मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)
Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary
आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा
पृष्ठ 159, कुल 176 में से
संदर्भ में पढ़ें२८८ मध्यमशास्त्रे पञ्चमं परिशिष्टम् ।
अथापि मन्यसे-अप्राप्तोऽप्यग्निरन्धकारमुपहन्तीति, नन्विदानीमिहसंस्थितोऽग्निः सर्व-
लोकधातुस्थमुपहनिष्यति तमः तुल्यायामप्राप्तौ । न चैतदेवं दृष्टम् । तस्मादप्राप्यैवाग्निरन्धकार-
मुपहन्तीति यदिष्टम्, तन्न ।।
यदि च स्वतःप्रमाणसिद्धिरनपेक्ष्य ते प्रमेयाणि ।
भवति प्रमाणसिद्धिने परापेक्षा हि सिद्धिरिति ॥ ४१ ॥
यदि च अग्निवत् स्वतःप्रमाणसिद्धिरिति मन्यसे, अनपेक्ष्यापि प्रमेयाणि प्रमाणानां
सिद्धिर्भविष्यतीति । किं कारणम् ? न हि स्वतः [सिद्धिः] परमपेक्षते । अथापेक्षते, न स्वतःप्रसिद्धिः ।।
अत्राह - यदि नापेक्ष्यन्ते प्रमेयानर्थान् प्रमाणानि, को दोषो भविष्यतीति ? अत्रोच्यते -
अनपेक्ष्य हि प्रमेयानर्थान् यदि ते प्रमाणसिद्धिः ।
भवति न भवति कस्यचिदेवमिमानि प्रमाणानि ॥ ४२ ॥
यदि प्रमेयानर्थाननपेक्ष्य सिद्धिर्भवति प्रमाणानामिति, एवं हि ते तानीमानि प्रमाणानि
न कस्यचित् प्रमाणानि भवन्ति । एवं दोषः । अथ कस्यचिद् भवन्ति प्रमाणानि, नैवेदानीमनपेक्ष्य
तान् प्रमेयानर्थान् प्रमाणानि भवन्ति ।।
अथ मतमपेक्ष्य सिद्धिस्तेषामित्यत्र को दोषः ।
सिद्धस्य साधनं स्यान्नासिद्धोऽपेक्षते ह्यन्यत् ॥ ४३ ॥
अथापि मतम्-अपेक्ष्य प्रमेयानर्थान् प्रमाणानां सिद्धिर्भवतीति, एवं हि सति सिद्धस्य
प्रमाणचतुष्टयस्य साधनं भवतीति । किं कारणम् ? न ह्यसिद्धस्यार्थस्य आपेक्षणं भवति । न
ह्यसिद्धो देवदत्तः कंचिदर्थमपेक्षते । न च सिद्धस्य साधनमिष्टम् । कृतस्य करणानुपपत्तेरिति ।।
किं चान्यत् -
सिध्यन्ति हि प्रमेयाण्यपेक्ष्य यदि सर्वथा प्रमाणानि ।
भवति प्रमेयसिद्धिरनपेक्ष्यैव प्रमाणानि ॥ ४४ ॥
यदि प्रमेयाण्यपेक्ष्य प्रमाणानि सिध्यन्ति, नेदानीं प्रमाणाण्यपेक्ष्य प्रमेयाणि सिध्यन्ति ।
किं कारणम् ? न हि साध्यं साधनं साधयति । साधनानि च किल प्रमेयाणां प्रमाणानि ।।
यदि च प्रमेयसिद्धिरनपेक्ष्यैव भवति प्रमाणानि ।
किं ते प्रमाणसिद्धया तानि यदर्थं प्रसिद्धं तत् ॥ ४५ ॥
यदि च मन्यसे - अनपेक्ष्यैव प्रमाणानि प्रमेयाणां प्रसिद्धिर्भवति । किमिदानीं ते
प्रमाणसिद्धया पर्यन्विष्ठया ? किं कारणम् ? यदर्थं हि तानि प्रमाणानि पर्यन्विष्येरन्, ते प्रमेया अर्था
विना प्रमाणैः सिद्धाः । तत्र किं प्रमाणैः कृत्यम् ?
अथ तु प्रमाणसिद्धर्भवत्यपेक्ष्यैव ते प्रमेयाणि ।
व्यत्यय एवं सति ते ध्रुवं प्रमाणप्रमेयाणाम् ॥ ४६ ॥
अथापि मन्यसे-अपेक्ष्यैव प्रमेयानर्थान् प्रमाणानि भवन्ति, एवं हि सति मा भूत्
पूर्वोक्तदोष इति कृत्वा, एवं ते सति व्यत्ययः प्रमाणप्रमेयाणां भवति । प्रमाणानि ते प्रमेयाणि
भवन्ति, प्रमेयैः साधितत्वात्, प्रमाणानि च प्रमेयाणि भवन्ति, प्रमाणानां साधकत्वात् ।।
विग्रह-व्यावर्तनी । २८९
अथ ते प्रमाणसिद्धया प्रमेयसिद्धिः प्रमेयसिद्धया च ।
भवति प्रमाणसिद्धिर्नास्त्युभयस्यापि ते सिद्धिः ॥ ४७ ॥
अथ मन्यसे-प्रमाणसिद्धया प्रमेयसिद्धिर्भवति प्रमाणापेक्षत्वात्, प्रमेयसिद्धया च प्रमाण-
सिद्धिर्भवति प्रमेयापेक्षित्वादिति, एवं सत्युभयस्यापि सिद्धिर्न ।।
किं कारणम् ?
सिध्यन्ति हि प्रमाणैर्यदि प्रमेयाणि तानि तैरेव ।
साध्यानि च प्रमेयैस्तानि कथं साधयिष्यन्ति ॥ ४८ ॥
यदि हि प्रमाणैः प्रमेयाणि सिध्यन्ति, तानि प्रमाणानि तैरेव प्रमेयैः साधयितव्यानि ।
ननु असिद्धेषु प्रमेयेषु कारणस्यासिद्धत्वादसिद्धानि कथं साधयिष्यन्ति प्रमेयाणीति ?
सिध्यन्ति च प्रमेयैर्यदि प्रमाणानि तानि तैरेव ।
साध्यानि च प्रमेयैस्तानि कथं साधयिष्यन्ति ॥ ४९ ॥
यदि च प्रमेयैः प्रमाणानि सिध्यन्ति, तानि च प्रमेयाणि तैरेव प्रमाणैः साधयितव्यानीति,
ननु असिद्धेषु प्रमाणेषु कारणस्यासिद्धत्वादसिद्धानि कथं साधयिष्यन्ति प्रमाणानि ?
पित्रा यद्युत्पाद्यः पुत्रो यदि तेन चैव पुत्रेण ।
उत्पाद्यः स यदि पिता वद तत्रोत्पादयति कः कम् ॥ ५० ॥
यद् यथापि नाम कश्चित् ब्रूयात्-पित्रा पुत्र उत्पादनीयः, स च पिता पुत्रेणोत्पादनीय
इति, तत्रेदानीं ब्रूहि केन क उत्पादितव्यः ? तथैव खलु भवान् ब्रवीति-प्रमाणैः प्रमेयाणि
साधयितव्यानि, तान्येव च पुनः प्रमाणानि तैः प्रमेयैः । तत्रेदानीं ते कतमैः कतमानि साधयित-
व्यानित ?
कश्च पिता कः पुत्रस्तत्र त्वं ब्रूहि तावुभावपि च ।
पितापुत्रलक्षणधरौ यतो नः पुत्रसंदेहः ॥ ५१ ॥
तयोश्च पूर्वोपदिष्टयोः पितापुत्रयोः वद कतरः पुत्रः, कतरः पिता ? उभावपि तावुत्पादक-
त्वात् पितृलक्षणधरौ, उत्पाद्यत्वाच्च पुत्रलक्षणधरौ । अत्र नः संदेहो भवति-कतरस्तत्र पिता,
कतरस्तत्र पुत्र इति । एवमेव यान्येतानि भवतः प्रमाणप्रमेयाणि, तेषु तत्र कतराणि प्रमाणानि,
कतराणि प्रमेयाणि ? उभयान्यपि ह्येतानि साधनत्वात् प्रमाणानि तानि प्रमेयाणि, साध्यत्वात्
प्रमेयाणीति । अत्र नः संदेहो भवति-कतराण्यत्र प्रमाणानि, कतराणि प्रमेयाणीति ?
नैव स्वतःप्रसिद्धिर्न परस्परतः प्रमाणैर्वा ।
भवति न च प्रमेयैर्न चाप्यकस्मात् प्रमाणानाम् ॥ ५२ ॥
न स्वतःप्रसिद्धिः प्रत्यक्षस्य तेनैव प्रत्यक्षेण । अनुमानस्य तेनैवानुमानेन । उपमानस्य
तेनैवोपमानेन । आगमस्य तेनैवागमेन । नापि परस्परतः । प्रत्यक्षस्यानुमानोपमानागमैः, अनुमानस्य
प्रत्यक्षोपमानागमैः, उपमानस्य प्रत्यक्षानेमानागमैः, आगमस्य प्रत्यक्षानुमानोपमानैः । नापि प्रत्यक्षा-
नुमानोपमानागमादन्यैः प्रत्यक्षानुमानोपमानागमैर्यथास्वम्, नापि प्रमेयैः समस्तैर्व्यस्तैः स्वविषय-
म. ३७