मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं. ५ अ. ३४ पान ८१
शांतिदं परम् ॥११॥ त्वदीयभाष्ययोगेन गीताज्ञा ब्राह्मणादयः । बभूवुर्गाणपत्याश्च त्वच्छिष्यास्ते मता मुने ॥१२॥
यादृशं गणनाथेन कथितं तादृशं प्रभो । त्वया ज्ञातं न संदेहो गणेशस्त्वमतो मतः ॥१३॥ गणेशगीताहार्दं यद्गणेशश्च
वरेण्यकः । त्वं त्रयः संमताः शास्त्रे जानते पूर्णयोगतः ॥१४॥ धन्येन येन भाग्येन दृष्टं ते पादपंकजम् । विद्याव्रत-
तपोदानं पितरौ कुलमेव मे ॥१५॥ यशो राज्यादिकं सर्वं धन्यं ते पाददर्शनात् । न ह्यल्पपुण्ययोगेन दर्शनं योगिनां
भवेत् ॥१६॥ अधुना वद मे ब्रह्मन् गणेशस्य यथाविधि । पूजां बाह्यां तथाऽऽन्तर्यां गाणपत्यप्रकारतः ॥१७॥ एवं पृष्टो
महायोगी गार्ग्यः सर्वार्थकोविदः । तं जगाद सुहर्षेण गाणपत्यो महायशाः ॥१८॥ गार्ग्य उवाच । अत्र ते कथयिष्यामि
चेतिहासं पुरातनम् । गृत्समदस्य विप्रस्य चरित्रसंयुतं नृप ॥१९॥ वाचक्रविस्तपोनिष्ठो बभूव परमार्थवित् । तस्य पत्नी
मुकुंदा वै रूपयौवनशालिनी ॥२०॥ वनमध्ये स्थितौ चोभौ तत्राकस्मात् समागतः । रुक्मांगदो नृपो भूप मृगयासक्त-
चेतसा ॥२१॥ क्षुधातृषायुतो राजा भ्रष्टसार्थो द्विजाश्रमम् । प्रविश्य तं प्रणम्यैव सस्त्रीकं संस्थितोऽभवत् ॥२२॥ तस्मिन्
काले द्विजः सोऽपि मध्याह्ने कर्मकारणात् । निर्जगामाश्रमाद्वाचक्रविस्तस्मान् महायशाः ॥२३॥ गते मुनौ नृपस्तत्र जगाद
देहि मे जलम् । मातर्मुकुंदे श्रांताय चाकुलाय क्षुधातृषा ॥२४॥ तस्य तद्वचनं श्रुत्वा मुनिपत्नी सुविह्वला । दृष्ट्वा नृपवरं
तं च कामबाणार्दिताऽवदत् ॥२५॥ मुकुंदोवाच । त्वत्समं पुरुषं कापि न पश्यामि नृपात्मज । त्रैलोक्येऽतो महाभाग मां
भजस्व सुविह्वलाम् ॥२६॥ नो चेत् प्राणा गमिष्यंति कामबाणैर्हता मम । इत्युक्त्वा तं नृपं सा तु चुचुंबे हठतत्परा ॥२७॥
ततोऽतिक्षोभितो राजा धृत्वा दूरे समाक्षिपत् । जगाद तां मुनेः पत्नीं व्यभिचाररतां वचः ॥२८॥ रुक्मांगद उवाच ।
सर्वेषां गुरवो देवि ब्राह्मणा नात्र संशयः । पुत्रतुल्या वयं सर्वे त्वदीयाः पापकारिणि ॥२९॥ तत्र विघ्नेश्वरे सक्ता न चलंति
कदाचन । परस्त्रियं समालोक्य मातृबुद्धिकरा मताः ॥३०॥ एवं निर्भर्त्स्य तां राजा निःसृतः शोकसंकुलः । आश्रमात्
सा शशापैव तं नृपं काममोहिता ॥३१॥ कुष्ठी भव महादुष्ट सकामां त्यजसि श्रियम् । मोहितां पापकर्मा त्वं कठिनोऽसि
सुदुर्मते ॥३२॥ तस्याः शापस्य योगेन श्वेतकुष्ठी बभूव ह । रुक्मांगदो वने गत्वा सस्मार द्विरदाननम् ॥३३॥ ततो
रात्रौ महायोगी नारदस्तत्र चागतः । तं दृष्ट्वा प्रणनामादौ पप्रच्छ विनयान्वितः ॥३४॥ रुक्मांगद उवाच । कुष्ठनाशनकरं
तीर्थं क्षेत्रमौषधमेव च । वद मे सर्वधर्मज्ञ गाणपत्यप्रिय प्रभो ॥३५॥ नारद उवाच । इंद्रेण तपसा देवो गणेशः
यहाँ पृष्ठ का मूल देवनागरी पाठ पंक्ति-दर-पंक्ति दिया गया है:
[शीर्षक] खं. ५ अ. ३४ | पान ८२
पूजितोऽभवत् । सहस्रभगनाशार्थं स देवो वरदोऽभवत् ॥३६॥ गणेशवरदानेन महेंद्रस्तेजसा युतः । योगयुक्तोऽपालयत
त्रैलोक्यं सचराचरम् ॥३७॥ तत्र तीर्थं सुविख्यातं गणेशपदलाञ्छितम् । चिंतामणिर्गणेशश्च तेन संस्थापितोऽभवत् ॥३८॥
तत्र गत्वा महीपाल कुरु स्नानं च तत्क्षणात् । कुष्ठहीनः सुवर्णस्त्वं भविष्यसि न संशयः ॥३९॥ तत्र तीर्थप्रभावेण
कुष्ठरोगविवर्जिताः । भवंति स्वानंदगास्तु नृप नास्त्यत्र संशयः ॥४०॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् ।
गतः सोऽपि महाबुद्धिर्हर्षयुक्तो बभूव ह ॥४१॥ ततः प्रातः समायाता सेना तस्य महात्मनः । तया सार्द्धं जगामाऽसौ
विदर्भे तीर्थसेवकः ॥४२॥ चिंतामणिभवं तीर्थं दृष्ट्वा राजा प्रजापते । कुष्ठहीनो बभूवाऽथ सर्वैः संहर्षितोऽभवत् ॥४३॥
ततः स्नात्वा ससैन्येन यथाविधियुतः स्वयम् । पूजयामास हर्षेण चिंतामणिं नृपात्मजः ॥४४॥ पूजयित्वा यथान्यायं
दत्त्वा दानानि कृत्स्नशः । संस्थितो मंडपे राजा गणेशे भक्तिसंयुतः ॥४५॥ तत्राकस्माद्विमानं तु समायातं सुखप्रदम् ।
तत्र दूता गणेशस्य जगुस्तं नृपसत्तमम् ॥४६॥ गाणपत्या ऊचुः । इदं विमानमारुह्य ससैन्यो नृपसत्तम । चल स्वानंदलोके
त्वं तीर्थस्नानप्रभावतः ॥४७॥ ततोऽतिहर्षसंयुक्तस्तान् प्रणम्य महायशाः । पूज्योवाच विचारज्ञो गाणपत्यो नृपात्मजः ॥४८॥
रुक्मांगद उवाच । भीमं मे गाणपत्यास्तु पितरं चारुहासिनीम् । मातरं त्यज्य विघ्नेशं कथं यामि त्वरान्वितः ॥४९॥
गाणेशानौ विशेषेण तथा तं ते समब्रुवन् । तयोः स्नानं नृपाध्यक्ष कुरु तीर्थेऽधुना किल ॥५०॥ ततस्तावपि नेष्यामो
मा चिंतां कुरु सत्तम । स्नानमात्रेण स्वानंददायकं तीर्थमुच्यते ॥५१॥ ततोऽतिहर्षितो राजा कुशान् गृह्य तयोः पुनः ।
नाम्ना ग्रंथिं समाबध्य चक्रे स्नानं यथाविधि ॥५२॥ ततोऽतिहर्षिता लोका नगरस्थास्तथा पुनः । स्नानं चक्रुर्जनानां ते
आबालं श्वपचावधि ॥५३॥ ततस्ते यानमारुह्य कौंडिन्यनगरं ययुः । पुण्यं दत्वा च तान् सर्वान् गृह्य स्वानंदमाययुः ॥५४॥
एवं तीर्थप्रभावेण नगरस्थजना नृप । गत्वा विघ्नेश्वरं दृष्ट्वा ब्रह्मभूता बभूविरे ॥५५॥ धर्मयुक्तो गणेशस्य भक्तो रुक्मांगदः
स्वयम् । स्वल्पकालेन निर्विग्नो बभूव छलतोऽपि सः ॥५६॥ गणेशभक्तमत्युग्रं ये छलंति नराधमाः । तेषां तु निष्कृतिर्नास्ति
दुःखं भुंजंति दारुणम् ॥५७॥ रुक्मांगदं मुकुंदा सा छलयित्वा विशेषतः । या गतिश्च तया प्राप्ता तां शृणुष्व महीपते ॥५८॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते रुक्मांगदचरितं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः॥ गार्ग्य उवाच। मुकुन्दा कामदग्धा सा पपात धरणीतले। न किंचित् सुखदं तस्या बभूव पृथिवीतले ॥१॥
ततोऽतिशोकसंयुक्ता तमेवाचिंत्य संस्थिता। निद्रां लेभे ततस्तां सोऽबोधयद्देवनायकः ॥२॥ तस्याः शान्तिप्रदानार्थं
स्वयं तत्राजगाम ह। रुक्मांगदस्वरूपी स बुभुजे तां सुराधिपः ॥३॥ सा हर्षिता जगामैव स्वगृहं गर्भसंस्थिता। इंद्रः
स्वर्गं ययौ भूप हर्षयुक्तो विहायसा ॥४॥ वाचक्रविः समायातः कृत्वा नित्यक्रियां मुनिः। न बुबोध मुकुंदायाश्चरितं
स तपोरतः ॥५॥ ततः पूर्णे च गर्भे सा सुषुवे पुत्रमुत्तमम्। जातकर्मादिकं सर्वं चकार मुनिसत्तमः ॥६॥ गृत्समदेति
पुत्रस्य नाम चक्रे सुखप्रदम्। चकार व्रतबंधं तु पंचमे हर्षसंयुतः ॥७॥ वेदानध्यापयामास श्रवणग्राहकाय वै। स्वयं
तस्मै ददौ मंत्रं गणानां त्वेति ऋग्भवम् ॥८॥ तेन मंत्रेण विघ्नेशं ध्यात्वा गृत्समदो मुनिः। तोषयामास भावेन नित्यं
जपपरायणः ॥९॥ कदाचित्तत्र राजा स मगधस्तं जुहाव च। पितुः श्राद्धे सुदांतं वै तपोयुक्तं यशस्विनम् ॥१०॥ तत्र
वसिष्ठमुख्याश्च मुनयो योगपारगाः। समागताः सभायां ते विविशुः पूजिता नृप ॥११॥ तत्र शास्त्रप्रसंगे स गृत्समद
उवाच ह। योगमयोगिभावस्थः श्रुत्वाऽत्रिसंतं वचोऽब्रवीत् ॥१२॥ अयोगी योगिनां मध्ये रुक्मांगदसुतस्तथा। वदसि
त्वं न योग्योऽसि पंक्तौ गच्छ निजाश्रमम् ॥१३॥ ततोऽतिकोपसंयुक्तः स्वं गृत्समद आश्रमम्। जगाम सोऽपि जननी-
मपृच्छद्रक्तलोचनः ॥१४॥ वद तातं मदीयं त्वं कामुके निरपत्रपे। कथं रुक्मांगदाज्जातोऽहं नोचेत्त्वां शपामि तु ॥१५॥
जगाद शापभीता तं ततः सा कंपसंयुता। वृत्तांतं पूर्वसंभूतं रुक्मांगदविहारजम् ॥१६॥ तच्छ्रुत्वा कोपसंयुक्तः शशाप
जननीं सुतः। कंटकी भव मातस्त्वं दुष्टकर्मपरायणा ॥१७॥ अतितिक्तफलां तत्र भक्षिष्यंति नरा न ताम्। अरण्ये निंदिता
नित्यं भुंक्ष्व पापं पुरा कृतम् ॥१८॥ ततः सापि स्वपुत्रं तं शशाप क्रोधपूरिता। त्वत्तः पुत्रो महादैत्यो भविष्यति
सुदारुणः ॥१९॥ ततो देहं समुत्सृज्य मुकुंदा साऽभवन्नृप। कंटकी श्यामसज्ञा सा पापकर्मपरायणा ॥२०॥ गणेशभक्त-
विक्षेपादतृत्वोदघमुत्तमम्। तया प्राप्तं चिरं पूर्णं तेन शापयुताऽभवत् ॥२१॥ कल्पे कल्पे च शापात् सा सदा वृक्षत्व-
मागता। पश्य विघ्नस्वरूपं त्वं महाभयंकरं नृप ॥२२॥ ततो गृत्समदः क्षुब्धो देहत्यागे समुद्यतः। तत आकाशवाणी
तं जगाद प्रेमसंयुता ॥२३॥ इंद्रो रुक्मांगदीभूतस्तस्माज्जातोऽसि मानद। भज लंबोदरं नित्यं ततः सौख्यमवाप्स्यसि ॥२४॥
श्रुत्वा सोऽपि वने गत्वा तताप तप उत्तमम्। निराहारेण संस्थश्च गणेशमभजत् सदा ॥२५॥ ब्रह्मणस्पतिसूक्तैश्चा-
पान ८४
भिषिंचन् मंडले स्थितम् । जपं चकार भावेन ब्राह्मणत्वस्य कारणात् ॥२६॥ ऐल उवाच । ब्रह्मणस्पतिसूक्तानां मंडलं कीदृशं
स्मृतम् । फलं च कीदृशं तत्र लभते मानवः प्रभो ॥२७॥ कथयस्व विधानेन सर्वज्ञोऽसि दयानिधे । येन विघ्नेश्वरः प्रीतो
भवेत् सर्वार्थदायकः ॥२८॥ गार्ग्य उवाच । ब्रह्मणस्पतिसूक्तानां विधिं शृणु महामते । यथा गृत्समदः सिद्धो बभूवे तस्य
सेवनात् ॥२९॥ गणानां त्वेति मंत्रेण षोडशांगेषु भूमिप । न्यासं कुर्यात्तथा पूज्याऽभिषेकं तु समाचरेत् ॥३०॥ एक-
विंशतिभिर्भूपा वृत्तिभिरेकविंशतिः । समाख्याता च सूक्तानामभिषेके तथा जपे ॥३१॥ एतादृशाश्च राजेंद्र भवन्त्येकाधिका-
स्ततः । विंशत्यो मंडलं ह्येकं ज्ञातव्यं विबुधैः परम् ॥३२॥ मंडलानि महाभाग एकविंशन्मितानि च । भवंति चेत्
समाख्यातं महामंडलकं बुधैः ॥३३॥ अभिषेके समाख्यातं जपे वा राजसत्तम । सर्वसिद्धिप्रदं पूर्णं महामंडलकं सुरैः ॥३४॥
धर्मार्थकाममोक्षेषु प्रशस्तं कर्म सिद्धिदम् । गणेशप्रीतये भक्त्या ब्रह्मभूतकरं भवेत् ॥३५॥ ब्राह्मणत्वस्य कार्यार्थ कृतं तेन
महात्मना । गृत्समदेन सूक्तानां महामंडलकं नृप ॥३६॥ एतत्ते कथितं भूपाधुना शृणु कथानकम् । विघ्नेशप्रापकं
गृत्समदस्य दुरितापहम् ॥३७॥ स्वयं गृत्समदस्तत्र नित्यं कृत्वा यथाविधि । गणानां त्वेति मंत्रेण पुपूज विघ्ननायकम् ॥३८॥
एकविंशतिमेकां स नित्यं चकार भूमिप । अभिषेकार्थमेवं तु ततो जपपरोऽभवत् ॥३९॥ गणानां त्वेति मंत्रस्य जपं
चकार नित्यदा । शतानि ध्याननिष्ठः स सैकविंशतिकानि तु ॥४०॥ नासाग्रन्यस्तदृष्टिश्च सदा यत्नपरायणः । महोग्रतपसा
देवं तोषयामास विघ्नपम् ॥४१॥ एवं वर्षसहस्रैस्तु दिव्यैर्विघ्नेश्वरो ययौ । मुनिं तं भक्तवात्सल्यादुवाच ध्यानसंस्थितम् ॥४२॥
श्रीगणेश उवाच । पश्य मां मुनिशार्दूल ब्रह्मणस्पतिमागतम् । वरयस्व वरान् मत्तो दास्यामि तुभ्यमादरात् ॥४३॥ गणेश-
वचनं श्रुत्वा गृत्समदः सुहर्षितः । उन्मील्य लोचने ढुंढिमपश्यन्निकटे स्थितम् ॥४४॥ ततोऽतिहर्षसंयुक्तः प्रणनाम
विनायकम् । भक्त्या संपूज्य तुष्टाव साश्रुनेत्रो नराधिप ॥४५॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते गृत्समदगणेशसमागमो नाम पंचत्रिंशत्तमोऽध्यायः ॥
खं. ५ अ ३६
पान ८५
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । नमस्ते ब्रह्मणां नाथ ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणस्पतये तुभ्यं गणेशाय नमो
नमः ॥१॥ ज्येष्ठराजाय ज्येष्ठानां ज्येष्ठपदप्रदायिने । ज्येष्ठानां ज्येष्ठरूपाय सर्वपूज्याय ते नमः ॥२॥ कर्तॄणां कर्तृरूपाय
कवये कविनायक । कर्तृभ्यः कर्तृदात्रे वै कविराजाय ते नमः ॥३॥ जगत्सु ब्रह्मसु प्राज्ञ नानाभोगकराय ते । उपमान्न-
प्रभोक्त्रे तु ब्रह्मभोक्त्रे नमो नमः ॥४॥ सदा मोहयुतायैव मोहमोहकराय ते । जीवाय बृहतां नाथाय बृहस्पतये
नमः ॥५॥ सदा ब्रह्मसुखस्थाय परमात्मस्वरूपिणे । गुहाहिताय सांख्याय बृहस्पतिसखाय ते ॥६॥ स्वसंवेद्यमयायैव
स्वानंदे योगधारिणे । जीवानां ब्रह्मणां संयोगाय ते वै नमो नमः ॥७॥ सत्यायायोगरूपाय मनोवाणीविवर्जित । भद्राणां
भद्रकायैव सत्यसत्याय ते नमः ॥८॥ सर्वेषां पोषकायैव सोमायामृतरूपिणे । सोमानां सोमदात्रे ते पुष्टिनाथाय ते
नमः ॥९॥ उत्तिष्ठत्सृष्टिकर्त्रे ते पालकाय हराय च । त्रयीमयाय तुर्याय तुर्यातीताय ते नमः ॥१०॥ इंद्रादिदेवतानां वै
सहायाय नमो नमः । धर्मपालकभावाय धर्माधीशाय ते नमः ॥११॥ सर्वेषां राज्यदात्रे वै राज्यराजाय ते नमः ।
अराज्याय परेशाय संसारार्णवतारिणे ॥१२॥ योगेभ्यो योगदात्रे च योगयोगाय ते नमः । शांतिदाय सदा शांतिस्थाय
तत्पतये नमः ॥१३॥ इत्यादि भेदा बहवो ब्रह्मणो वेदवादतः । तेषां स्वामिस्वरूपाय ब्रह्मणे ते नमो नमः ॥१४॥
किं स्तौमि गणनाथ त्वां ब्रह्मणस्पतिरूपिणम् । भव प्रसन्नो ब्रह्मेश कृपया ते नमो नमः ॥१५॥ एवं गृत्समदः स्तुत्वा गणेशानं
महीपते । हर्षेणोत्फुल्लनयनो ननर्त प्रेमविह्वलः ॥१६॥ दृष्ट्वा तं गणराजस्तु जगाद घननिस्वनः । वरं मत्तस्त्वं वरयाधुना
स्तोत्रेण तोषितः ॥१७॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति न संदेहो मम भक्तिविवर्धनम् ॥१८॥
सदा शांतिमयो भूत्वा मां भजिष्यसि मानद । त्वया कृतेन स्तोत्रेण ब्रह्मभूतो भविष्यसि ॥१९॥ पुत्रपौत्रादिकं सर्वं
धनधान्यादिवर्धनम् । प्रभविष्यति पाठेन श्रवणेन मुनेऽस्य तु ॥२०॥ तस्य तद्वचनं श्रुत्वा सावधानो बभूव ह । नियम्य
हर्षमुग्रं स प्रणनाम गजाननम् ॥२१॥ उवाच विस्खलद्वाक्यो मुनिर्गृत्समदो महान् । गणेशं भक्तिसंयुक्तो भक्तराजेश्वरः
स्वयम् ॥२२॥ गृत्समद उवाच । धन्यौ मे जनकौ नाथ जन्म धन्यं तपो वयः । विद्या व्रतादिकं सर्वं त्वदंघ्रियुगदर्शनात् ॥२३॥
अहो साक्षाद्गणेशानो ब्रह्मेंद्रो दृष्टिमागतः । मनोवाणीविहीनो न ताभ्यां युक्तो न वै भवान् ॥२४॥ एतादृशं गणेशानं
दृष्ट्वा त्वां किं वृणोम्यहम् । तथापि वरयामि त्वां त्वदाज्ञापालनार्थतः ॥२५॥ ब्रह्मभूताश्च वेदेषु ब्राह्मणाः कथिता बुधैः
अतो मां ब्राह्मणं नाथ कुरु योगींद्र वंद्यकम् ॥२६॥ यथा त्वं ब्रह्मणां नाथस्तथाऽहं ब्रह्मभूयिनाम् । नाथो भवामि विघ्नेश
योगींद्राणां गुरोर्गुरुः ॥२७॥ त्वदीयपादपद्मे वै भक्तिं देहि गजानन । सुदृढां गाणपत्येषु संगं देहि सदा च मे ॥२८॥
गाणपत्येषु विख्यातं मां कुरुष्व विशेषतः । गृत्समदंसमो नास्ति गाणपत्यस्वभावधृक् ॥२९॥ एवमुक्त्वा गणेशानं प्रण-
नाम महामुनिः । तमुवाच गणेशानो भक्तिं दृष्ट्वा महाद्भुताम् ॥३०॥ श्रीगणेश उवाच । गणानां त्वेति मंत्रस्य जपः खलु
कृतस्त्वया । सूक्तस्यापि तथा मे वै तत्र मुख्यो भविष्यसि ॥३१॥ ऋषिर्भव महाभाग गणानां त्वास्य मंत्रतः ।
सूक्तस्यापि विशेषेण ब्राह्मणेंद्रो भवापि तु ॥३२॥ आदावृषेश्च यज्ञादौ स्मरणं ते करिष्यति । पश्चान्म मे देवतायाश्च
मुख्यो भव मदीयके ॥३३॥ न त्वत्समो भवेत् कुत्र मद्भक्तेषु महामुने । मानयिष्यंति विप्रास्त्वामत्रिमुख्या न
संशयः ॥३४॥ त्वदीयस्मरणं नास्ति मंत्रे वैदिकगे च मे । गणानां त्वा जपिष्यंति फलहीना भवंतु ते ॥३५॥ शिवविष्ण्वा-
दयो देवा ब्रह्माद्या ब्राह्मणा नराः। शेषाद्याश्चासुराद्याश्च त्वां नमस्यंति नित्यदा ॥३६॥ त्वदीयावज्ञया क्रुद्धो दहिष्यामि
चराचरम् । त्वदीयहृदये नित्यं स्थास्यामि भक्तिलोलुपः ॥३७॥ त्वया यत्र तपस्तप्तं तदेव क्षेत्रमुत्तमम् । भविष्यति
मदीयं वै पुष्पकं सर्वसिद्धिदम् ॥३८॥ भुक्तिं मुक्तिं ब्रह्मभूयं भक्तिं पुष्णाति मानद । तेन क्षेत्रं समाख्यातं पुष्यकं
मत्समाश्रितम् ॥३९॥ यद्यच्चिंतयसि प्राज्ञ तत्तत्ते सफलं भवेत् । स्मरणेन महाकार्ये प्रत्यक्षोऽहं भवामि च ॥४०॥
एवमुक्त्वाऽंतर्दधेऽसौ ब्रह्मणस्पतिरंजसा । स्वयं गृत्समदः खिन्नोऽभवत्तत्रैव संस्थितः ॥४१॥ ततः स ब्राह्मणैः सार्धं
स्थापयामास विघ्नपम् । ब्रह्मणस्पतिनामानं चकार क्षेत्रसंस्थितम् ॥४२॥ ततो गृत्समदो योगी सर्वमान्यो बभूव ह ।
ब्रह्मणस्पतिभक्तश्च ब्राह्मणैः पूजितोऽभवत् ॥४३॥ यथा गजाननः प्राह तथा सर्वं बभूव ह । मुनिस्तत्र महीपालाऽभजतं
स विनायकम् ॥४४॥ नित्यं च मानसीं पूजां बाह्यां चकार विप्रपः । गणेशस्याऽतिभक्तो गृत्समदः सर्वतो बभौ ॥४५॥
इदं गृत्समदाख्यानं कथितं सर्वसिद्धिदम् । सर्वपापहरं पुण्यं श्रवणात् पठनान्नृणाम् ॥४६॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते गृत्समदवरप्रदानं नाम षट्त्रिंशत्तमोऽध्यायः ॥
खं. ५ अ. ३७
पान ८७
॥ श्रीगणेशाय नमः ॥ ऐल उवाच । कथं नित्यं महायोगी गाणपत्याग्र्य एव च । महापूजां गृत्समदो द्विविधां प्रचकार
ह ॥१॥ तन्मे विस्तरतो ब्रूहि धन्योऽयं ब्राह्मणेषु वै । गणेशेन कृतो विप्रो ऋषिः स्वसूक्तकस्य च ॥२॥ गार्ग्य उवाच । शृणु
तस्य मुनींद्रस्य चरित्रं भक्तिसंश्रितम् । यथा गजाननं सोऽप्यभजत्तं नित्यमादरात् ॥३॥ प्रातः काले समुत्थाय गुरुं नत्वा
स्वमस्तके । मानस्या पूजया पूज्य तथा हृदि गणेश्वरम् ॥४॥ गाणेशांश्च तथा स्मृत्वा विभूतिरूपधारकान् । क्षमाप्य धरणीं
पश्चात् पादं चिक्षेप विप्रपः ॥५॥ शौचाचारमशेषं च चकार शास्त्रमार्गतः । दंतकाष्ठं ततो भक्ष्य स्नानं चक्रे यथाविधि ॥६॥
आदावाभ्यंतरं स्नानं चकार शृणु तन्नृप । वक्ष्यामि सिद्धिदं पूर्णमज्ञानमलनाशनम् ॥७॥ सहस्रारे समासीनं गजानन-
मनामयम् । अंगुष्ठपर्वमात्रं तं प्रभुं ध्यायेच्चतुर्भुजम् ॥८॥ पाशांकुशधरं पूर्णं दंताभयसमन्वितम् । त्रिनेत्रं भूषणैर्युक्तमनर्घ्य-
वस्त्रराजितम् ॥९॥ पादांगुष्ठाग्रसंभूतां तस्य तीर्थमयीं पराम् । सरितं चिंतयेत् पूर्णामासमंतात् प्रसारिणीम् ॥१०॥
सर्वांतर्गतजं पूर्णमज्ञानं मलरूपकम् । तया संक्षालयेच्चित्ते नृप सर्वगया सुधीः ॥११॥ एवमांतरगं स्नानं यः करोति
नरोत्तमः । स सर्वमलहीनश्च भुक्तिं मुक्तिं लभेत् पराम् ॥१२॥ बाह्यं ततः समाख्यातं वैदिकं तांत्रिकं द्विधा ।
स्वशाखोक्तविधानेनादौ वैदिकं समाचरेत् ॥१३॥ ततः स्वमूलमंत्रेण युक्तं तांत्रिकमाचरेत् । स शुद्धः सर्वकर्मार्हो भवते
देवतासमः ॥१४॥ एवं गृत्समदः सर्वं चकार राजसत्तम । गणेशप्रीतिकामार्थ भक्तियुक्तो महामुनिः ॥१५॥ शुचिवस्त्रे
तथा गृह्य संध्यां चकार वैदिकीम् । तत आगमसंभूतां गाणेशीं सर्वसिद्धिदाम् ॥१६॥ तत्राचमनकं प्रोक्तं त्रिविधं
विबुधोत्तमैः । वैदिकं तांत्रिकं पौराणिकं चैव सुसिद्धिदम् ॥१७॥ व्याहृत्या वैदिकं प्रोक्तं मूलमंत्रेण तांत्रिकम् । पौराणिकं
चतुर्थ्यंतं गणेशनामसंयुतम् ॥१८॥ तत्र पौराणिकं वक्ष्ये महत् शुचिकरं शृणु । यथा गृत्समदो विप्रेंद्रश्चकार
महायशाः ॥१९॥ गणेशो ढुंढिराजश्च हेरंबो वक्रतुंडकः । शूर्पकर्णश्च विघ्नेशश्चिंतामणिर्गजाननः ॥२०॥ लंबोदरश्चैकदंतो
ब्रह्मणस्पतिरेव च । विनायको ज्येष्ठराजो विकटः कपिलस्तथा ॥२१॥ धरणीधर आशापूरको महोदरस्तथा । धूम्रकेतुर्मयूरेशः
स्वानंदवासकारकः ॥२२॥ त्रिभिराचम्य हस्तौ वै द्वाभ्यां संक्षालयेन्नरः । द्वाभ्यामोष्ठौ संपुटं चैकेन वै संस्पृशंस्ततः ॥२३॥
पादौ तथैव नाम्ना वै शिरश्च चिबुकं नृप । द्वाभ्यां दक्षिणवामे तु नासिके संस्पृशोत्ततः ॥२४॥ द्वाभ्यां नेत्रे तथा कर्णौ
नाभिं चैकेन हृत्तथा । ललाटमेकनाम्ना तु बाहू चैकेन संस्पृशेत् ॥२५॥ जलयुक्तेन नाम्ना यो नरश्चैवं समाचरेत् । आचमनं
भवेत् साक्षाद्गणेशो भूमिमंडले ॥२६॥ ततो न्यासादिकं कुर्यात् कलाशस्थापनं चेरेत् । पीठपूजां ततः कृत्वा मंत्रन्यासं
समाचरेत् ॥२७॥ आगमोक्तेन मार्गेण मुनिर्गृत्समदो महान् । चकार सकलं राजन् देवतुल्योऽपि नित्यशः ॥२८॥
ध्यात्वा गजाननं चित्ते पूजां चक्रे स मानसीम् । स्थिरचित्तेन योगीशो गणेशस्य विधानवित् ॥२९॥ मानस्यां
स्थिरचित्तत्वं कारणं परमं मतम् । न वर्णाश्रमभागश्च वर्तते नृपसत्तम ॥३०॥ वर्णाश्रमयुतानां चात्रावर्णाश्रमरूपिणाम् ।
अधिकारः सदा शास्त्रे वर्तते स्थिरचेतसाम् ॥३१॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते गृत्समदनित्यकर्मवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद् उवाच । विघ्नेश वीर्याणि विचित्रकाणि सुमागधैर्बन्दिजनैः स्मृतानि । श्रुत्वा समुत्तिष्ठ गजानन
त्वं ब्राह्मे जगन्मंगलं कुरुष्व ॥१॥ एवं मया प्रार्थितविघ्नराजश्चित्तेन चोत्थाय बहिर्गणेशः । तं निर्गतं वीक्ष्य नमंति देवाः
शंभ्वादयो योगिमुखास्तथाऽहम् ॥२॥ शौचादिकं ते परिकल्पयामि हेरंब वै दंतविशुद्धिमेवम् । वस्त्रेण संप्रोञ्छ्य मुखारविंदं
देवं सभायां विनिवेशयामि ॥३॥ द्विजादिसर्वैरभिवंदितं च शुकादिभिर्मोदसुमोदकाद्यैः । संभाष्य चालोक्य समुत्थितं तं
सुमंडपं कल्प्य निवेशयामि ॥४॥ रत्नैः सुदीप्तैः प्रतिबिंबितं तं पश्यामि चित्तेन विनायकं च । तत्रासनं रत्नसुवर्णयुक्तं
संकल्प्य देवं विनिवेशयामि ॥५॥ सिद्ध्या च बुद्ध्या सह विघ्नराज पाद्यं कुरु प्रेमभरेण सर्वैः । तोयं सुवासै रचितं गृहाण
चित्तेन दत्तं च सुखोष्णभावम् ॥६॥ शुद्धेन वस्त्रेण गणेश पादौ संप्रोञ्छ्य दूर्वादिभिरर्चयामि । चित्तेन भावप्रिय दीनबंधो
चित्तं विलीनं कुरु ते पदाब्जे ॥७॥ कर्पूरैलादिसुवासितं तु सुकल्पितं तोयमथो गृहाण । आचम्य तेनैव । गजानन त्वं
कृपाकटाक्षेण विलोकयाऽऽशु ॥८॥ प्रवालमुक्ताफलहारकाद्यैः सुसंस्कृतं ह्यंतरभावकेन । अनर्घ्यमर्घ्यं सफलं कुरुष्व
मया प्रदत्तं गणराज ढुंढे ॥९॥ शुद्धं त्रियुक्तं मधुपर्कमाद्यं संकल्पितं भावयुतं गृहाण । तोयेन चाचम्य विनायक त्वं
भक्तांश्च भक्तेश सुरक्षयाशु ॥१०॥ द्रव्यैर्युतं चंपकजातिकाद्यैः तैलं मया कल्पितमेव ढुंढे । दत्तं गृहाणाऽऽशु विमर्दयामि
खं. ५ अ. ३८ पान ८९
सर्वांगमानंदद सेवनाय ॥११॥ देवं सुखोष्णेन जलेन चाऽहं सर्वाघतीर्थाहृतकेन ढुंढिम् । चित्तेन शुद्धेन च स्नापयामि स्नानं
मया दत्तमथो गृहाण ॥१२॥ ततः पयःस्नानमचिंत्यभाव गृहाण तोयस्य तथा गणेश । पुनर्दधिस्नानमनामय त्वं प्रकल्पितं
नाथ जलस्य चाथ ॥१३॥ ततो घृतस्नानमपारवंच सुतीर्थजं विघ्नहर प्रसीद । गृहाण चित्तेन सुकल्पितं तु ततो मधुस्नानमथो
जलस्य ॥१४॥ सुशर्करायुक्तमथो गृहाण स्नानं मया कल्पितमेव ढुंढे । ततो जलस्नानमघापहंतर्गणेश मायाभ्रमवारणाशु ॥१५॥
सुयक्षपंकस्थमथो गृहाण स्नानं परेशाधिपते ततश्च । कमंडलौ संभवजं कुरुष्व स्नानं विशुद्धं परिकल्पितं ते ॥१६॥
दुग्धेन सूक्तैर्मनसा सुतीर्थैः संपूज्य दूर्वादिभिरल्पभावैः । संख्यातिगैर्मडलभूतब्राह्मणस्पत्यकैस्त्वामभिषेचयामि ॥१७॥
ततः सुवस्त्रेण तु प्रोञ्छनं त्वं गृहाण चित्तेन मया सुकल्पितम् । ततो विशुद्धेन जलेन चाचांतमेव ढुंढे कुरु विघ्नराज ॥१८॥
अग्नौ विशुद्धे प्रगृहाण वस्त्रे मौल्यातिगे ते मनसा मया वै। दत्ते परिच्छाद्य निजात्मदेहं ताभ्यां मयूरेश जनांश्च पालय ॥१९॥
आचम्य विघ्नेश पुनस्त्वमेवं चित्तेन दत्तं सुखमुत्तरीयम् । भक्त्या गृहाण प्रतिपालयाऽऽशु नभो यथा तारकसंयुतं किम् ॥२०॥
यज्ञोपवीतं त्रिगुणस्वरूपं सौवर्णमेवं ह्यहिनाथभूतम् । भावेन दत्तं गणनाथ तत्त्वं सौत्रं गृहाणोद्धतिकारणाय ॥२१॥
आचांतमेवं मनसा कुरुष्व दत्तं मया तीर्थजलेन ढुंढे । भावेन कामंडलवेन पाहि विश्वं प्रभो खेलकृतं सदा ते ॥२२॥
उद्यदिनेशाभमथो गृहाण सिंदूरकं ते मनसा प्रदत्तम् । सर्वांगसंलेपनमादरात्त्वं हेरंब चित्तेन कुरुष्व पूर्णम् ॥२३॥
साहस्रशीर्ष मनसा मया त्वं दत्तं किरीटं तु सुवर्णजं वै । अनंतरत्नैः खचितं गृहाण ब्रह्मेश ते मस्तकशोभनाय ॥२४॥
विचित्ररत्नैः कनकेन ढुंढे युतानि चित्तेन मया परेश । दत्तानि नानापदकुंडलानि गृहाण शूर्पश्रुतिभूषणाय ॥२५॥
शुंडाविभूषार्थमनंतखेलिन् सुवर्णजं कंचुकमागृहाण । रत्नैश्च युक्तं मनसा मया यद्दत्तं प्रभो तत् सफलं कुरुष्व ॥२६॥
सुवर्णरत्नैश्च युतानि संप्रकल्प्यैकदंताभरणानि ढुंढे । गृहाण चूडाकृतिनी परेश समर्पिते ते रदशोभनार्थम् ॥२७॥
रत्नैः सुवर्णेन कृतानि यानि चत्वारिसंकल्प्य गृहाण तानि । संभूषय त्वं कटकानि नाथ चतुर्भुजेषु ह्यज विघ्नहारिन् ॥२८॥
विचित्ररत्नैः खचितं सुवर्णसंभूतकं गृह्य मया प्रदत्तम् । तथांगुलिष्वेव यदंगुलीयं गणेश संशोभय तत्परेश ॥२९॥
रत्नैर्विचित्रैः खचितानि ढुंढे केयूरकाणि ह्यथ कल्पितानि । सुवर्णजानि प्रमथाधिनाथ गृहाण दत्तानि तु बाहुषु त्वम् ॥३०॥
प्रवालमुक्ताफलरत्नजास्त्वं सौवर्णसूत्रैश्च गृहाण कंठे । चित्तेन दत्ता विविधाश्च माला हृद्योदरे शोभय विघ्नराज ॥३१॥
चंद्रं ललाटे गणनाथ पूर्णं वृद्धिक्षयाभ्यां तु विहीनमाद्यम् । संशोभय त्वं वरसंयुतं ते भक्तिप्रियत्वं प्रकटीकुरुष्व ॥३२॥
चिंतामणिं चिंतितदं परेश हृद्देशगं कांतिमयं कुरुष्व । मणिं सदानंदसुखप्रदं च विघ्नेश दीननाथ पालयस्व ॥३३॥ नाभौ
फणीशं च सहस्रशीर्ष संवेष्टनैव गणाधिनाथ । भक्तं सुभूषं कुरु भूषणेन दत्तं वरं तं सफलं परेश ॥३४॥ देशे कटौ
रत्नसुवर्णयुक्तां कांचीं सुचित्तेन च धारयामि । विघ्नेश ज्योतिर्गणदीपिनीं ते पाहि प्रभक्तं कुरु मां दयाब्धे ॥३५॥
गणेश ते रत्नसुवर्णयुक्ते मंजीरके नूपुरके तथैव । सुकिंकिणीनादयुते सुबुद्ध्या सुपादयोः शोभय मे प्रदत्ते ॥३६॥
इत्यादि नानाविधभूषणानि भक्तेच्छया मानसकल्पितानि । सुभूषयाम्येव तवांगकेषु रत्नादिधातुप्रभवाणि ढुंढे ॥३७॥
सुचंदनं रक्तममोघवीर्यं सुघर्षितं ह्यष्टसुगंधमुख्यैः । मया युतं कल्पितमेकदंत गृहाण ते त्वंगविलेपनार्थम् ॥३८॥ लिप्तेषु
वैचित्रमथाष्टगंधैरंगेषु तेऽहं प्रकरोमि चित्रम् । मां पाहि चित्तेन विनायक त्वं रक्तं ततो वर्तुलमेव भाले ॥३९॥ आज्येन
वै कुंकुमकेन रक्तान् सूक्ष्माक्षतांस्ते परिकल्पयामि । भाले गणाध्यक्ष गृहाण पाहि भक्तान् सुभक्तिप्रिय दीनबंधो ॥४०॥
गृहाण भोश्चंपकमालतीस्थलपंकजान्यंबुजपंकजानि । मया प्रदत्तानि च मल्लिकाश्च गणेश पुष्पाणि च रक्तकानि ॥४१॥
पुष्पोपरि त्वं मनसा गृहाण हेरंब मंदारशमीदलानि । दत्तानि चित्तेन सुकल्पितानि संख्यातिगानि प्रणवाकृते ते ॥४२॥
दूर्वांकुरान् वै मनसा प्रदत्तान् पंचत्रिपत्रान्वितकार्द्रभूतान् । श्वेतांश्च विघ्नेश्वर संख्यया त्वं हीनांश्च सर्वोपरि संगृहाण ॥४३॥
दशांगभूतं मनसा मया ते धूपं प्रदत्तं गणराज चाग्रौ । मां पाहि सौरभ्यकरं परेश सिद्ध्या च बुद्ध्या सह संगृहाण ॥४४॥
दीपं सुवर्त्यायुतमादरात्ते दत्तं मया मानसं गृहाण । विघ्नेश कर्पूरभवं गृहाण तैलादिसंभूतममोघदृष्टे ॥४५॥ भोज्यं तु
लेह्यं गणराज पेयं चोष्यं च नानाविधषड्रसाढ्यम् । हेरंब नैवेद्यमथो गृहाण संकल्पितं पुष्टिपते ह्यपारम् ॥४६॥ सुवासितं
भोजनमध्यभागे जलं मया दत्तमथो गृहाण । सदात्मतीर्थं मनसा गणेश पिबस्व विश्वादिकतृप्तिकारिन् ॥४७॥ ततः
करोद्वर्तनकं गृहाण सुगंधयुक्तं मुखमार्जनाय । सुवासितेनैव सुतीर्थजेन सुकल्पितं भक्तियुतं च ढुंढे ॥४८॥ आचम्य सर्वेश
सुवासितं च दत्तं मया तीर्थजलं पिबस्व । संकल्प्य विघ्नेश ततः परं ते संप्रोञ्छनं हस्तमुखे करोमि ॥४९॥ द्राक्षादिरंभा-
फलचूतकानि खर्जूरकर्कन्धुकदाडिमानि । स्वादेन युक्तानि मया गृहाण संकल्प्य दत्तानि फलानि ढुंढे ॥५०॥ पुनर्जलेनैव
करादिकं क्षालयामि तेऽहं मनसा गणेश । सुवासितं तोयमथो पिबस्व मया प्रदत्तं मनसा परेश ॥५१॥ अष्टांगयुक्तं
खं. ५ अ. ३८ पान ९१
गणनाथ दत्तं तांबूलकं ते मनसा मया वै । सुकल्प्य विघ्नेश्वर संगृहाण नाथासकृत्तुंडविशोधनार्थम् ॥५२॥ ततो मया कल्पितके
गणेश महासने रत्नसुवर्णयुक्ते । शमीशकार्पासकयुक्तवस्त्रैरनर्घ्यसंछादितके प्रसीद ॥५३॥ भक्त्या त्वदीयावरणं परेश
संपूजयामि मनसा यथावत् । नानोपचारैः परमप्रियैस्तु त्वत्प्रीतिकामार्थमनाथबंधो ॥५४॥ गृहाण लंबोदर दक्षिणां ताम-
संख्यभूतां मनसा प्रदत्ताम् । सुवर्णरत्नादिकमुख्यभूतां प्रभो जगत्कृत्स्नमिदं सुपाहि ॥५५॥ राजोपचारान्विविधान् गृहाण
छत्राश्वहस्त्यादिकमादराद्वै । चित्तेन दत्तान् गणनाथ ढुंढे ह्यपारसंख्यान् स्थिरजंगमांस्ते ॥५६॥ दानस्य नानाविधरूपकांस्ते
दत्तान् मया वै मनसा गृहाण । गोभूमिकाद्यान् स्थिरजंगमांश्च हेरंब मां तारय मोहभावात् ॥५७॥ मंदारपुष्पाणि शमी-
दलानि दूर्वांकुरांस्ते मनसा ददामि । हेरंब लंबोदर दीनपाल संगृह्य भक्तं कुरु मां पदस्ते ॥५८॥ ततो हरिद्रामबिरं गुलालं
सिंदूरकं ते परिकल्पयामि । सुवासितं वस्तु सुवासभूतैर्गृहाण ब्रह्मोश्वर शोभनार्थम् ॥५९॥ ततः शुकाद्याः शिवविष्णुमुख्या-
मराधिपाः शेषमुखास्तथान्ये । मुनींद्रकाः सेवकभावयुक्ताः सभासनस्थं प्रणमंति ढुंढिम् ॥६०॥ वामांगके भक्तियुता गणेशं
सिद्धिश्च नानाविधसिद्धिभिस्तम् । अत्यंतभावेन सुसेवते तु मायास्वरूपा परमार्थभूता ॥६१॥ ब्रह्मोश्वरं दक्षिणभागसंस्था
बुद्धिः कलाभिश्च सुबोधिकाभिः । विद्याभिरेवं भजते परेश माया सुसांख्यप्रदचित्तरूपा ॥६२॥ प्रमोद्रमुख्याः प्रभुपृष्ठभागे
गणेश्वरं भावयुता भजंते । भक्तेश्वरा मुद्गलशांभुमुख्याः शुकादयस्तं स्म पुरो भजंते ॥६३ ॥ गंधर्वमुख्या मधुरं जगुश्च
विश्वेशगीतं विविधस्वरूपम् । नृत्यं कलायुक्तमथो पुरस्ताच्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥६४॥ इत्यादि नानाविधभावयुक्तैः
संसेवितं विघ्नपतिं भजामि । चित्तेन ध्यात्वा तु निराजनं वै करोमि नानाविधदीपयुक्तम् ॥६५॥ चतुर्भुजं पाशधरं गणेशं
तथाऽण्ड्कुशं वै दधतं च दंतम् । त्रिनेत्रयुक्तं ह्यभयंधरं तं महोदरं चैकरदं गजास्यम् ॥६६॥ सर्पोपवीतं गजकर्णधारं
विभूतिभिः सेवितपादपद्मम् । ध्याये गणेशं विविधप्रकारैः संपूजितं शक्तियुतं परेशम् ॥६७॥ ततो जपं वै मनसा करोमि
स्वमूलमंत्रस्य विधानयुक्तम् । असंख्यभूतं गणराजहस्ते समर्पयाम्येव गृहाण ढुंढे ॥६८॥ आरातिकं त्वेतदपारदीपं
कर्पूरभूतं प्रकरोमि पूर्णम् । चित्तेन लंबोदर तत् गृहाण ह्यज्ञानध्वांताघहरं निजानाम् ॥६९॥ गणेश वैघ्नेश्वरकैः सुमंत्रैः
सुमंत्रितं पुष्पदलप्रभूतम् । गृहाण चित्तेन मया प्रदत्तमपारवृत्त्या त्वथ मंत्रपुष्पम् ॥७०॥ अनंतवृत्त्या स्तुतिमेकदंत विघ्नेश
चित्तेन कृतां गृहाण । युक्तां श्रुतिस्मार्तभवैः पुराणैः सर्वैः परेशाधिपते मया वै ॥७१॥ प्रदक्षिणा मानसकल्पितास्ता
खं. ५ अ. ३८
पान ९२
गृहाण लंबोदर भावयुक्ताः । असंख्यभूता विविधस्वरूपा दासान् सदा रक्ष भवार्णवाद्वै ॥७२॥ नतिं ततो विघ्नपते
गृहाण साष्टांगकायां विविधस्वरूपाम् । संख्याविहीनां मनसा कृतां ते सिद्ध्या च बुद्ध्या परिपालयाशु ॥७३॥ न्यूना-
तिरिक्तं तु मया कृतं चेदं ते तदर्थं मनसा गृहाण । दूर्वांकुरान् विघ्नपते प्रदत्तान् संपूर्णमेवं कुरु पूजनं मे ॥७४॥ क्षमस्व
विघ्नाधिपते मदीयान् सदाऽपराधान् विविधस्वरूपान् । मदीयभक्तिं सफलां कुरुष्व संप्रार्थयेऽहं मनसा गणेश ॥७५॥
मह्यं प्रसन्नेन गजाननेन दत्तं प्रसादं च शिरोभिवंद्यम् । स्वमस्तके तं परिधारयामि चित्तेन विघ्नेश्वरमानतोऽस्मि ॥७६॥
गणेश उत्थाय सभां विहाय गतस्ततस्त्वंतरधामशक्त्या । शिवादयस्तं प्रणिपत्य सर्वे गताः सुचित्तेन च चिंतयामि ॥७७॥
सर्वान्नमसकृत्य ततो भजामि चित्तेन भक्त्या च गणाधिपं तम् । स्वस्थानमागत्य महानुभावैर्भक्तैर्गणेशस्य च खेलयामि ॥७८॥
एवं त्रिकालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि । तेनैव तुष्टः प्रददातु भावं विघ्नेश्वरो भक्तिमयं महांतम् ॥७९॥
विघ्नेशपादोदकपानकं मे तत्यक्तगंधस्य सुलेपनं तु । निर्माल्यसंधारणकं सुभोज्यं लंबोदरस्यास्तु हि भुक्तशेषम् ॥८०॥
करोमि यद्यच्च तदेव दीक्षा गणेश्वरस्यास्तु सदा परेश । प्रसीद नित्यं तव पादभक्तं कुरुष्व मां ब्रह्मपते दयालो ॥८१॥
शय्यामनर्घां परिकल्पयामि मंदारकार्पासकवस्त्रयुक्ताम् । नानासुपुष्पादिभिरर्चितां ते विघ्नेश निद्रां कुरु संगृहाण ॥८२॥
सिद्ध्या च बुद्ध्या सहितं गणेशं सुनिद्रितं वीक्ष्य तथाऽहमेव । गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपतिं
तदीयः ॥८३॥ एतादृशं सौख्यममोघशक्ते देहीश यन् मानसजं गणेश । मह्यं च तेनैव कृतार्थरूपो भवामि भक्ते
रसलालसोऽहम् ॥८४॥ गार्ग्य उवाच । एवं नित्यं महाराज गृत्समदो महायशाः । चकार मानसीं पूजां योगींद्राणां गुरुः
स्वयम् ॥८५॥ य एतां मानसीं पूजां करिष्यति नरोत्तमः । पठिष्यति सदा सोऽपि गाणपतयो भविष्यति ॥८६॥
श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः । स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥८७॥ यद्यदिच्छति तत्तद्वै
सफलं तस्य जायते । अंते स्वानंदगः सोऽपि योगिवंद्यो भविष्यति ॥८८॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते गृत्समदप्रोक्तमानसपूजाकथनं नामाष्टत्रिंशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ ऐल उवाच । बाह्यां पूजां गृत्समदकीर्तितां वद मे विभो । तेन मार्गेण विघ्नेशं भजिष्यामि
निरंतरम् ॥१॥ गार्ग्य उवाच । आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनिः । चकार विधिवद्वाह्यां तां शृणुष्व सुखप्रदाम् ॥२॥
हृदि ध्यात्वा गणेशानं परिवारादिसंयुतम् । नासिकारंध्रमार्गेण बाह्यगं तं चकार सः ॥३॥ आदौ वैदिकमंत्रं स गणानां
त्वेति संपठन् । पश्चात् श्लोकं समुच्चार्य पूजयामास विघ्नपम् ॥४॥ गृत्समद उवाच । चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम् ।
पाशांकुशादिसंयुक्तं मायायुक्तं प्रचिंतये ॥५॥ आगच्छ ब्रह्मणं नाथ सुरासुरवरार्चित । सिद्धिबुद्ध्यादिसंयुक्त भक्ति-
ग्रहणलालस ॥६॥ कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो । विघ्नेशानुगृहीतोऽहं सफलो मे भवो भवेत् ॥७॥ रत्न-
सिंहासनं स्वामिन् गृहाण गणनायक । तत्रोपविश्य विघ्नेश रक्ष भक्तान् विशेषतः ॥८॥ सुवासिताभिरद्भिश्च
पादप्रक्षालनं प्रभो । शीतोष्णाभिस्ते करोमि गृहाण पाद्यमुत्तमम् ॥९॥ सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः ।
आचमनं च तेनैव कुरुष्व गणनायक ॥१०॥ रत्नप्रवालमुक्ताद्यैरनर्घैः संस्कृतं प्रभो । अर्घ्यं गृहाण हेरंब द्विरदानन
तोषकम् ॥११॥ दधिमधुघृतैर्युक्तं मधुपर्कं गजानन । गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते ॥१२॥ पाद्ये च मधुपर्के च
स्नाने वस्त्रोपधारणे । उपवीते भोजनांते पुनराचमनं कुरु ॥१३॥ चंपकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् । अभ्यंगं कुरु
सर्वेश लंबोदर नमोऽस्तु ते ॥१४॥ यक्षकर्दमकाद्यैश्च विघ्नेश भक्तवत्सल । उद्वर्तनं कुरुष्व तं मया दत्तैर्महाप्रभो ॥१५॥
नानातीर्थजलैर्दुंढे सुखोष्णभावरूपकैः । कमंडलूह्रद्भवैः स्नानं मया कुरु समर्पितैः ॥१६॥ कामधेनुसमुद्भूतं पयः परम-
पावनम् । तेन स्नानं कुरुष्व त्वं हेरंब परमार्थवित् ॥१७॥ पंचामृतस्य मध्ये तु जलस्नानं पुनः पुनः । कुरु त्वं सर्वतीर्थेन
ब्रह्मकमंडलूह्रद्भवैः ॥१८॥ दधिधेनुपयोभूतं मलापहरणं परम् । गृहाण स्नानकार्यार्थं विनायक दयानिधे ॥१९॥ संतोषकारकं
ढुंढे घृतं धेनुसमुद्भवम् । महामलापघातार्थं तेन स्नानं कुरुष्व भोः ॥२०॥ पूर्णं मधुरसोद्भूतं सरघासंस्कृतं मधु । गृहाण
स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥२१॥ इक्षो रससमुद्भूतां शर्करां मलनाशिनीम् । गृहाण गणनाथ त्वं तया स्नानं
समाचर ॥२२॥ यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर । आंत्यं मलहरं शुद्धं सर्वसौगंध्यकारकम् ॥२३॥ ततो गंधाक्षतादीन्
दूर्वा कुरांश्च गजानन । समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥२४॥ ब्राह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः । अभिषेकं
ते करोमि गृहाण द्विरदानन ॥२५॥ तीर्थैराचमनं देव सुवस्तवभिसुवासितैः । कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥२६॥
खं. ५ अ. ३९
पान ९४
वस्त्रयुग्मे गृहाण त्वमनर्घे रक्तवर्णके। लोकलाजाहरायैव विघ्नराज नमोऽस्तु ते ॥२७॥ उत्तरीय सुचित्रं ते नभस्तारांकितं
यथा। गृहाण सर्वसिद्धीश मया दत्तं सुभक्तितः ॥२८॥ उपवीतं गणाध्यक्ष गृहाण त्वं ततः परम् । त्रैगुण्यमयरूपं तु
प्रणवग्रंथिबंधनम् ॥२९॥ ततः सिंदूरकं देव गृहाण गणनायक । अंगलेपनभावार्थं सदानंदविवर्धन ॥३०॥ भूषणानि
विचित्राणि सर्वांगे भूषणाय ते । सुवर्णरत्नकाचैश्च निर्मितानि गृहाण भोः ॥३१॥ अष्टगंधं समायुक्तं गंधं रक्तं गजानन ।
द्वादशांगेषु ते ढुंढे लेपयामि सुचित्रवत् ॥३२॥ रक्तचंदनसंयुक्तंतानथवा कुंकुमैर्युतान् । गणराज गृहाण त्वमक्षतान्
भालमंडले ॥३३॥ कल्हारचंपकादीनि रक्तानि च गजानन । पुष्पाणि शमीमंदारदूर्वादीनि गृहाण च ॥३४॥ दशांगं
गुग्गुलं धूपं सर्वसौरभकारकम् । गृहाण त्वं मया दत्तं विनायक महोदर ॥३५॥ नानाजातिभवं दीपं गृहाण गणनायक।
अज्ञानं मानसं दोषं हरंतं ज्योतिरात्मकम् ॥३६॥ चतुर्विधान्नसंपन्नं मधुरं लड्डुकादिकम् । नैवेद्यं ते मया दत्तं भोजनं कुरु
विघ्नप ॥३७॥ सुवासितं गृहाणेदं जलं तीर्थसमाहृतम् । भुक्तिमध्ये च पानार्थं देवदेवेश ते नमः ॥३८॥ भोजनांते करोद्वर्तं
यक्षकर्दमेन च । कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम् ॥३९॥ खर्जूरं दाडिमं द्राक्षां रंभादीनि फलानि वै । गृहाण
देवदेवेश नानामधुरकाणि तु ॥४०॥ अष्टांगं देव तांबूलं गृहाण मुखवासनम् । असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥४१॥
दक्षिणां कांचनाद्यां तु नानाधातुसमुद्भवाम् । रत्नाद्यैः संयुतां ढुंढे गृहाण सकलप्रिय ॥ ४२ ॥ राजोपचारकायानि गृहाण
गणनायक । दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥४३॥ तत आवरणं तेऽद्य पूजयामि विधानतः । उपचारैश्च
विविधैस्तेन तुष्टो भव प्रभो ॥४४॥ ततो दूर्वांकुरान् ढुंढे एकविंशतिसंख्यकान् । गृहाण न्यूनसिद्ध्यर्थं भक्तवात्सल्य-
कारणात् ॥४५॥ नानादीपसमायुक्तं नीराजनं गजानन । गृहाण भावसंयुक्तं सर्वाज्ञानविनाशन ॥४६॥ गणानां त्वेति
मंत्रस्य जपं साहस्त्रकं परम् । गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥४७॥ कपूराद्यां महार्तिं च नानादीपमयीं प्रभो।
गृहाण ज्योतिषां नाथ तया नीराजयाम्यहम् ॥४८॥ पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो । एकं तु सप्तवारं वै
सर्वांगेषु निराजनम् ॥४९॥ चतुर्वेदभवैर्मंत्रैर्गाणपत्यैर्गजानन । मंत्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥५०॥ गाणपत्यैः
पंचविधमयैः स्तोत्रैर्गणाधिप । स्तौमि त्वां तेन संतुष्टो भव भक्तिप्रदायक ॥५१॥ एकविंशतिसंख्याकां त्रिसंख्यां वा
गजानन । प्रदक्षिणां गृहाण त्वं ब्रह्मब्रह्मेशभावतः ॥५२॥ साष्टांगां प्रणतिं नाथ एकविंशतिसंमिताम् । हेरंब सर्वपूज्य त्वं
खं. ५ अ. ३९ पान ९५
गृहाण तु मया कृताम् ॥५३॥ न्यूनातिरिक्तभावार्थं कांचिद् दूर्वांकुरान् प्रभो । समर्पयामि तेन त्वं सांगां पूजां कुरुष्व मे
॥५४॥ त्वया दत्तं स्वहस्तेन निर्माल्यं चिंतयाम्यहम् । शिखायां धारयाम्येव सदा सर्वप्रदं च तत् ॥५५॥ अपराधानसंख्या-
तान् क्षमस्व गणनायक । भक्तं कुरु च मां ढुंढे तव पादप्रियं सदा ॥५६॥ त्वं माता त्वं पिता त्वं वै सुहृत् संबंधिकादयः ।
त्वमेव कुलदेवश्च सर्वं त्वं मे न संशयः ॥५७॥ जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङ्मानसैः कृतम् । सांसर्गिकं च यत् कर्म गणेशाय
समर्पये ॥५८॥ बाह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत् । गणेशपादतीर्थस्य मस्तके वंदनात् किल ॥५९॥ पादोदकं गणे-
शस्य पीतं नरेण तत्क्षणात् । सर्वांतर्गतजं पापं नश्यति गणनातिगम् ॥६०॥ गणेशोच्छिष्टगंधं वै द्वादशांगेषु योऽर्चयेत् ।
गणेशतुल्यरूपः स दर्शनात् सर्वपापहा ॥६१॥ यदि गणेशपूजादौ गंधं भस्मादिकं चरेत् । गणेशोच्छिष्टगंधं तु नोचेत्तत्र
विधिं चरेत् ॥६२॥ द्वादशांगेषु विघ्नेश नाममंत्रेण चार्चयेत् । तेन सोऽपि गणेशस्य समो भवति भूतले ॥६३॥ गणेश्वरं
मूर्ध्नि चादौ ललाटे विघ्ननायकम् । दक्षिणे कर्णमूले तु वक्रतुंडं समर्चयेत् ॥६४॥ वामे कर्णस्य मूले वै चैकदंतं समर्चयेत् ।
कंठे लंबोदरं देवं हृदि चिंतामणिं तथा ॥६५॥ बाहौ दक्षिणके चैव हेरंबं वामबाहुके । विकटं नाभिदेशे तु विनायकं
समर्चयेत् ॥६६॥ कुक्षौ दक्षिणभागे तु मयूरेशं समर्चयेत् । वामकुक्षौ गजास्यं वै पृष्ठे स्वानंदवासिनम् ॥६७॥ सर्वांगलेपनं
शस्तं चित्रितं गंधमष्टकैः । गाणेशानां विशेषेण सर्वभद्रस्य कारणात् ॥६८॥ भुक्तशेषं तु नैवेद्यं गणेशस्य भुनज्म्यहम् ।
भुक्तिमुक्तिप्रदं पूर्णं नानापापनिकृंतनम् ॥६९॥ गणेशस्मरणेनैव करोमि कालखंडनम् । गाणपत्यैश्च संवासो गजानन
सदाऽस्तु मे ॥७०॥ गार्ग्य उवाच । एवं गृत्समदो विप्रश्चकार बाह्यपूजनम् । त्रिकालेषु महायोगी सदा भक्तिसमन्वितः ॥७१॥
तथा कुरु महीपाल गाणपत्यो भविष्यसि । यथा गृत्समदः साक्षात्तथा त्वमपि निश्चितम् ॥७२॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते गृत्समदप्रोक्तबाह्यपूजावर्णनं नामैकोनचत्वारिंशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ ऐल उवाच । श्रुत्वा गृत्समदस्यैव चरितं सर्वदायकम् । न तृप्तोऽहं महायोगिन् भवाम्यमृतपान-
वत् ॥१॥ न गृत्समदतुल्यं तु पश्यामि ब्रह्मगोलके । धन्योऽयं योगिनां मध्ये गाणपत्येषु मानद ॥२॥ अधुना वद
योगीश गणेशलोकवर्णनम् । कीदृशोऽयं गणेशस्य निजलोको विशेषतः ॥३॥ गार्ग्य उवाच । अत्र ते कथयिष्यामि चेति-
हासं पुरातनम् । मुद्गलस्य मुनेः संवादयुक्तं कपिलस्य वै ॥४॥ एकदा मुद्गलो योगी गाणपत्याग्रणीर्नृप । जगाम
कपिलस्याश्रमं गंगातटे स्थितम् ॥५॥ प्रणम्य स जगादापि कपिलं हर्षसंयुतः । कृत्वा करपुटं चांगिरस आदौ
वराग्रणीः ॥६॥ मुद्गल उवाच । साक्षाद्विष्णुस्वरूपस्त्वं शुक सर्वार्थदायक । गाणपत्येषु मुख्यस्त्वं सांख्यानां परमा
गतिः ॥७॥ त्वद्दर्शनसुपुण्येन कृतकृत्योऽहमंजसा । कुलं धन्यं यशो विद्या ज्ञानं मे तेऽद्य दर्शनात् ॥८॥ एवं वदंतमत्यंतं
कपिलस्तं ननाम च । पूजयामास हर्षेण मुद्गलं भावभावितम् ॥९॥ ततस्तं कपिलो योगी जगाद वचनं हितम् । तात ते
दर्शनेनाद्य पवित्रोऽहं च सांप्रतम् ॥१०॥ पूर्णभक्तस्त्वमेवैको गणेशस्य महामुने । साक्षात् मुद्गल शस्त्रेशो गाणेशो नात्र
संशयः ॥११॥ यथा मुद्गरशस्त्रेण चूर्णयित्वा पदार्थकान् । नामरूपविहीनांश्च कुरुते मानवः परान् ॥१२॥ तथा त्वया
महायोगिंस्तपसा योगसेवया । अभिमानः समाचूर्ण्य कृतो मूलविवर्जितः ॥१३॥ नानायोगिन एवं तं योगेन
स्वाभिमानकम् । चूर्णयंति महाभाग तथापि हृदि तिष्ठति ॥१४॥ तेन त्वं मुद्गलो योगी जगत्येको विनिश्चितम् । वयं न
तादृशा वत्स ह्येकमार्गसमाश्रयात् ॥१५॥ त्वदीयकृत्यांगिरसं पुराणं संभविष्यति । सर्वेषां मान्यमेकं तद्योगप्रदं न
संशयः ॥१६॥ अभिमानेन युक्तानि पुराणानि विशेषतः । शास्त्राणि नात्र संदेहः कारणं शृणु मुद्गल ॥१७॥ ज्ञातं गुह्यं
तत्तथापि संगोप्य स्वमतं पुनः । स्थापयित्वा विशेषेणांजसा तथ्यं वदंति ते ॥१८॥ गणेशभक्तः संस्त्वं तु तथापि गण-
नायकम् । रहस्येन विशेषार्थं न करोषि कदाचन ॥१९॥ त्वदीयं वचनं श्रेष्ठं सर्वमान्यं न संशयः । अभिमानेन
हीनत्वाद्गेदगुह्यप्रकाशकम् ॥२०॥ त्वया कृतं पुराणं यत्तद्दांत्यं प्रभविष्यति । पुराणानां महत् श्रेष्ठं मुद्गलं मुद्गलाकृति ॥२१॥
त्वयोक्तं निंदयेद्यो वै भवेत् स निरयप्रदः । अन्येभ्यस्तु स्वयं मूर्खो नरकेषु पतिष्यति ॥२२॥ वेदशास्त्रपुराणानां
मुद्गलस्त्वत्कृतो महान् । ग्रंथो भविष्यन् नूनं निरभिमानत्वकारणात् ॥२३॥ न मुद्गलसमो योगी न मुद्गलसमः कदा ।
गाणपत्यो महायोगी त्रिकालेषु विनिश्चितम् ॥२४॥ स्वागतं ते महाभाग स्थीयतां मे प्रसन्निधौ । त्वद्दर्शनेन संहृष्टो
खं. ५ अ. ४० पान ९७
भवामि गणपप्रिय ॥२५॥ कपिलेन महायोगी सत्कृतस्तत्र भूमिप । मुद्गलस्तत्र सांनिध्ये न्यवसद्भावसंयुतः ॥२६॥ एकदा
सुखमासीनं कपिलं योगिनां वरम् । पप्रच्छ मुद्गलो हर्षात् विनयावनतोऽभवत् ॥२७॥ मुद्गल उवाच । स्वामिंस्त्वदीयगेहे स
चिंतामणिः समागतः । पुत्रभावेन साक्षात्तु ब्रह्मणां नायकः परः ॥२८॥ त्वया भावेन सर्वेश आराधितो निरंतरम् । गुह्यं
तस्य त्वमेवेह जानास्यत्र न संशयः ॥२९॥ न त्वत्समो महासिद्धः साक्षाद्विष्णुस्त्वमंजसा । गाणपत्यः स्वयं योगी
गणेशजनकः पुनः ॥३०॥ परिपृच्छाम्यतस्त्वाहं वद सर्वं महाप्रभो । भवादृशा जनानां तु तारणाय भवंति हि ॥३१॥
स्वानंदवसतिः स्वामिन् कीदृशी तत्र किं सुखम् । विस्तारः कीदृशस्तस्याः केन योगेन लभ्यते ॥३२॥ न कोऽपि तस्य
लोकस्य जानाति त्वदृते परम् । रहस्यं वद सर्वेश गाणपत्यस्य विस्तरात् ॥३३॥ गार्ग्य उवाच । एवं पृष्टो महासिद्धस्तं
प्रहस्य प्रशंसयन् । जगाद कपिलो हर्षाद्गाणपत्याग्रणीर्वचः ॥३४॥ कपिल उवाच । शृणु मुद्गल माहात्म्यं संक्षेपेण ब्रवीम्यहम् ।
स्वानंदलोकगं पूर्णं सारं सर्वत्र संमतम् ॥३५॥ गणासुरं गणाध्यक्षो हत्वा परमदुर्जयम् । गंतुं समुद्यतस्तत्र
निजलोके यदाऽभवत् ॥३६॥ ततो मयाऽतिभक्त्या वै प्रार्थितो गणनायकः । उवाच मां वरं योगिन् वृणु दास्यामि
मानद ॥३७॥ ततश्चिंतामणिं विप्र प्रणम्योचेऽतिदुःखितः । वद स्वानंदलोकस्य माहात्म्यं गणनायक ॥३८॥ नानालोकाः
श्रुताः स्वामिन् न स्वानंदं गजानन । जानाति कोऽपि यत्र त्वं प्रभो वससि नित्यदा ॥३९॥ चिंतामणिरुवाच । स्वानंदं यच्च
वेदेषु ब्रह्म योगींद्रसत्तम । तदेव मायया पूर्वं बभूव नगरं महत् ॥४०॥ स्वसंवेद्येन योगेन लभ्यते नान्यथा क्वचित् ।
अथवा मे व्रतैश्चैवोपासनेन महामुने ॥४१॥ न जपैस्तपसा दानैर्नानाकर्मपरायणैः । लभ्यते निजलोको वै जानीहि
मुनिसत्तम ॥४२॥ न तत्र विष्णुशांभाद्याः शुकाद्या योगिनोऽपरे । गच्छंति मार्गहीनत्वादगम्यः संमतः सदा ॥४३॥
चतुर्विधमयैर्भावैर्लभ्यते न कदाचन । अगम्यस्तैर्न संदेहो मम लोको महामते ॥४४॥ दशसाहस्रकं विप्र योजनानां
प्रविस्तरः । अत ऊर्ध्वं च सर्वत्र तावन्मानः प्रकीर्तितः ॥४५॥ वर्तुलः सर्वतः सोऽपि स्वस्थाधारेण तिष्ठति । सदा ज्योति-
र्मयः साक्षाज्ज्योतिषां ज्योतिरुच्यते ॥४६॥ न तत्र सगुणं सर्वं निर्गुणं नैव विद्यते । पुमान् नपुंसकं न स्त्री वर्तते
मुनिसत्तम ॥४७॥ चतुर्विधेषु सर्वेषु नानाभावगतेषु च । स्वसंवेद्यं निजात्मस्थं संस्थितं मेऽत्र संनिधौ ॥४८॥ चतुर्विधेषु सर्वेषु
मायायुक्तमिह स्थितम् । सदा भ्रांतं विजानीहि स्वस्वरूपं महामते ॥४९॥ तेषु मोहविहीनं यत् साक्षिरूपं सदा स्थितम् ।
खं. ५ अ. ४० पान ९८
निर्गुणेन स्वभावेन सदा खंडमयं परम् ॥५०॥ तयोर्योगे निजानंदो ढुंढिलोकग एव सः । बभूव तत्र भक्त्या मे भक्ता-
स्तिष्ठंति संनिधौ ॥५१॥ मम लोके महाभाग न क्षुधा न तृषादिकम् । सदा स्वानंदभोगस्था वसंति मम सेवकाः ॥५२॥
न कृत्रिमं सुखं तत्र विद्यतेऽकृत्रिमं न हि । स्वानंदेन निमग्नास्ते सर्वं भुंजंति नित्यदा ॥५३॥ सगुणं तु सुखं सर्वे भुंजते
निर्गुणं तथा । स्वानंदसंभवं तत्स्था एककाले महामते ॥५४॥ अत्र यत् संस्थितं सर्वं नानाभेदमयं मुने । तदेव ज्योती-
रूपेण मम लोके प्रतिष्ठति ॥५५॥ अत्रैव न स्थितं यच्च निर्गुणं विप्र तत्र तत् । ज्योतीरूपेण मे लोके किल तिष्ठति
सर्वदा ॥५६॥ स्वानंदसंभवं सर्वं तत्र तिष्ठति नित्यदा । मायया मेऽत्र लोकेऽतः सदाऽऽश्चर्यमयो बभौ ॥५७॥
सगुणो नैव विप्रेश सगुणं तत्र वर्तते । निर्गुणो न स नैर्गुण्यं वर्तते मे च लोकगम् ॥५८॥ सगुणैर्निर्गुणैर्हीनं वर्तते
तत्र सर्वदा । अत आश्चर्यसंयुक्तो मम लोको विशेषतः ॥५९॥ न तत्राऽहं स्वभावश्च नाऽहं भावविवर्जितः । मम
लोके महायोगिन् सदा तिष्ठंति मत्प्रियाः ॥६०॥ सगुणाऽमृतरूपं यद्भोगदं मृततुल्यकम् । निर्गुणामृतरूपं यदमृते
भोगकारकम् ॥६१॥ तयोर्योगे महायोगिन्नमृतं स्वस्वरूपकम् । तन्मयः सागरस्तत्र स्वस्वाधारेण वर्तते ॥६२॥ मिष्टं
नानाविधं तस्मान्निःसृतं सगुणात्मकम् । निर्गुणात्मकमेतस्मादिक्षुसागर उच्यते ॥६३॥ स्वस्वरूपात्मकं तत्र जलं रक्त-
स्वरूपकम् । तस्य नश्यति पानेन नैर्गुण्यं सगुणात्मकम् ॥६४॥ तस्माद्धारा समुद्भूता मधुधारा प्रकथ्यते । तया सगुणनैर्गुण्यं
वर्तते तृप्तिसंयुक्तम् ॥६५॥ तत्राऽहं सिद्धिबुद्धिभ्यां सदा क्रीडामि मानद । ब्रह्मप्रियाद्यकास्तत्र गणा मे निवसंति हि ॥६६॥
शुंडादंडादिचिह्नैश्च संयुक्तोऽहं सदा मुने । गणा मेऽन्ये तथा भक्ताः स्वेच्छारूपाः वसंति ते ॥६७॥ एतत्त्ते कथितं सर्वं
मम लोकसुखं महत् । मानयुक्तं मानहीनं हृदये पश्य मां मुने ॥६८॥
॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते स्वानंदलोकवर्णनं नाम चत्वारिंशत्तमोऽध्यायः ॥
यहाँ पृष्ठ पर दिए गए संस्कृत पाठ का लिप्यंतरण (Transcription) प्रस्तुत है:
खं. ५ अ. ४१ पान ९९
॥ श्रीगणेशाय नमः॥ कपिल उवाच । त्वदीयभक्तिसंयुक्ता नराः स्वानंदगा बभुः । गच्छंति केन मार्गेण तद्वदस्व
गजानन ॥१॥ चिंतामणिरुवाच । मदीयोपासनायुक्ता मन्निष्ठा मत्परायणाः । अंते मेऽत्र स्मृतिं कृत्वा गच्छंति मम
लोकम् ॥२॥ विमानं स्वस्वरूपाख्यं प्रेषयामि महामुने । शिवविष्णुवादिदेवानामहृश्यं निजलोकतः ॥३॥ तमारुह्य गणैर्युक्तं
भक्तो मे देहधृक् स्वयम् । स्वर्गान् पश्यंश्च सर्वान् स विस्मितो भवतीत्यहो ॥४॥ न तं पश्यति देवाद्या योगिनो यान-
संस्थितम् । स्वानंदचक्षुषा हीना मृतदेहमया मुने ॥५॥ शाक्तेर्लोकमतिक्रम्य तथा सौरं च वैष्णवम् । शैवं ततः परं सोऽपि
मम लोकं प्रविंदति ॥६॥ तत्राज्ञानमयश्चादावंधकारः प्रदृश्यते । नरेण न गणैर्विप्र देहधारणकारणात् ॥७॥ विमानप्रभया
तत्र मदीयस्मरणेन वै । योजनान्ययुतं गत्वा प्रकाशस्तेन दृश्यते ॥८॥ तत्र भ्रामरिका देवी प्रचंडदेहधारिणी ।
ज्योतिर्मयस्वरूपेणाज्ञानिभ्यो भयदा बभौ ॥९॥ जन्ममृत्यभयं सर्वं नानाभेदकरं भ्रमम् । तया संरचितं पूर्णं मम जानीहि
मायया ॥१०॥ भ्रामयेत् सर्वभूतानि सा स्थिता भ्रामरी स्वयम् । स्वस्याधारेण तत्रैव स्वानंदमयकायभृत् ॥११॥ तां पश्य
भयभीतः स मां सस्मार विशेषतः । ततो गणैः समाश्वास्याऽग्रे निन्ये मानवोत्तमः ॥१२॥ तस्या मस्तकगा शक्तिर्ज्योति-
राधाररूपिणी । अज्ञानिभ्यो सदा विप्र भयदा सा बभूव ह ॥१३॥ जीवरूपं सदा सर्वभेदमोहधरं परम् । शिवरूपं तथा
साक्षि तदाधारं प्रवर्तते ॥१४॥ देहादीनां महायोगिन्नाधारो जीवसंज्ञितः । स्वयमाधारहीनत्वात् परमात्मा तदेव च ॥१५॥
सर्वेषां पूर्ण आधारस्तया कृतो महामुने । आधारशक्तिरेवं सा नाम्ना तस्य स्थिताऽभवत् ॥१६॥ तयाऽहं द्विविधश्चित्ते
भवाम्यज्ञानिनां सदा । जीवात्मपरमात्मस्थो माया तत्र बभौ परा ॥१७॥ मदीयध्यानजेनैव तामतिक्रम्य मानवः ।
गणैर्निन्ये पुरोभागे मम दर्शनकारणात् ॥१८॥ ततोऽतिज्योतिषा रूपा शक्तिर्वै कामदायिनी । तस्या मस्तकगा विप्र
शोभते हर्षदायिनी ॥१९॥ जन्ममृत्युयुतं सर्वं भेदरूपं तथा परम् । आत्माकारं तयोर्योगे योगरूपा तु सा स्मृता ॥२०॥
तथा कामयुतं विप्र द्विविधं प्रकृतं सदा । तेन देहात्मनोर्योगः परस्परयुतोऽभवत् ॥२१॥ उत्पत्तिस्थितिसंहारयुक्तं भ्रांतिधरं
स्मृतम् । नानाभेदमयं पूर्णं क्षयवृद्ध्यादिसंयुतम् ॥२२॥ आत्मा सदाऽमृताधार उत्पत्तिस्थितिनाशनैः । हीना वृद्धिक्षया-
दिभ्यो वदंति वेदवादिनः ॥२३॥ किमर्थं भेदयुक्तं च सर्वदाऽऽत्मानमिच्छति । तथा पश्यात्मवैचित्र्यं विरुद्धे सति-
मानद ॥२४॥ कामयुक्तं ह्यसिपदेन द्वंद्वस्थं कृतं सदा । तेन मोहप्रभावेण परस्परहितं जगत् ॥२५॥ अतः सा शक्ति-
पान १००
राख्याता कामदा सर्वमोहिनी । असिरूपा विशेषज्ञ महामाया मदीयिका ॥२६॥ भ्रामर्या भ्रामिका काऽपि शक्तिर्नात्र
प्रदृश्यते । त्वं पदस्थां महामायां तां जानीहि प्रभावतः ॥२७॥ आधाराया महायोगिन्नाधारान्या न विद्यते । शक्तिः कुत्र
ततः सापि तत्पदस्थाऽत्र कथ्यते ॥२८॥ कामदायाश्च का शक्तिः कामदान्या न विद्यते । सर्वदा सर्वरूपासि पदमय्यापि
सा बभौ ॥२९॥ तस्या मस्तकगं विद्धि लोकं मे स्वस्वरूपकम् । मायया रचितं विप्र मया स्वानुभवात्मकम् ॥३०॥
तत्रागत्य महाभक्तः पिबेदिक्षु समुद्रजम् । जलं तेन स वै सद्यो ज्योतीरूपधरो भवेत् ॥३१॥ भेदाभेदादिहीनश्च भूत्वा
पश्यति मां ततः । मदर्शनजययोगेन ब्रह्मभूतो भवेन्नरः ॥३२॥ स्वेच्छया निजलोकस्थो यत्र तत्र स संचरेत् । सगुणो
निर्गुणो भूत्वा सदा स्वानंदगः परः ॥३३॥ ततस्तस्य पुनर्नातिर्न भवेन् मुनिसत्तम । कल्पकोटिशतैर्वाऽपि निश्चितं
वेदवादिभिः ॥३४॥ महालये चतुर्भेदा मयि चैकत्वमागताः । अज्ञानेन युताः सर्वे पुनस्तान् संसृजाम्यहम् ॥३६॥
एतत्ते कथितं सर्वं मम लोकागमे मुने । संक्षेपेणैव जानीहि मार्गहीनं सुसिद्धिदम् ॥३७॥ कपिल उवाच । त्वदीयोपासनं
कृत्वा बहवस्ते गजानन । लोकं गच्छंति विघ्नेश तथा योगिन एव च ॥३८॥ ब्रह्मभूताश्च ते ख्याताः कदाचिन्न पतंति चेत् ।
तदा जगदिदं स्वामिन् क्षीणरूपं भवेत् क्रमात् ॥३९॥ पुनः पुनः सुस्रष्टा त्वं क्षीणे क्षीणे कथं प्रभो । पूर्णं विश्वमिदं
नित्यमंजसा भाति खेलसि ॥४०॥ चिंतामणिरुवाच । यथाऽहं मायया विप्र युद्धकाले विशेषतः । भूत्वा ह्यनन्तरूपेण प्रयुध्ये
विश्वपालनात् ॥४१॥ हत्वा दैत्यादिकान् सर्वान् पुनरेकस्वरूपधृक् । भवामि सर्वभावज्ञो लीलार्थमवतारधृक् ॥४२॥ तथा
मायाबलेनैव नूतनं संसृजाम्यहम् । न न्यूनाधिकमेवेदं विश्वं भवति सर्वदा ॥४३॥ कपिल उवाच । ब्रह्मभूता नरा नार्यः
स्वानंदे संस्थिता बहुः । अनंतास्ते प्रभक्त्या वै पुनः स्वानंदगामिनः ॥४४॥ तेषां वासः सदा तत्र नगरं नियतं प्रभो ।
संकीर्णता भवेन्नूनं कुत्र तिष्ठंति तद्वद ॥४५॥ चिंतामणिरुवाच । स्वानंदे कल्पपर्यंतमवसन्नित्यमादरात् । महालये समुत्पन्ने
मदेहे संगता बभुः ॥४६॥ मया भिन्नं कृतं सर्वं युगादौ मुनिसत्तम । युगांते योगभावेन मद्रूपं भवतीत्यहो ॥४७॥ मदेहे
योगभावेनाज्ञानेनैव समागताः । सा योगनिद्रा विप्रेंद्र मदीया कथ्यते बुधैः ॥४८॥ स्वानंदस्था जनाः सर्वे ज्ञानयुक्ता
मदीयके । देहे लीना वै भवंति योगींद्रा योगभावतः ॥४९॥ पुनः सृष्टिborderयुगे विप्र निःसृतं विश्वमंजसा । अज्ञानेन युतं
लीनं मायया मे न संशयः ॥५०॥ ज्ञानेन ये समायाता मदेहे ते पुनः कदा । भवंति भिन्नरूपा न सृष्ट्यादौ योग-