सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 854, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 854

खं. ८ अ. २१ पान ४५
समाख्यातो मया नाम्नाऽधुना महान् ॥१३॥ अमाचिह्नेन संयुक्तः श्रावणो मे प्रियोऽधिकः । नानासिद्धिप्रदो भावी
ह्यनुष्ठानवतां नृणाम् ॥१४॥ उपासते श्रावणे मां नानायत्नपरायणाः । उपोषणयुता भाद्रे चतुर्दिनानि मानवाः ॥१५॥
समारभ्य प्रतिपदं चतुर्थ्यंतं मदर्चनम् । चतुर्थ्यां जागरं कुर्यात् पंचम्यां पारणं तथा ॥१६॥ यथाशक्ति द्विजान् भोज्य
दद्याद्विपुलदक्षिणाम् । स सर्वसुखमाभोज्यांते स्वानंदमवाप्नुयात् ॥१७॥ मुख्यं पंचसु वै स्नानं मासेषु सर्वभावतः ।
प्रातःकाले विशेषेणानुष्ठानं श्रावणे मतम् ॥१८॥ एवं मासा भवंतोऽपि भविष्यंति जनैः सदां । सत्कर्मभिर्महाभागाः
सेविताः सततं पराः ॥१९॥ मयि भक्तियुता नित्यं सर्वदेवपरायणाः । भविष्यथ मदीयेन वरेणैव विशेषतः ॥२०॥
एवमुक्त्वाऽंतर्दधेऽसौ गणेशो भक्तवत्सलः । मासा हर्षसमायुक्ताः स्वस्वकार्यरता बभुः ॥२१॥ शृणोति मासचारित्रमेवं
पठति यो नरः । स मासफलसंयुक्तो गाणेशो भवतीत्यहो ॥२२॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मलमासादिमासेभ्यो वरप्रदानं नाम विंशतितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । षट्सु मासेषु विघ्नेशः पूजनीयो नरैः कथम् । तेषु मुख्यप्रकारेण तुष्टः केन गजाननः
॥१॥ के के सिद्धिं गतास्तेषु गणेशभजनेन वै । तेषां चरित्रकं ब्रूहि सर्वसिद्धिप्रदायकम् ॥२॥ सूत उवाच । अरुणोदयकाले वै
स्नानं कुर्यान्नरः सदा । तीर्थेषु व्रतसंयुक्तः स्वस्वशाखाप्रमाणतः ॥३॥ स्वशाखोक्तेन मार्गेण संध्यादिकं समाचरेत् । वैदिकै-
स्तांत्रिकैर्मंत्रैः पूजयेद्गणनायकम् ॥४॥ पुराणसंभवैर्वाऽपि यथोपचारसंयुतः । एकभुक् स भवेन्नित्यं नक्तभुक् वा भवेन्मुने ॥५॥
हविष्यान्नं फलहारो निराहारोऽथवा पुनः । ब्रह्मचर्यसमायुक्तो नखलोमयुतो भवेत् ॥६॥ पृथ्व्यां शयनकारी स सत्यवाङ्
मौनधारकः । यथा स्वधर्मसंयुक्तो व्रतं मासात्मकं चरेत् ॥७॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽपि महामुने । स्वस्वधर्मयुतो
भूत्वा व्रतं मासात्मकं चरेत् ॥८॥ स्त्रीणां व्रतमिदं पुण्यं सधवानां सुखप्रदम् । विधवानां विशेषेण परं मासात्मकं भवेत्
॥९॥ तेषु पंचकमानंदाच्चरेन् मुख्यं सदा जनः । गणेशपूजनं विप्र भोजनं दीपदानकम् ॥१०॥ शमीमंदारसेवां च प्रदक्षिणपरा-