मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)
Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary
आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा
पृष्ठ 103, कुल 176 में से
संदर्भ में पढ़ेंपृष्ठम् १७६
१७६ मध्यमकशास्त्रे [ २०. २४-
तस्मात् —
न सामग्रीकृतं फलं
अथापि स्यात् — यदि सामग्रीकृतं फलं न संभवति, एवं तर्हि असामग्रीकृतं भविष्यतीति
चेत्, उच्यते —
नासामग्रीकृतं फलम् ।
यदा सामग्रीकृतं फलं न संभवति, तदा कथमत्यन्तविरुद्धमसामग्रीकृतं भविष्यति ?
असामग्रीकृतं फलं न संभवति ॥
अथ स्यात् — यद्यपि नास्ति फलं स्वभावतः, तथापि हेतुप्रत्ययसामग्री तावदस्ति । न
च फलमन्तरेण हेतुप्रत्ययसामग्री संभवतीति फलमपि संभविष्यतीति । उच्यते । स्याद्धेतुप्रत्यय-
सामग्री, यदि फलमेव भवेत् । यदा तु यथोदितेन न्यायेन फलमेव नास्ति, तदा —
अस्ति प्रत्ययसामग्री कुत एव फलं विना ॥ २४ ॥
फलाभावे सति निर्हेतुका हेतुप्रत्ययसामग्री अपि नास्तीत्यभिप्रायः । उक्तं हि
आर्यललितविस्तरसूत्रे —
कण्ठोष्ठ प्रतीत्य तालुकं
जिह्वपरिवर्ति रवन्ति अक्षराः ।
न च कण्ठगता न तालुके
अक्षरैकैकश नोपलभ्यते ॥
सामग्रि प्रतीत्यतश्च सा
वाच मनुबुद्धिवशेन निश्चरी ।
मन वाच अदृश्यरूपिणी
बाह्यतोऽभ्यन्तरि नोपलभ्यते ॥
उत्पादव्ययं विपस्यतो
वाचरुतघोषस्वरस्य पण्डितः ।
क्षणिकां वशिकां तदा दृशी
सर्वे वाच प्रतिश्रुतकोपमा ॥
[ ललितविस्तर - १२.१११-११३ ]
तथा आर्योपालिपरिपृच्छायामुक्तं भगवता —
इह शासनि सूरमणीये
प्रव्रजथा गृहेलिङ्ग जहित्वा ।
फलवन्तु भविष्य श्रेष्ठ
एषु निदेशितु कारुणिकेन ॥
१ P अक्षरैकैक च for अक्षरैकैकश.
पृष्ठम् १७७
-२०. २४ ] सामग्रीपरीक्षा विंशतितमं प्रकरणम् । १७७
प्रव्रजित्व गृहेलिङ्ग जहित्वा
सर्वफलस्य भविष्यति प्राप्तिः ।
पुन धर्मसभावि तुलित्वा
सर्वफलान फलान च प्राप्तिः ॥
अलभन्त फलं तथ प्राप्तिं
आश्चरियं पुन जायति तेषाम् ।
अहोऽतिकारुणिको नरसिंहो
सुष्ठुपदेशित युक्ति जिनेन ॥ इति ।
तथा आर्यप्रज्ञापारमितायामष्टसाहस्रिकायाम् —
तेन हि कौशिक बोधिसत्त्वेन महासत्त्वेन महासंनाहसंनद्धेन न रूपे स्थातव्यं न
वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थातव्यम् । न स्रोतआपत्तिफले न सकृदागामिफले
न अनागामिफले न अर्हत्त्वे न प्रत्येकबुद्धत्वे न सम्यक्संबुद्धत्वे स्थातव्यम् ॥ इति ॥
[ अष्टसाहस्रिका - ३४ ]
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
सामग्रीपरीक्षा नाम विंशतितमं प्रकरणम् ॥
म. २३