सामग्री पर जाएँ
सर्वकोश
मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठ 125, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 125

पृष्ठ २२०

स्वभावेनानुत्पत्तिः, या च स्वभावेनानुत्पत्तिः, सा शून्यता। सैव स्वभावानुत्पत्तिलक्षणा शून्यता
मध्यमा प्रतिपदिति व्यवस्थाप्यते। यस्य हि स्वभावेनानुत्पत्तिः, तस्य अस्तित्वाभावः, स्वभावेन
चानुत्पन्नस्य विगमाभावान्नास्तित्वाभाव इति। अतो भावाभावान्तद्वयरहितत्वात् सर्वभावानुत्पत्ति-
लक्षणा शून्यता मध्यमा प्रतिपद्, मध्यमो मार्ग इत्युच्यते। तदेवं प्रतीत्यसमुत्पादस्यैवैता विशेष-
संज्ञाः-शून्यता, उपादाय प्रज्ञप्तिः, मध्यमा प्रतिपद् इति ॥ १८ ॥
विचार्यमाणश्च सर्वथा —
अप्रतीत्य समुत्पन्नो धर्मः कश्चिन्न विद्यते ।
यस्मात्तस्मादशून्यो हि धर्मः कश्चिन्न विद्यते ॥ १९ ॥
यो हि अप्रतीत्यसमुत्पन्नो धर्मः, स न संविद्यते। यथोक्तं शतके -
अप्रतीत्यास्तिता नास्ति कदाचित्कस्यचित्क्वचित् ।
न कदाचित्क्वचित्कश्चिद्विद्यते तेन शाश्वतः ॥
आकाशादीनि कल्प्यन्ते नित्यानीति पृथग्जनैः ।
लौकिकेनापि तेष्वर्थान्न पश्यन्ति विचक्षणाः ॥ इति ।
[ चतुःशतक - ९.२-३ ]
उक्तं च भगवता —
प्रतीत्य धर्मानधिगच्छते विदू
न चान्तदृष्टीष करोति निश्चयम् ।
सहेतु सप्रत्यय धर्म जानति
अहेतु अप्रत्यय नास्ति धर्मता ॥
एवम्—
अप्रतीत्य समुत्पन्नो धर्मः कश्चिन्न विद्यते ।
अप्रतीत्यसमुत्पन्नश्च शून्यः। तस्मादशून्यो धर्मो नास्ति। यत एतदेवम्, अतोऽस्माकं सर्वधर्माश्च
शून्याः, न च परोक्तदोषप्रसङ्गः ॥ १९ ॥
भवतस्तु सस्वभाववादिनः—
यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः ।
तदा नियतमुदयव्यययोरभावे सति—
चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते ॥ २०॥
किं कारणम् ? यस्मात्—
अप्रतीत्य समुत्पन्नं कुतो दुःखं भविष्यति ।
अनित्यमुक्तं दुःखं हि तत्स्वभाव्ये न विद्यते ॥ २१ ॥
यदि सस्वभावम्, न तद्प्रतीत्योत्पद्यते। यच्च अप्रतीत्य समुत्पन्नम्, न तदनित्यं भवति।
न हि गगनकुसुममविद्यमानमनित्यम्। अनित्यं च दुःखमुक्तं भगवता - यदनित्यं तद्दुःखमिति।
तथा च शतकशास्त्रे —


पृष्ठ २२१

अनित्यस्य ध्रुवा पीडा पीडा यस्य न तत्सुखम् ।
तस्मादनित्यं यत्सर्वं दुःखं तदिति जायते ॥ इति ।
[ चतुःशतक - २.२५ ]
यच्च अनित्यं स्वभाव्ये सस्वभावत्वेऽभ्युपगम्यमाने भावानाम्, तन्न विद्यत इति ॥ २१ ॥
एवं तावत् सस्वभावत्वे सति भावानां दुःखं न युज्यते । न च केवलं दुःखमेव न युज्यते,
सति सस्वभावाभ्युपगमे समुदयोऽपि न युज्यते इति प्रतिपादयन्नाह —
स्वभावतो विद्यमानं किं पुनः समुदेष्यते ।
तस्मात्समुदयो नास्ति शून्यतां प्रतिबाधतः ॥ २२ ॥
इह समुदेत्यस्माद्दुःखमिति दुःखस्य हेतु [तः ] समुदय इत्युच्यते । तदस्य दुःखस्य
शून्यतां प्रतिबाधमानस्य सस्वभावं दुःखमभ्युपगच्छतः तस्य पुनरुत्पादवैयर्थ्यात् तद्धेतुकल्पना-
वैयर्थ्यमेव, इत्येवं शून्यतां प्रतिबाधमानस्य समुदयोऽपि भवतो न युज्यते ॥ २२ ॥
स्वाभाविकमेव दुःखमभ्युपगच्छतो दुःखनिरोधोऽपि न युज्यते इति प्रतिपादयन्नाह —
न निरोधः स्वभावेन सतो दुःखस्य विद्यते ।
स्वभावपर्यवस्थानान्निरोधं प्रतिबाधसे ॥ २३ ॥
यदि हि स्वभावतो दुःखं स्यात्, तदा स्वभावस्यानपायित्वात् कुतोऽस्य निरोधत्वमिति ?
एवं स्वभावपर्यवस्थानात् स्वभावं गृहीत्वा प्रत्यवतिष्ठमानो दुःखनिरोधमपि प्रतिबाधसे ॥ २३ ॥
इदानीमार्यमार्गोऽपि सस्वभाववादिनो यथा नोपपद्यते तथा प्रतिपादयन्नाह —
स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते ।
अथासौ भाव्यते मार्गः स्वाभाव्यं ते न विद्यते ॥ २४ ॥
यदि हि सस्वभावा भावा भवेयुः, तदा मार्गोऽपि सस्वभाव एवेति कृत्वा अभावित
एवासावस्ति । तस्य किं पुनर्भावनयेति ? एवम् —
स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते ।
अथ अस्य मार्गस्य भावना अभ्युपगम्यते भवता, एवं तर्हि स्वभावता आर्यमार्गस्य न
स्यात्, कार्यत्वादित्यभिप्रायः ॥ २४ ॥
अपि च — दुःखस्य निरोधप्राप्त्यर्थं समुदयस्य च प्रहाणार्थं भावना मार्गस्येष्यते ।
पूर्वोक्तेन तु न्यायेन सस्वभाववादिनो भवतः —
यदा दुःखं समुदयो निरोधश्च न विद्यते ।
मार्गों दुःखनिरोधत्वात् कतमः प्रापयिष्यति ॥ २५ ॥
नास्त्येव असौ दुःखनिरोधः, यन्निरोधान्मार्गो भावितः सन् प्रापयिष्यति । तस्मादार्य-
मार्गोऽप्येवं नोपपद्यत इति । एवं सस्वभाववादिनः चतुर्णामार्यसत्यानामभावः प्राप्नोति ॥ २५ ॥
इदानीं दुःखादिपरिज्ञानादिकमपि यथा परस्य न संभवति, तथा प्रतिपादयन्नाह —