मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)
Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary
आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा
पृष्ठ 126, कुल 176 में से
संदर्भ में पढ़ेंPage 222
२२२ मध्यमकशास्त्रे [२४. २६-
स्वभावेनापरिज्ञातं यदि तस्य पुनः कथम् ।
परिज्ञानं ननु किल स्वभावः समवस्थितः ॥ २६ ॥
यदि पूर्वं दुःखमपरिज्ञातस्वभावं तत् पश्चात् परिज्ञायत इति कल्प्यते, तदयुक्तम् । किं
कारणम् ? यस्मान्ननू किल स्वभावः समवस्थितः । यो हि स्वभावः, स किल लोके समवस्थितः,
नैवान्यथात्वमापद्यते, वह्नेरौष्ण्यवत् । यदा च स्वभावस्यान्यथात्वं नास्ति, तदा पूर्वमपरिज्ञात-
स्वभावस्य दुःखस्य पश्चादपि परिज्ञानं नोपपद्यत इति । अतो दुःखपरिज्ञानमपि न संभवति
॥ २६ ॥
यदा चैतद्दुःखपरिज्ञानमपि न संभवति, तदा -
प्रहाणसाक्षात्करणे भावना चैवमेव ते ।
परिज्ञावन्न युज्यन्ते चत्वार्यपि फलानि च ॥ २७ ॥
यदेतत् समुदयस्य प्रहाणं निरोधस्य च साक्षात्करणम् , ते एते द्वे प्रहाणसाक्षात्कारणे ।
या च मार्गस्य भावना, एषापि । एवमेव ते दुःखपरिज्ञानासम्भवान्न युज्यन्ते । समुदयस्य
स्वभावेनाप्रहीणस्य स्वभावस्यानपायित्वात् पश्चादपि प्रहाणं नोपपद्यते । एवं भावनासाक्षात्कारणेऽपि
योज्यम् । न च केवलं परिज्ञानादिकमेव न संभवति सस्वभाववादे, अपि च -
परिज्ञावन्न युज्यन्ते चत्वार्यपि फलानि च ।
यथा स्वभावेनापरिज्ञातस्य दुःखस्य परिज्ञानं न युक्तम्, एवं स्वभावेनाविद्यमानस्य पूर्वं
स्रोतआपत्तिफलस्य पश्चादस्तित्वं न संभवति । यथा स्रोतआपत्तिफलस्य, एवं सकृदागाम्यना-
गाम्यर्हत्फलानामभावो वेदितव्यः ॥ २७ ॥
न च केवलमेतानि फलानि परिज्ञावन्न युज्यन्ते, किं तर्हि अधिगमोऽप्येषां न युज्यत
इति प्रतिपादयन्नाह -
स्वभावेनानधिगतं यत्फलं तत्पुनः कथम् ।
शक्यं समधिगन्तुं स्यात्स्वभावं परिगृह्णतः ॥ २८ ॥
स्वभावस्याविजेनेनप्रकृतिकत्वाद्भावस्वभाववादमभ्युपगच्छतः पूर्वमनधिगतस्वभावानां पश्चा-
दप्यधिगमो नोपपद्यते ॥ २८ ॥
ततश्च -
फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः ।
संघो नास्ति न चेत्सन्ति तेऽष्टौ पुरुषपुद्गलाः ॥ २९ ॥
अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते ।
धर्मे चासति संघे च कथं बुद्धो भविष्यति ॥ ३० ॥
अनयोश्च श्लोकयोः पूर्ववदेवार्थो वेदितव्यः ॥ २९-३० ॥
अपि च - सस्वभावाभ्युपगमे सति -
१ T स्वभावस्यान्यावर्तनात् for स्वभाव... प्रकृतिकत्वात्. २ T स्वभाववादाभ्युपगमे for सस्वभावाभ्युपगमे.
Page 223
-२४. ३५] आर्यसत्यपरीक्षा चतुर्विंशतितमं प्रकरणम् । २२३
अप्रतीत्यापि बोधिं च तव बुद्धः प्रसज्यते ।
अप्रतीत्यापि बुद्धं च तव बोधिः प्रसज्यते ॥ ३१ ॥
यदि हि स्वभावतो बुद्धो नाम कश्चिद् भावः स्यात्, स बोधिं सर्वज्ञज्ञानमप्रतीत्यापि
अनपेक्ष्यापि स्यात् ।
अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च ।
इति वचनात् । तथा विनापि बुद्धेन बोधिः स्यात्, अनपेक्ष्यापि बुद्धं निराश्रया बोधिः
स्यात् ॥ ३१ ॥
किं चान्यत् -
यश्चाबुद्धः स्वभावेन स बोधाय घटन्नपि ।
न बोधिसत्त्वचर्यायां बोधिं तेऽधिगमिष्यति ॥ ३२ ॥
इह हि बुद्धत्वात्पूर्वमबुद्धस्वभावस्य सतः पुद्गलस्य सत्यामपि बोधिसत्त्वचर्यायां बोध्यर्थं
घटमानस्यापि नैव बोधिः स्यात्, अबुद्धस्वभावस्य व्यावर्तयितुमशक्यत्वात् ॥ ३२ ॥
किं चान्यत् -
न च धर्ममधर्मं वा कश्चिज्जातु करिष्यति ।
किमशून्यस्य कर्तव्यं स्वभावः क्रियते न हि ॥ ३३ ॥
सति हि स्वभाववादाभ्युपगमे धर्माधर्मयोः करणं नोपपद्यते । किं हि अशून्यस्य
कर्तव्यम् ? न हि स्वभावस्याशून्यस्य कारणमुपपद्यते विद्यमानत्वात् ॥ ३३ ॥
किं चान्यत् -
विना धर्ममधर्मं च फलं हि तव विद्यते ।
धर्माधर्मनिमित्तं च फलं तव न विद्यते ॥ ३४ ॥
यदेतद्धर्माधर्मनिमित्तकमिष्टानिष्टफलम्, यदि तत् स्वभावतोऽस्ति, तद् विनापि
धर्माधर्माभ्यां स्यात् । यदा च विना धर्माधर्मं फलं तवास्ति, तदा धर्माधर्मजं फलं तव न
संभवति । धर्माधर्मोपार्जनवैयर्थ्यं स्यात्,
धर्माधर्मनिमित्तं च फलं तव न विद्यते । इति ।
अथ धर्माधर्मनिमित्तकं फलं भवतीति परिकल्प्यते, न तर्हि तत्फलमशून्यमिति
प्रतिपादयन्नाह -
धर्माधर्मनिमित्तं वा यदि ते विद्यते फलम् ।
धर्माधर्मसमुत्पन्नमशून्यं ते कथं फलम् ॥ ३५ ॥
शून्यमेवैतत्, प्रतीत्यसमुत्पन्नत्वात्, प्रतिविम्बवत्, इत्यभिप्रायः ॥ ३५ ॥
अपि च । सर्वे एव ह्येते ‘गच्छ, कुरु, पच, पठ, तिष्ठ’ इत्येवमादयो लौकिका
व्यवहाराः प्रतीत्यसमुत्पन्नाः । तान् यदि सस्वभावानिच्छति भवान्, तदा भवता प्रतीत्यसमुत्पादो
बाधितो भवति । तद्वाधनाच्च सर्वे एव लौकिका व्यवहारा बाधिता भवन्तीति प्रतिपादयन्नाह-