सामग्री पर जाएँ
सर्वकोश
मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठ 104, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 104

[पृष्ठम् - ४१०]

२१
संभवविभवपरीक्षा एकविंशतितमं प्रकरणम् ।
अत्राह — विद्यत एव स्वभावतः कालः, संभवविभवनिमित्तत्वात् । इह कंचित् काल-
विशेषमपेक्ष्य अङ्कुरोत्पत्तिः भावानामुत्पादो भवति, कंचित्कालविशेषमपेक्ष्य विभवो विनाशो भवति,
न सर्वदा, विद्यमानायामपि हेतुप्रत्ययसामग्र्याम् — इत्यतो विद्यत एव कालः, संभवविभव-
निमित्तत्वात् । उच्यते । स्यात् संभवविभवनिमित्तता कालस्य यदि संभवविभवावेव स्याताम् ।
न तु स्तः । यथा च न स्तः, तथा प्रतिपादयन्नाह —
विना वा सह वा नास्ति विभवः संभवेन वै ।
विना वा सह वा नास्ति संभवो विभवेन वै ॥ १ ॥
इह यदि संभवविभवौ स्याताम्, तौ अन्योन्यं सहभावेन वा स्याताम्, विनाभावेन वा ।
उभयथा च विचार्यमाणौ न संभवतः । कथं कृत्वा ? तत्र तावद् यथा विना संभवेन उत्पादेन
विभवो विनाशो नास्ति, तथा प्रतिपादयन्नाह —
भविष्यति कथं नाम विभवः संभवं विना ।
विनैव जन्म मरणं विभवो नोद्भवं विना ॥ २ ॥
संभवं विना कथं नाम विभवो विनाशो भविष्यति ? कथं नामेत्यनेन प्रसिद्धमत्यन्ता-
संभवं दर्शयति । कथं नाम भविष्यति, नैव एतत्संभवतीत्यभिप्रायः । यदि पुनर्विनैव
संभवं विभवः स्यात्, को दोषः स्यात् ? उच्यते । विनैव जन्म मरणं स्यात्, अजातस्य मरणं
स्यात् । न च अजातस्य मरणं दृष्टमिति । तस्माद्विभवो नोद्भवं विना भवितुमर्हति । आधेनात्र
श्लोकार्थेन प्रतिज्ञा, मध्येन पादेन प्रसङ्गापादनम्, अन्त्येन निगमनमिति विज्ञेयम् ॥ २ ॥
एवं तावद्विना संभवेन विभवो न युक्तः इति प्रतिपाद्य इदानीं सह संभवेनापि विभवो न
संभवतीति तथा प्रतिपादयन्नाह —
संभवेनैव विभवः कथं सह भविष्यति ।
न जन्ममरणं चैवं तुल्यकालं हि विद्यते ॥ ३ ॥
यदि हि संभवेन सह युगपत् तुल्यकालं विभवः स्यात्, एवं सति जन्ममरणे युगपत्
स्याताम् । न चैवं परस्परविरुद्धे आलोकान्धकारवदेकस्मिन् काले विद्येते इति । तस्मात् सहापि
संभवेन विभवस्य नास्ति सिद्धिरिति स्थितम् ॥ ३ ॥
यदा चैवं संभवेन विना वा सह वा विभवस्य नास्ति सिद्धिः, एवं संभवस्यापि विना
वा सह वा विभवेन नास्ति सिद्धिरिति प्रतिपादयन्नाह —
भविष्यति कथं नाम संभवो विभवं विना ।
अनित्यता हि भावेषु न कदाचिन् न विद्यते ॥ ४ ॥
नैव हि संभवो विभवेन विना युज्यते । यस्मादनित्यता हि भावेषु भवनधर्मकेषु उत्पाद-
धर्मकेषु न कदाचिन् न विद्यते, किं तर्हि सर्वदैव विद्यते । उक्तं हि —


पादटिप्पणी :
१ T अङ्कुरादीनामुत्पत्तिरुत्पादो for अङ्कुरोत्पत्तिः भावानामुत्पादो.


[पृष्ठम् - ४११ / १७९]

[-२१.५] संभवविभवपरीक्षा एकविंशतितमं प्रकरणम् । १७९

जरामरणधर्मेषु सर्वभावेषु सर्वदा ।
तिष्ठन्ति कतमे भावा ये जरामरणं विना ॥ इति ।
[ म० शा०-७.२४ ]
यदा चैवं नियमनित्यानुगताः सर्वे भावाः, तदा कुतः सा काचिदवस्था या
विनाशरहिता स्यादिति ? अतो नास्ति विभवेन विना उत्पाद इति । एवं तावद्विना विभवेन
नास्ति संभवः । शेषमत्र संस्कृतपरीक्षायां विचारितत्वान्न विचार्यते ॥
यस्तु सहेतुको विनाशः, संस्कृतलक्षणत्वात्, उत्पादवत्, इति साधनमुत्क्षिप्य अन्त्य-
चित्तचैत्तक्षणैरनैकान्तिकतामाह, स न युक्तमाह, तद्विनाशास्यापि जातिप्रत्ययत्वेन सहेतुकत्वात्
साध्यसमत्वाच्च अनैकान्तिकताभावात् । यदपि निर्दिष्टम् — भावात्प्रभाव एव अभूत्वा भावादुत्पाद
उच्यते, तस्माद् द्रव्यसेदुत्पादसिद्धेर्द्वयहारतो दृष्टान्तभाव इति, तदपि न युक्तम्, अद्रव्यसतां
प्रतिबिम्बादीनां सहेतुकत्वाभ्युपगमात् । यथोक्तमाचार्यपादैः —
हेतुतः संभवो येषां तदभावान्न सन्ति ये ।
कथं नाम न ते स्पष्टं प्रतिबिम्बसमा मताः ॥ इति ।
अस्मादा[ गमात् ] कुतो व्यवहारतो दृष्टान्तसिद्धिः ? यदि च भावात्, यत् तत्त्वान्यत्वेन
न शक्यते वक्तुम्, तत् संवृत्यापि नास्तीत्युच्यते । नीलादिकमपि नास्तीत्युच्येत । यथोक्तं
रत्नावल्याम् —
रूपस्याभावमात्रत्वादाकाशं नाममात्रकम् ।
भूतैर्विना कुतो रूपं नाममात्रक्रमप्यतः ॥ इति ॥
अपि च । कुतो माध्यमिकानां स्वभावस्वरूपं सिद्धसत्ताकं यस्य अवस्थाविशेष उत्पादः स्यात् ?
अतः अयुक्तमेव दृष्टान्तासिद्धितोद्भावनम् । यच्चोक्तम् — न सहेतुको विनाशः, अविनाशवत्त्वात्, यथा
असंस्कृतमिति, तस्यैवं ब्रुवतो महान्तं विरोधमयं हेतुराभवति । यथा हि अयं हेतुर्विनाशस्य निर्हेतुकत्वं
साधयति, एवं संस्कृतलक्षणत्वाभावमपि साधयति । तथा संस्कारस्कन्धसंग्रहप्रतीत्यसमुत्पादाङ्ग-
संग्रहादिकमपि सर्वं विरोधयतीति न युक्तमेतन्मतम् । तथा । न विज्ञानं विषयस्वरूपच्छेदकम्,
अविज्ञानवत्त्वात्, असंस्कृतवत्, इत्यादिना सर्वानिष्टेधानन्महती अनिष्टापत्तिरुपपद्यतेऽस्य,
इति नास्थेयमेतत् ॥ ४ ॥
इदानीं विभवेन सह यथा संभवस्य नास्ति सिद्धिः, तथा प्रतिपादयन्नाह —
संभवो विभवेनैव कथं सह भविष्यति ।
न जन्ममरणं चैव तुल्यकालं हि विद्यते ॥ ५ ॥
यदि हि संभवो विभवेनैव सह स्यात्, तदा जन्ममरणयोस्तुल्यकालता स्यात् । न च [ सा ]
संभवति । तस्मात् सहभावेनापि संभवविभवयोर्नास्ति सिद्धिः ॥ ५ ॥


पादटिप्पणी :
१ T द्रव्यसत्तामुत्पादसिद्धेः for द्रव्यसदुत्पादसिद्धेः.
२ T उच्चताम् for उच्यते.
३ P आपतति for आभवति against Mss.