सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 797, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 797

[Header]
खं. ७ अ. १२ | पान २७


ष्यति जनार्दनः ॥१८॥ एवं विचार्य दैत्येशो यज्ञान् सर्वान् बभंज ह। यज्ञहीनं चकारैव त्रैलोक्यं सचराचरम् ॥१९॥
ततो विष्णुः क्षुधाविष्टो बभूवे देवसंयुतः। अस्थिचर्मावशेषश्च सस्मार गणनायकम् ॥२०॥ रक्ष मां गणनाथ त्वं दैत्यात्
परमदारुणात् । मरिष्यामि न संदेहो यज्ञनाशप्रभावतः ॥२१॥ देवैः सार्धं महाविष्णुस्तताप तप उत्तमम्। एकाक्षरविधा-
नेन तोषयामास विघ्नपम् ॥२२॥ गते वर्षशते पूर्णे तं ययौ गणनायकः। स्तुतः संपूजितः सर्वैः प्रसन्नो वरदोऽभवत् ॥२३॥
तैर्वृतो दैत्यनाशार्थं तथेति क्रोधसंयुतः । तान् जगाद ययौ हंतुं यज्ञघ्नं देवपैर्वृतः ॥२४॥ कृत्वा युद्धं महाघोरं जघानांकुश-
घाततः। यज्ञघ्नं मुक्तिगं चक्रे दैत्यान् पातालगामिनः ॥२५॥ ततः स देवसंयुक्तो विष्णुर्मुनिगणैस्तथा । तुष्टाव सुस्थिरो
भूत्वा पूज्य नत्वा कृतांजलिः ॥२६॥ श्रीविष्णुरुवाच । नमस्ते विघ्नराजाय विघ्नानां विघ्नकारिणे । महाविघ्नप्रशांताय देवदेवेश
ते नमः ॥२७॥ अनादये परेशाय सर्वाऽऽदौ संस्तुताय च। सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥२८॥ विनायकाय
सर्वेषां नायकाय परात्पर। ढुंढिराजाय वेदादिढुंढिताय नमो नमः ॥२९॥ सर्वेभ्यः स्वस्वरूपेण सुखदाय परात्मने ।
आनंदायाप्रमेयाय ब्रह्मणे ते नमो नमः ॥३०॥ गणानां पतये तुभ्यं नानागणस्वरूपिणे। सदा स्वानंदनाथाय सिद्धिवृद्धि-
पते नमः ॥३१॥ ब्रह्मणे विष्णवे तुभ्यं शक्तये शंकराय च। इंद्रादिदेवरूपाय कलया ते नमो नमः ॥३२॥ मुनये क्षेत्ररूपाय
वैश्याय शूद्ररूपिणे । पशुपक्ष्यादिरूपाय वर्णाश्रमयुजे नमः ॥३३॥ नागाय सुरूपाय राक्षसाय विहारिणे । चराचर-
मयायैव शूर्पकर्णाय ते नमः ॥३४॥ त्रिनेत्राय त्रिशूलस्य धारकाय च चक्रिणे । पाशांकुशधरायैव हेरंबाय नमो नमः ॥३५॥
नमस्ते परेशाय सर्वात्मकाय सदा बोधरूपाय नैरंजनाय। अयोगाय संयोगमायाधराय जनेभ्यः सुशांतिप्रदायाथ धाम्ने
॥३६॥ किं स्तौमि त्वां गणाधीश यत्र वेदाश्च योगिनः। विसिस्मिरे सुशांतिस्थाः शांतिरूपाय ते नमः ॥३७॥ यज्ञहा
निहतः स्वामिंस्तेन देवर्षयो वयम् । रक्षिताः सर्वभावेन प्राणदातंर्नमो नमः ॥३८॥ भक्तिं देहि गणाधीश तव पादांबुजे-
ऽमलाम् । तया वयं च योगेश बंधहीना भवामहे ॥३९॥ एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः । तांस्तथेति जगादैवां-
ऽतर्दधे शूर्पकर्णकः ॥४०॥ तत्र मूर्तिं समास्थाय शूर्पकर्णस्य सर्वदाम् । पूज्य स्वस्थानगाः सर्वे बभूवुर्विगतज्वराः ॥४१॥
स्वस्वाचारसमायुक्तं बभूव ह चराचरम् । एवं चकार विघ्नेशो नानादैत्यविहिंसनम् ॥४२॥ अवतारा असंख्याता विघ्न-
राजस्य शोभने । तेषां वक्तुं चरित्राणि न समर्थाः शिवादयः ॥४३॥ संक्षेपेण मया तस्याऽवताराः कथिताः पराः।