्यपि देशितम् ॥
यथोक्तमार्यतथागतगुह्यसूत्रे -
अथ खलु शान्तमतिर्बोधिसत्त्वो भगवन्तमेतदवोचत् - उपशम उपशम इति भगवन्नुच्यते,
क एष उपशमो नाम ? कस्य चोपशमादुपशम इत्युच्यते ? भगवानाह - उपशम इति कुलपुत्र
1 This citation is missing in T.
म. २०