मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 621, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. ३८
पान ९२
गृहाण लंबोदर भावयुक्ताः । असंख्यभूता विविधस्वरूपा दासान् सदा रक्ष भवार्णवाद्वै ॥७२॥ नतिं ततो विघ्नपते
गृहाण साष्टांगकायां विविधस्वरूपाम् । संख्याविहीनां मनसा कृतां ते सिद्ध्या च बुद्ध्या परिपालयाशु ॥७३॥ न्यूना-
तिरिक्तं तु मया कृतं चेदं ते तदर्थं मनसा गृहाण । दूर्वांकुरान् विघ्नपते प्रदत्तान् संपूर्णमेवं कुरु पूजनं मे ॥७४॥ क्षमस्व
विघ्नाधिपते मदीयान् सदाऽपराधान् विविधस्वरूपान् । मदीयभक्तिं सफलां कुरुष्व संप्रार्थयेऽहं मनसा गणेश ॥७५॥
मह्यं प्रसन्नेन गजाननेन दत्तं प्रसादं च शिरोभिवंद्यम् । स्वमस्तके तं परिधारयामि चित्तेन विघ्नेश्वरमानतोऽस्मि ॥७६॥
गणेश उत्थाय सभां विहाय गतस्ततस्त्वंतरधामशक्त्या । शिवादयस्तं प्रणिपत्य सर्वे गताः सुचित्तेन च चिंतयामि ॥७७॥
सर्वान्नमसकृत्य ततो भजामि चित्तेन भक्त्या च गणाधिपं तम् । स्वस्थानमागत्य महानुभावैर्भक्तैर्गणेशस्य च खेलयामि ॥७८॥
एवं त्रिकालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि । तेनैव तुष्टः प्रददातु भावं विघ्नेश्वरो भक्तिमयं महांतम् ॥७९॥
विघ्नेशपादोदकपानकं मे तत्यक्तगंधस्य सुलेपनं तु । निर्माल्यसंधारणकं सुभोज्यं लंबोदरस्यास्तु हि भुक्तशेषम् ॥८०॥
करोमि यद्यच्च तदेव दीक्षा गणेश्वरस्यास्तु सदा परेश । प्रसीद नित्यं तव पादभक्तं कुरुष्व मां ब्रह्मपते दयालो ॥८१॥
शय्यामनर्घां परिकल्पयामि मंदारकार्पासकवस्त्रयुक्ताम् । नानासुपुष्पादिभिरर्चितां ते विघ्नेश निद्रां कुरु संगृहाण ॥८२॥
सिद्ध्या च बुद्ध्या सहितं गणेशं सुनिद्रितं वीक्ष्य तथाऽहमेव । गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपतिं
तदीयः ॥८३॥ एतादृशं सौख्यममोघशक्ते देहीश यन् मानसजं गणेश । मह्यं च तेनैव कृतार्थरूपो भवामि भक्ते
रसलालसोऽहम् ॥८४॥ गार्ग्य उवाच । एवं नित्यं महाराज गृत्समदो महायशाः । चकार मानसीं पूजां योगींद्राणां गुरुः
स्वयम् ॥८५॥ य एतां मानसीं पूजां करिष्यति नरोत्तमः । पठिष्यति सदा सोऽपि गाणपतयो भविष्यति ॥८६॥
श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः । स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥८७॥ यद्यदिच्छति तत्तद्वै
सफलं तस्य जायते । अंते स्वानंदगः सोऽपि योगिवंद्यो भविष्यति ॥८८॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते गृत्समदप्रोक्तमानसपूजाकथनं नामाष्टत्रिंशत्तमोऽध्यायः ॥