मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)
Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary
आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा
पृष्ठ 158, कुल 176 में से
संदर्भ में पढ़ें२८६ मध्यमकशास्त्रे पञ्चमे परिशिष्टम् ।
प्रवर्तयामि न निवर्तयामि । तत्रैवं सति यो भवतोपालम्भ उक्तः—यदि प्रत्यक्षादीनां प्रमाणाना-
मन्यतमेन उपलभ्य भावान् विनिवर्तयसीति, ननु भवतोक्तानि प्रमाणानि न सन्ति तानि, तैश्च
प्रमाणैरपि गम्या अर्था इति दोष उक्तः, स मे भवत्येवानुपालम्भः ॥
किं चान्यत् ।
यदि च प्रमाणतस्तेषां तेषां प्रसिद्धिरर्थानाम् ।
तेषां पुनः प्रसिद्धिं ब्रूहि कथं ते प्रमाणानाम् ॥ ३१ ॥
प्रसिद्धिरिति । यदि च प्रमाणतस्तेषां तेषामर्थानां प्रमेयाणां सिद्धिं मन्यसे यथ
मानैर्मेयानाम्, तथा तेषामिदानीं प्रत्यक्षानुमानागमोपमानानां चतुर्णां प्रमाणानां कुतः प्रसिद्धिः ?
यदि तावन्निष्प्रमाणानां प्रमाणं स्यात्, नादेः सिद्धिस्तत्रास्ति, नैव मध्यस्य, नान्तस्य । यदि
पुनर्मन्यसे प्रमाणैः प्रसिद्धिः, प्रमाणतोऽर्थानां प्रसिद्धिरिति, हीयते प्रति