सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 855, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 855

खं. ८ अ. २१ पान ४६


यणाम् । गवां शुश्रूषणं तद्वत् सर्वसिद्धिप्रदं भवेत् ॥११॥ एवमादि गणेशस्य प्रियं नानाविधं चरेत् । सदा तन्निष्ठभावेन
तिष्ठेन् मासव्रती मुने ॥१२॥ अन्यान् शंभुमुखान् देवान् पूजयेन् मानवो मुने । स्वस्वेच्छायुतभावेन व्रतं मासमयं चरेत्
॥१३॥ आवश्यकैन भावेन मासाः सेव्या इमे नरैः । धर्मार्थकामामोक्षाणां ब्रह्मभूयस्य दायकाः ॥१४॥ यं यमिच्छति तं तं
वै लभते नात्र संशयः । मासात्मकेन मुख्येन व्रतेन मानवः सदा ॥१५॥ अत्रेतिहासमुख्यं ते कथयामि समासतः ।
मासव्रतेन ये सिद्धिं लेभिरे भक्तिसंयुताः ॥१६॥ शंखासुरो महादैत्यो ब्रह्मांडाधिपतिः पुरा । बभूव स जहारैव वेदान्
स्मृतिसमन्वितान् ॥१७॥ ततो हाहा कृतं सर्वैः कर्महीनप्रभावतः । वर्णसंकरजं कर्म बभूवे सर्वमंडले ॥१८॥ ततो
मुनिगणैर्युक्ता देवा विधिमुखा ययुः । विष्णुं च शरणं सर्वे तुष्टुवुर्वेदहेतवे ॥१९॥ ततो विष्णुः स्वयं शंभुं जगाम
तान् विसृज्य सः । तं जगाद महाभागं विनयेन समन्वितः ॥२०॥ विष्णुरुवाच । शंखं वेदहरं शंभो दुर्जयं देवतादिभिः ।
जेष्यामि त्वत्प्रसादेन तत्रोपायं वदस्व मे ॥२१॥ श्रीशिव उवाच । समीपे कार्त्तिको मासो जनार्दन समागतः । तत्र
मासव्रतेन त्वं तोषयस्व गजाननम् ॥२२॥ तेन विघ्नविहीनस्त्वं विजेष्यसि महाबलम् । शंखासुरं न संदेहो नान्यथा
पुरुषोत्तम ॥२३॥ श्रुत्वा तं शंकरं नत्वा विष्णुः परपुरंजयः । गतो बदरिकाण्यं व्रतार्थं भक्तिसंयुतः ॥२४॥ तत्रैकाक्षर-
मंत्रस्य पुरश्चरणमुत्तमम् । चकार गणनांथं स तोषयामास यत्नतः ॥२५॥ कार्त्तिके पंचकं सेव्यं गाणेशं सर्वसिद्धिदम् ।
मार्गशीर्षे गणेशानं प्रणम्य प्रययौ सुरान् ॥२६॥ ततो बुद्धिपतिं स्मृत्वा विचारमकरोत् हृदि । केनोपायेन दैत्येशं
विजेष्यामि सुदारुणम् ॥२७॥ तत्र स्फूर्तिः समुत्पन्ना गणेशकृपया हृदि । मात्स्येनैव स्वरूपेण विजयो मे भविष्यति
॥२८॥ एतस्मिन्नंतरे तत्र बभूवाऽऽकांशजां पराम् । वाणीं शुश्राव देवेशः केशवः परवीरहा ॥२९॥ मात्स्यरूपेण शंखं तं जहि
सर्वभयंकरम् । मां स्मृत्वा नात्र संदेहो विजयस्ते भविष्यति ॥३०॥ ततो गणपतिं स्मृत्वा मत्स्यो भूत्वा जनार्दनः । घोरं
युद्धं स कृत्वा तं जघान शंखमुल्बणम् ॥३१॥ सांगान् वेदान् समानाय्य ददौ तान् ब्रह्मणे प्रभुः । स्तुतः संपूजितो
देवैर्मुनिभिः स्वस्थलं ययौ ॥३२॥ एवं कार्त्तिकमासे तु स्नानादिव्रततेजसा । हतः शंखासुरस्तेन विष्णुना मत्स्यरूपिणा ॥३३॥
अन्यच्च शृणु विप्रेंद्र कथां पापप्रणाशिनीम् । कार्त्तिकव्रतसंयुक्तां पुरातनभवां पराम् ॥३४॥ पौलस्त्यो ब्राह्मणः कश्चित्
सोमदत्त इति श्रुतः । स्वधर्मनिरतो नित्यं तपस्वी शुचिमानसः ॥३५॥ जगाम स गणेशस्य भक्त्यर्थं गौतमं मुनिम् ।