सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

[Header]
खं. ७ अ. १२ | पान २७


ष्यति जनार्दनः ॥१८॥ एवं विचार्य दैत्येशो यज्ञान् सर्वान् बभंज ह। यज्ञहीनं चकारैव त्रैलोक्यं सचराचरम् ॥१९॥
ततो विष्णुः क्षुधाविष्टो बभूवे देवसंयुतः। अस्थिचर्मावशेषश्च सस्मार गणनायकम् ॥२०॥ रक्ष मां गणनाथ त्वं दैत्यात्
परमदारुणात् । मरिष्यामि न संदेहो यज्ञनाशप्रभावतः ॥२१॥ देवैः सार्धं महाविष्णुस्तताप तप उत्तमम्। एकाक्षरविधा-
नेन तोषयामास विघ्नपम् ॥२२॥ गते वर्षशते पूर्णे तं ययौ गणनायकः। स्तुतः संपूजितः सर्वैः प्रसन्नो वरदोऽभवत् ॥२३॥
तैर्वृतो दैत्यनाशार्थं तथेति क्रोधसंयुतः । तान् जगाद ययौ हंतुं यज्ञघ्नं देवपैर्वृतः ॥२४॥ कृत्वा युद्धं महाघोरं जघानांकुश-
घाततः। यज्ञघ्नं मुक्तिगं चक्रे दैत्यान् पातालगामिनः ॥२५॥ ततः स देवसंयुक्तो विष्णुर्मुनिगणैस्तथा । तुष्टाव सुस्थिरो
भूत्वा पूज्य नत्वा कृतांजलिः ॥२६॥ श्रीविष्णुरुवाच । नमस्ते विघ्नराजाय विघ्नानां विघ्नकारिणे । महाविघ्नप्रशांताय देवदेवेश
ते नमः ॥२७॥ अनादये परेशाय सर्वाऽऽदौ संस्तुताय च। सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥२८॥ विनायकाय
सर्वेषां नायकाय परात्पर। ढुंढिराजाय वेदादिढुंढिताय नमो नमः ॥२९॥ सर्वेभ्यः स्वस्वरूपेण सुखदाय परात्मने ।
आनंदायाप्रमेयाय ब्रह्मणे ते नमो नमः ॥३०॥ गणानां पतये तुभ्यं नानागणस्वरूपिणे। सदा स्वानंदनाथाय सिद्धिवृद्धि-
पते नमः ॥३१॥ ब्रह्मणे विष्णवे तुभ्यं शक्तये शंकराय च। इंद्रादिदेवरूपाय कलया ते नमो नमः ॥३२॥ मुनये क्षेत्ररूपाय
वैश्याय शूद्ररूपिणे । पशुपक्ष्यादिरूपाय वर्णाश्रमयुजे नमः ॥३३॥ नागाय सुरूपाय राक्षसाय विहारिणे । चराचर-
मयायैव शूर्पकर्णाय ते नमः ॥३४॥ त्रिनेत्राय त्रिशूलस्य धारकाय च चक्रिणे । पाशांकुशधरायैव हेरंबाय नमो नमः ॥३५॥
नमस्ते परेशाय सर्वात्मकाय सदा बोधरूपाय नैरंजनाय। अयोगाय संयोगमायाधराय जनेभ्यः सुशांतिप्रदायाथ धाम्ने
॥३६॥ किं स्तौमि त्वां गणाधीश यत्र वेदाश्च योगिनः। विसिस्मिरे सुशांतिस्थाः शांतिरूपाय ते नमः ॥३७॥ यज्ञहा
निहतः स्वामिंस्तेन देवर्षयो वयम् । रक्षिताः सर्वभावेन प्राणदातंर्नमो नमः ॥३८॥ भक्तिं देहि गणाधीश तव पादांबुजे-
ऽमलाम् । तया वयं च योगेश बंधहीना भवामहे ॥३९॥ एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः । तांस्तथेति जगादैवां-
ऽतर्दधे शूर्पकर्णकः ॥४०॥ तत्र मूर्तिं समास्थाय शूर्पकर्णस्य सर्वदाम् । पूज्य स्वस्थानगाः सर्वे बभूवुर्विगतज्वराः ॥४१॥
स्वस्वाचारसमायुक्तं बभूव ह चराचरम् । एवं चकार विघ्नेशो नानादैत्यविहिंसनम् ॥४२॥ अवतारा असंख्याता विघ्न-
राजस्य शोभने । तेषां वक्तुं चरित्राणि न समर्थाः शिवादयः ॥४३॥ संक्षेपेण मया तस्याऽवताराः कथिताः पराः।

खं. ७ अ. १३ | पान २८

भजस्व तं विधानेन तदा शांतिमवाप्स्यसि ॥४४॥ रजोयुक्तं यथा धान्यं रजोहीनं करोति च। नरैः संसाधितं शूर्पं
योग्यं भोजनकादिषु ॥४५॥ तथा मायाविकारेण युक्तं ब्रह्म न लभ्यते। त्यक्त्वोपासनकं तस्य शूर्पकर्णस्य सुंदरि ॥४६॥
शूर्पकर्णं समाश्रुत्य मलं त्यक्त्वा हृदि स्थितम् । ब्रह्मैव नरजातिस्थः शूर्पकर्णस्ततः स्मृतः ॥४७॥ ब्रह्मदः शूर्पवत् हृत्स्थो वेदेषु
कथितो भवेत्। तं भजस्व विधानेन शांतियुक्ता भविष्यसि ॥४८॥ शूर्पकर्णावतारस्य कथितं चरितं मया। यज्ञघ्नस्य
वधार्थाय बभूवे देहधारकः ॥४९॥ य इदं शृणुयाद्वाऽपि पठेद्वा पाठयेन्नरः। स मानसेप्सितं लब्ध्वा सुखी भवेन्निरंतरम् ॥५०॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते शूर्पकर्णावतारवर्णनं नाम द्वादशोऽध्यायः ॥

॥ श्रीगणेशाय नमः॥ कश्यप उवाच। एकदा माघमासे तु मकरस्थे दिवाकरे। तीर्थानि देवविप्राद्याः प्रयागं जग्मुरादरात्
॥१॥ सर्वे संहृष्टभावस्था माघस्नानपरायणाः। ओंकारगणनाथं ते पुपूजुर्भक्तिसंयुताः ॥२॥ ततः शूलभृतं पूज्य तत्रस्थं
माधवं प्रिये। त्रिवेणीं भावसंयुक्ताः कथां चक्रुः पुरातनीम् ॥३॥ अम्रंस्तन्त्राऽऽजगामैव दत्तो योगींद्रसत्तमः। अवधूतस्य
मार्गस्य प्रकाशक उदाहृतः ॥४॥ गाणेशं ब्रह्मपं ब्रह्म परं सर्वार्थदायकम्। ओंकारगणनाथं स प्रणम्य स्तोत्रमारभत् ॥५॥
तत् दृष्ट्वा परमाश्चर्यमाययुस्तं शिवादयः। योगिनः कश्यपाद्याश्चाऽन्ये देवादय आदरात् ॥६॥ तं प्रणम्य स्थिताः सर्वे योगींद्रं
ब्रह्म तत्परम्। गणेशभजने सक्तं दृष्ट्वा पप्रच्छुरादरात् ॥७॥ शिवादय ऊचुः । भगवन् सर्वतत्त्वज्ञ ब्रह्मभूतपरायण ।
साक्षाद्ब्रह्मशरीरस्त्वं समागतो यदृच्छया ॥८॥ अवधूतस्य मार्गस्य प्रकाशार्थं विशेषतः। देहधारी भवान्नाथ पावनाय
शरीरिणाम् ॥९॥ तव दर्शनमात्रेण कृतकृत्या वयं प्रभो। जाताः कुल्युताः स्वामिन् बोधयस्व मुनीन् सुरान् ॥१०॥ एवं
विनयसंयुक्तैः स्तुतः पृष्टो महामुनिः। जगाद तान् महाभागान् हर्षेण महताऽऽवृतः ॥११॥ दत्तात्रेय उवाच। ब्रह्मविष्णुशिवा-
द्याश्चांगिराद्या मुनयोऽमलाः। शेषाद्या नागराजाश्च शृणुध्वं मे वचो हितम् ॥१२॥ ब्रह्मेदं सर्वमाभाति तं भजध्वं हिताय
वः। समर्था ब्रह्मभूताश्च भविष्यथ न संशयः ॥१३॥ तस्य तद्वचनं श्रुत्वा पुनः सर्वे जगुर्वचः। हर्षेण योगिवंद्यं तं कृत्वा

खं. ७ अ. १३ पान २९
करपुटं प्रिये ॥१४॥ शिवाया ऊचुः । ब्रह्मणि ब्रह्मभूतस्त्वं गणेशं भजसे कथम् । नामरूपधरं देवमोंकाराकृतिधारकम् ॥१५॥
अस्माकं कुलदेवोऽयं त्रिगुणात्मशरीरिणाम् । मूलभूतो न संदेहो योगिनां कथमंजसा ॥१६॥ तेषां तद्वचनं श्रुत्वा स्मयमानो
महायशाः । दत्तो जगाद हर्षेण ज्ञानदानार्थमादरात् ॥१७॥ दत्त उवाच । गणेशो ब्रह्मणां नाथो वेदेषु परिकीर्तितः । ब्रह्म
नानाविधं तद्वत् कथितं मायया युतम् ॥१८॥ अन्नं ब्रह्मेति देवेशा मुनयः शृणुत प्रियाः । तत्रान्नमयरूपा तु माया मोहकरी
बभौ ॥१९॥ प्राणो ब्रह्मेति तत्रैव प्राणाकारविमोहिनी । माया मनोमयी तद्वन् मनो ब्रह्मणि संस्थिता ॥२०॥ विज्ञानं ब्रह्म
तत्रेयं माया विज्ञानरूपिणी । आनंदं ब्रह्म यत् प्रोक्तं युतमानंदमायया ॥२१॥ चैतन्यं ब्रह्म यत् प्रोक्तं माया चेतनरूपिणी ।
बिंदुब्रह्मेति तत्रैव माया बिंदुमयी बभौ ॥२२॥ सोऽहं ब्रह्मेति यत्रेयं माया सोऽहं प्रकाशिनी । बोधो ब्रह्मेति बोधाख्या
माया तत्र विमोहिनी ॥२३॥ विदेहं ब्रह्म यत् प्रोक्तं माया वै देहरूपिणी । तया तत्र महादेवा भ्रमंति ब्रह्ममानिनः ॥२४॥
कर्म ब्रह्मेति कर्माख्या माया तत्र विमोहिनी । ज्ञानं ब्रह्मेति तद्वत्तु ज्ञानमायायुतं बभौ ॥२५॥ समं ब्रह्मेति तत्रैव माया
समस्वरूपिणी । सहजं ब्रह्म यत् प्रोक्तं सहजाख्यविकारदम् ॥२६॥ असद्ब्रह्मेति यत् प्रोक्तं तत्रासन्मायया युतम् ।
सद्ब्रह्मेति सदाकारमायायुक्तं प्रकीर्तितम् ॥२७॥ सदसन्मयभावाख्यं ब्रह्म प्रोक्तं मुनीश्वराः । उभयात्मविकारेण ज्ञातव्यं
संयुतं सदा ॥२८॥ अव्यक्तं ब्रह्म यत् प्रोक्तं युतमव्यक्तमायया । स्वसंवेद्यं परं ब्रह्म युतं स्वानंदमायया ॥२९॥ आत्मा-
द्वयैकसर्वाख्याद्याः शब्दाः परिकीर्तिताः । महावाक्यादिभिस्ते तु तत्तन्मायाप्रकाशकाः ॥३०॥ शिवविष्णुमुखाः शब्दा
ब्रह्मवाच्याः प्रकीर्तिताः । तत्तद्विकारसंयुक्तान् जानीत देवसत्तमाः ॥३१॥ पृथिवी जलादितत्त्वानि ब्रह्मणां वाचकानि तु ।
तत्तद्विकारयुक्तानि जानीत देवसत्तमाः ॥३२॥ एवं नानाविधान्येव ब्रह्माणि कथितानि च । वेदादिषु समस्तानि माया-
मोहयुतानि तु ॥३३॥ तेषां स्वामिस्वरूपेण तिष्ठति ब्रह्मणस्पतिः । ब्रह्मणां पातृभावाच्च पालयितृत्वकारणात् ॥३४॥
स एवायं गणाध्यक्षो वेदेषु कथितोऽभवत् । ब्रह्मभूयमयः साक्षात्तं भजामि द्विजोत्तमाः ॥३५॥ उत्पत्तिनाशहीनं यद्
गजाख्यं ब्रह्म चक्षते । सांख्यं शिरो गणेशस्य गजानन इति स्मृतः ॥३६॥ भूमिसोधनभावेन भवेत् ब्रह्मणि तन्मयः ।
देहस्तस्य च योगाख्यो नानाभूमिप्रधारणात् ॥३७॥ तयोर्योगे गणेशानो देहधारी बभूव ह । सांख्ये योगमयः साक्षात्
पूर्णशांतिप्रदायकः ॥३८॥ संयोगेऽयं गकाराख्यो ह्ययोगे णमयः स्मृतः । तयोरीशो गणेशानो नामाऽयं वेदवादतः ॥३९॥

शीर्षक:
खं. ७ अ. १३ पान ३०


पाठः
पंचचित्तमयी बुद्धिर्दक्षिणांगं बभूव ह । पंचभ्रांतिकरी सिद्धिर्वामांगं तस्य सर्वदा ॥४०॥ तयोः स्वामी गणाध्यक्षो
मायाभ्यामत्र खेलति । चित्ते चिंतामणिः साक्षात् प्रकाशकारकस्तयोः ॥४१॥ समोहं चित्तमुत्सृज्य योगींद्रो जायते
नरः । तं भजामि विशेषेण चित्तचालनकारकम् ॥४२॥ कृतानि सिद्धिवृद्धिभ्यां ब्रह्माणि सकलानि वै । तानि त्यक्त्वा
कथं ब्रह्म लभ्यते मानवैः परम् ॥४३॥ अतोऽयं देहभृद्भूत्वा भक्तमार्गप्रदायकः । सुलभत्वाय देवेशा परो जानीत
संस्थितः ॥४४॥ तस्य तद्वचनं श्रुत्वा वसिष्ठस्तमुवाच ह । संशयस्य विनाशार्थं सर्वैः संप्रेरितो वचः ॥४५॥ वसिष्ठ उवाच ।
ब्रह्म ब्रह्मैव वेदेषु कथितं सर्वसंमतम् । ब्रह्मणस्पतिरेकोऽयं पतिस्तत्र कथं मुने ॥४६॥ पतिरूपा महामाया गणेशे
संस्थिताऽभवत् । यथाऽन्नादिविकारस्थं ब्रह्म तद्वदयं मतः ॥४७॥ वसिष्ठस्य वचः श्रुत्वा दत्तो हर्षसमन्वितः । जगाद तं
विशेषज्ञं योगींद्रः परमार्थवित् ॥४८॥ अन्नप्राणादियुक्तानि ब्रह्माणि रचितानि तु । गणेशेन महायोगिंस्तेनायं पति-
रुच्यते ॥४९॥ ब्रह्मभिः कथितश्चायं पतिस्तेषां न संशयः । स्वयं ब्रह्मैव तन्नाशे तथाऽपि पातृभावतः ॥५०॥ अन्नप्राणादि-
कान्येव विकारान् संत्यजंति च । ब्रह्माणि ब्रह्मभूतानि भविष्यंत्यस्य सेवनात् ॥५१॥ ब्रह्माणि ब्रह्माणि यदि चेद्गतानि
महामुने । पतिः केषां गणेशानः कथ्यते कैर्वदाशु मे ॥५२॥ अतो मायाविकारेण हीनोऽयं गणनायकः । ब्रह्मैवोपास्य-
भावात्तु पतित्वं कथनात्मकम् ॥५३॥ इति तस्य वचः श्रुत्वा पुनस्तं नारदोऽब्रवीत् । योगींद्रं भावबोधार्थमवधूतम-
कल्मषम् ॥५४॥ नारद उवाच । गणेशो त्वं महायोगिंस्तदाकारो न संशयः । अहं दत्तोऽयमेकश्च गणेशः कुत्र वर्तते ॥५५॥
न भिन्नश्चेन् महाभाग भजसे कं पुरः स्थितम् । इमं मे संशयं छिंधि सर्वज्ञोऽसि महामते ॥५६॥ दत्त उवाच । देहोऽयं
नरतुल्यो मे करोति कर्म नित्यदा । शुभाशुभं विशेषेण नामरूपविकारतः ॥५७॥ ब्रह्म सर्वत्र विप्रेश तन्मयं नात्र संशयः ।
सत्ता न्यूनाधिका भाति विचारय विचक्षण ॥५८॥ ब्रह्मणस्पतिशब्दाख्या सत्ता गणपतौ स्थिता । नान्यत्र शंभुविष्णुवादि
भावेषु पश्य मानद ॥५९॥ अतः प्रत्यक्षचित्तस्थं ब्रह्म विघ्नेशवाचकम् । दृष्ट्वा तन्न भजेत् कोऽपि ब्रह्मभूयपरः कथम् ॥६०॥
अतो देहधरोऽहं तु ब्रह्माकारो गणेश्वरः । तं भजामि विशेषेण देहचेष्टापरायणः ॥६१॥ देहः क्रियात्मकः प्रोक्तश्चित्तं
चिंतनकारकम् । स्वभावेन यथाऽन्यद्वै करोति चिंतनादिकम् ॥६२॥ तथा गणेश्वरं मेऽत्र देहश्चित्तं भजेत् ध्रुवम् । तयोः
प्रकाशकं ब्रह्म कथं भजेद्गजाननम् ॥६३॥ ब्रह्म ब्रह्मैव संजातं तदाकारं मदीय कम् । देहश्चित्तं भजेत्तं वै स्वप्रकाशकरं

[शीर्षक: खं ७ अ. १४ | पान ३१]

सदा ॥६४॥ अनेन योगमार्गेण भजामि गणनायकम् । न भिन्नोऽहं गणेशानात् कं पृच्छसि विचारय ॥६५॥ यथा करोमि
नित्यं तु भक्षणादिकमादरात् । तथा गणेश्वरं तात भजामि भक्तिसंयुक्तः ॥६६॥ नाऽहं भोक्ता खदेहस्थस्तथा मां विद्धि
देहगम् । न भक्तं गणराजस्य देहधर्मः प्रवर्तते ॥६७॥ ब्रह्मणि ब्रह्मभूतो यो न भजेद्गणनायकम् । तथाऽपि देहचित्तेऽन्यत्
करिष्यतः स्वभावतः ॥६८॥ न मुख्यो ब्रह्मभूतेषु योगिषु भक्त उच्यते । श्रेष्ठस्तस्माद्गणेशानं भजामि हर्षसंयुतः ॥६९॥
अनायासेन चित्तस्थं देहस्थं ब्रह्म प्राप्य यः । दृष्ट्वा तं न भजेत् सोऽपि ब्रह्मघ्नः परिकीर्तितः ॥७०॥ गणेशं मूर्तिगं दृष्ट्वा
योगेशं शांतिदायकम् । कस्य योगिजनस्यात्र प्रीतिः सद्यो न जायते ॥७१॥ इति तस्य वचः श्रुत्वा हर्षयुक्ताः शिवादयः ।
नारदाद्याः प्रणेमुस्तं विस्मितास्तस्य चेष्टितैः ॥७२॥ जगुस्तं हर्षसंयुक्ता वयं संशयवर्जिताः । कृतास्त्वया महाभाग
एकमार्गपरायणाः ॥७३॥ नानामतविभेदेन भ्रांतियुक्ता भ्रमंति तु । त्यक्त्वा गणेश्वरं पूर्णं सर्वपूज्यं महामुने ॥७४॥
भ्रांतिनाशार्थमत्यंतं भवान् विघ्नेश्वरेण च । निर्मितो योगमार्गज्ञः सर्वशांतिप्रदायकः ॥७५॥ एवं तैः संस्तुतो दत्तः प्रहस्य
प्रययौ ततः । शिवादयो वसिष्ठाद्याः स्वालयं प्रययुः प्रिये ॥७६॥ सर्वसारं समाख्यातां गीतां दत्तमुखाच्च्युताम् । पठना-
च्छ्रवणात्नृभ्यः शांतिदां सर्वसिद्धिदाम् ॥७७॥ कश्यपस्य वचः श्रुत्वा हर्षिता तं प्रणम्य सा । जगाद भावगंभीरा
दितिर्विघ्नेश्वरे रता ॥७८॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते दत्तगीतावर्णनं नाम त्रयोदशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दितिरुवाच । गणेशस्य महाभाग वदोपासनकं प्रभो । तेन विघ्नेश्वरं भक्त्या भजिष्यामि निरं-
तरम् ॥१॥ मुद्गल उवाच । एवं पृष्टो महायोगी दित्या तस्यै ददौ मनुम् । दशाक्षरं गणेशस्य विधियुक्तं विधानवित् ॥२॥
सा तं प्रणम्य योगींद्रं कश्यपं प्रययौ ततः । वनं वृक्षादिसंयुक्तं तपस्तत्र तताप वै ॥३॥ निराहारेण संयुक्ता गणेश-
ध्यानतत्परा । नासाग्रन्यस्तदृष्टिः सा मंत्रजापं चकार च ॥४॥ त्यक्त्वा सर्वां कामनां सा दितिर्विघ्नेश्वरे रता । तपः-

प्रभावयोगेन भ्रांतिहीनाऽभवद्द्विधे ॥५॥ पुत्रपौत्रादिके भावे रसहीना बभूव ह। योगेप्सुः पूर्णभावेनाऽभजत्तं द्विरदान-
नम् ॥६॥ एवं वर्षसहस्रेण योगभूतिपरायणा। शांतियोगं समासाद्य योगिवंद्या बभूव सा ॥७॥ तथा सा दत्तमार्गं तं
दितिः सस्मार चेतसि । भक्त्या विघ्नेश्वरं देवी न मुमोच कदाचन ॥८॥ ततः प्रसन्नभावेन तां ययौ गणनायकः।
जगादाऽसौ वरान् ब्रूहि ध्यानस्थां मनसेप्सितान् ॥९॥ गणेशवचनं श्रुत्वा दितिर्हर्षसमन्विता । उत्थाय तं नमस्कृत्य
पूजयामास भक्तितः ॥१०॥ पुनः प्रणम्य विघ्नेशं सा तुष्टाव कृतांजलिः । गणेशं दक्ष ते पुत्री दितिः साश्रुमुखांबुजा ॥११॥
दितिरुवाच । नमस्ते विघ्नराजाय भक्तविघ्नविदारण। अभक्तेभ्यो महाविघ्नप्रदाय तु नमो नमः ॥१२॥ काश्यपाय परेशाय
विनायकाय ढुंढये। लंबोदराय ते सर्वभोगभोक्त्रे नमो नमः ॥१३॥ दीनानां पतये तुभ्यं दीनदीनाय ते नमः। दीनपालक-
नाथाय हेरंबाय नमो नमः ॥१४॥ परेशाय गणेशाय परात्परतमाय ते । परात्पराणां कर्त्रे ते महोदराय वै नमः ॥१५॥
अनादये च सर्वेषामादिमूर्तिधराय च । आदिपूज्याय सर्वेषामंतःस्थाय नमो नमः ॥१६॥ शिवपुत्राय विष्णोश्च पुत्राय
परमात्मने । वरेण्यसूनवे तुभ्यं शेषपुत्राय ते नमः ॥१७॥ सर्वपूज्याय ज्येष्ठाय ज्येष्ठानां ज्येष्ठमूर्तये । ज्येष्ठराजत-
मायैव मात्रे पित्रे नमो नमः ॥१८॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणां ब्रह्मरूपायैकदंताय नमो
नमः ॥१९॥ गजाननाय देवायासुराय समभाविने। योगाकाराय योगिभ्यो योगदाय नमो नमः ॥२०॥ किं स्तौमि त्वां
गणाधीश शांतीनां शांतिरूपिणम् । वेदादयः शिवायाश्च यत्र शांतिं प्रलेभिरे ॥२१॥ अतस्त्वां प्रणमाम्येव सर्वेशं
तेन विघ्नप । संतुष्टो भव मे भक्त्या स्वल्पया नाथ ते नमः ॥२२॥ यदि त्वं वरदो मेऽसि तदा मे पुत्र आदरात् ।
भव स्वामिन् दयासिंधो तेनाऽहं तारिता त्वया ॥२३॥ आसुरी प्रकृतिः प्रोक्ता वेदेषु द्विरदानन । साऽहं कया महाभक्त्या
भजिष्यामि निरंतरम् ॥२४॥ त्वं मे पुत्रो यदा नाथ भविष्यसि सुसिद्धिदः । तव मातुः कथं मायामयो बंधः कदाचन ॥२५॥
भक्तिं त्वच्चरणे ढुंढे देहि नित्यं विशेषतः । आसुरीं बधहीनां मां कुरुष्व त्वत्पदप्रियाम् ॥२६॥ एवमुक्त्वा गणाधीशं
ननाम दक्षनंदिनी। दितिस्तां गणराजश्च जगाद हर्षसंयुतः ॥२७॥ विघ्नेश उवाच। त्वया कृतमिदं स्तोत्रं मदीयं मत्प्रियं
भवेत् । पठते शृण्वते देवि सर्वसिद्धिप्रदायकम् ॥२८॥ तव पुत्रो भविष्यामि आसुरीभावनाशकः । त्वं भजिष्यसि मां
नित्यं भक्त्या भावपरायणा ॥२९॥ एवमुक्त्वाऽन्तर्दधेऽसौ विघ्नेशो ब्रह्मनायकः । दितिः स्वगृहमागत्य प्रणनाम पतिं

खं. ७ अ. १५ पान ३३
स्वकम् ॥३०॥ वृत्तांतं कथयामास कश्यपो हर्षितोऽभवत् । श्रुत्वा तां स समालिंग्य जगाद साश्रुलोचनः ॥३१॥ कश्यप
उवाच । धन्याऽसि कृतकृत्याऽसि सफलस्ते भवो मतः । यया दृष्टो गणाध्यक्षः सर्वेभ्यः शांतिदायकः ॥३२॥ अहो ते
ससुतो देवि असुर्याः प्रभविष्यति । महद्भाग्यं गणाधीशो योगिवंद्या त्वमंजसा ॥३३ तारितोऽहं त्वया नूनं सुप्रिया
गणपे रतः । धन्यं मे जन्मकर्मादि आसुरी स्वहिते रता ॥३४॥ एवमुक्त्वा दितिं विप्रः कश्यपो विरराम ह । दितिः प्रणम्य
तं विप्रं सेवायां संस्थिताऽभवत् ॥३५॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते दितिवरप्रदानं नाम चतुर्दशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततः सा गणनाथं तं सस्मार हृदि सर्वदा । तन्मयं विश्वमेवेदमलोकयदशेषतः ॥१॥
एकदा माघमासे तु शुक्लपक्षे गजाननम् । पुपूज मध्यगे भानौ चतुर्थ्यां मूर्तिगं परम् ॥२॥ मूर्तिमध्याद्गणाधीशः प्रकटो-
भूच्चतुर्भुजः । अनंतसूर्यसंकाशतेजोयुक्तः प्रजापते ॥३॥ तं दृष्ट्वा भयभीता सा सस्मार हृदि कश्यपम् । स्वगुरुं तं तथा
देवं गणेशं भक्तिसंयुता ॥४॥ गुरोः स्मरणमात्रेण गणेशः सौम्यरूपधृक् । बालरूपो दितिं देवीं जगाद मेघनिःस्वनः ॥५॥
श्रीगणेश उवाच । पुत्रोऽहं ते महाभागे वरदानप्रभावतः । मा भयं कुरु कल्याणि पश्य मां सौम्यरूपिणम् ॥६॥ ततः सोन्मील्य
चक्षुस्तं पश्यति स्म भयातुरा । बालं चतुर्भुजं देवं शुंडादंडधरं परम् ॥७॥ परश्वादिमहास्त्रैश्च संयुक्तं चंद्रशेखरम् । लंबोदरं
चैकदंतं शेषनाभिसमायुतम् ॥८॥ शूर्पकर्णं त्रिनेत्रं तु नानाभूषणभूषितम् । अमूल्यवस्त्रसंयुक्तं गले चिंतामणिं धरम् ॥९॥
दृष्ट्वा तं प्रणनामैव कश्यपेन समन्विता । तुष्टावाऽऽपूज्य विघ्नेशमथर्वशिरसा विभुम् ॥१०॥ ततस्तं कश्यपो नत्वा
प्रार्थयामास शांतिदम् । बालरूपो भव स्वामिन् येन ते लालनं भवेत् ॥११॥ धन्योऽहं कृतकृत्योऽहं मत्समो न प्रविद्यते ।
मम त्वं येन पुत्रोऽभूद्ब्रह्मणां गणनायकः ॥१२॥ यस्य रोमांवरंध्रेषु ब्रह्मांडानां हि कोटयः । कथं स मम पुत्रत्वं प्राप्तोऽसीति
विडंबनम् ॥१३॥ एवं संप्रार्थितस्तेन दित्या सोऽपि तथाऽभवत् । चतुर्भुजधरो बालो बभूवे तत्क्षणात् स्वयम् ॥१४॥

तं प्रणम्य गणाधीशं कश्यपो हर्षसंयुक्तः । दित्या कर्मपरो भूत्वा ब्राह्मणांश्च समाह्वयत् ॥१५॥ ततश्चतुर्भुजेनैव मायाऽऽक्षिप्ता
तयोर्हृदि । पुत्रभावप्रकाशार्थं तथा तौ संबभूवतुः ॥१६॥ स्नापयित्वा दितिर्बालं स्तनपानमकारयत् । जातकर्म चकारैव
कश्यपो हर्षसंयुक्तः ॥१७॥ द्वादशेऽह्नि द्विजास्तत्र नामकर्मार्थमाययुः । पूजिताः कश्यपेनैव तमूचुर्हर्षसंयुताः ॥१८॥ स्वर्गेषु
देवपांश्चाऽयं नरान् पृथ्व्यां तथा तले । असुरान् नागकूमांदीन् स्थापयिष्यति बालकः ॥१९॥ तत्त्वानि चालयन् विप्र
तस्मान्नाम्ना चतुर्भुजः । चतुर्णां विविधानां च स्थापकोऽयं मतो बुधैः ॥२०॥ मुद्गल उवाच । ततो वर्षे द्वितीयेऽस्य प्रह्लादप्रमुखाः
परे । प्रपेलुर्हन्यमानास्तैर्देवैर्विष्णुमुखैर्विधे ॥२१॥ सर्वं त्यक्त्वाऽसुरेशानाः पातालं विविशुर्भयात् । देवानां च स्वयं विष्णुः
क्रोधयुक्तो बभूव ह ॥२२॥ इंद्राद्यैः सहितः सोऽपि सन्नद्धश्चक्रसंयुतः । आययौ दैत्यनाशार्थं पातालेषु महाबलः ॥२३॥
चक्रं तत्याज देवेशस्तेन दैत्या मृता मृधे । केचिद् दुःखसमायुक्ताः प्रपेलुश्छिन्नदेहकाः ॥२४॥ शरणं केशवं चैव
केचिज्जग्मुः प्रजापते । तथापि तान् महाविष्णुर्जघान क्रोधसंयुतः ॥२५॥ असुरैर्विगतं विश्वं कर्तुं चैव समुद्यतः । दैत्येंद्रा
भयसंयुक्ता दितिं ययुः शरण्यदाम् ॥२६॥ छिन्नभिन्नकृतांगांस्तान् दितिर्दृष्ट्वा शुशोच ह । ततः क्रोधयुतः सोऽपि बभूवे
गणनायकः ॥२७॥ तत्याज परशुं तीक्ष्णं देवान् हन्तुं चतुर्भुजः । परशोस्तेजसा सर्वं व्याप्तं पातालमंडलम् ॥२८॥
व्यर्थरूपाणि शस्त्राणि चक्रादीन्यभवन् मृधे । देवा दाहसमायुक्ताः प्रपेलुश्च दिशो दश ॥२९॥ ततस्तत्र ययौ ब्रह्मा
बोधयामास केशवम् । पातालं त्यज्य सर्वे ते ययुः स्वर्गं भयान्विताः ॥३०॥ परशोस्तेजसा तत्र संदग्धा इव देवपाः ।
न शांतिं प्रलभंते स्म हाहाकाररवाकुलाः ॥३१॥ ततः शंभू रविर्ब्रह्मा केशवस्तुष्टुवुः परम् । परशुं भयसंयुक्ता
देवैर्मुनिगणैः सह ॥३२॥ शांतियुक्तं महास्त्रं तद्बभूवे च प्रजापते । ततो देवेंद्रकाः सर्वे चतुर्भुजं ययुः पुरा ॥३३॥ तं
प्रणम्य भयोद्विग्ना मुनिभिर्देवनायकाः । नत्वाऽऽपूज्य गणेशानं तुष्टुवुः करसंपुटाः ॥३४॥ देवर्षय ऊचुः । नमस्ते काश्यपायैव
चतुर्भुजाय ढुंढये । अनादये गणेशाय विघ्नेशाय नमो नमः ॥३५॥ परेशाय परेषां च पतये परमात्मने । विनायकाय
विप्रेभ्यो वरदाय नमो नमः ॥३६॥ लंबोदराय सर्वेषामुदरस्थाय ते नमः । महोदराय ज्येष्ठाय ब्राह्मणाय नमो नमः ॥३७॥
क्षत्राणां क्षात्रधर्माय वैश्यानां वैश्यरूपिणे । शूद्राणां शूद्रधर्माय वर्णहीनाय ते नमः ॥३८॥ गृहस्थानां गृहस्थाय ब्रह्मचर्याय
सर्वप । ब्रह्मचारिस्वरूपाणां वनस्थानां तदात्मने ॥३९॥ न्यासिनां न्यासधर्मायाश्रमहीनाय ते नमः । चतुर्षु ते पंचमाय

[खं. ७ अ. १५] [पान ३५]

हेरंबाय नमो नमः ॥४०॥ स्वानंदवासिने तुभ्यं सिद्धिबुद्धिवराय च । एकदंताय देवायासुराय ते नमो नमः ॥४१॥
अनाथानामनाथाय सनाथानां सनाथक । ईश्वराणां महेशाय विष्णवे ते नमो नमः ॥४२॥ ब्रह्मणे भानवे तुभ्यं शक्तये
सर्वरूपिणे । देवादिभ्यः प्रदात्रे ते पदानां वै नमो नमः ॥४३॥ किं स्तुमस्त्वां चतुर्णां च चालकं स्वभुजैः परम् । अतस्त्वां
प्रणमामो वै चतुर्भुज प्रसीद नः ॥४४॥ एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः । स तानुवाच प्रीतात्मा भक्तान्
भक्तजनप्रियः ॥४५॥ चतुर्भुज उवाच । वरान् ब्रूत महादेवा मुनयो मत्त ईप्सितान् । दास्यामि स्तोत्रतुष्टोऽहं भवतां
भयवर्जिताः ॥४६॥ स्तोत्रं भवत्कृतं देवाः सर्वसिद्धिप्रदं भवेत् । पठतां शृण्वतां चैव भयनाशकरं परम् ॥४७॥ विशेषतः
पुत्रपौत्रादिकं सर्वं लभेन्नरः । धनधान्यादिकं चांते मल्लोकं पठनात् परम् ॥४८॥ एवं तस्य वचः श्रुत्वा देवा मुनिसमन्विताः ।
भयहीनाः प्रणेमुस्तं जगुर्हर्षसमन्विताः ॥४९॥ देवर्षय ऊचुः । यदि प्रसन्नभावेन वरदोऽसि चतुर्भुज । तदा ते पादपद्मे वै
भक्तिरस्तु निरंतरम् ॥५०॥ आज्ञां कुरु महाभाग तथा वर्तामहे वयम् । दितिजदैत्यसंत्रासतापिताः सततं वयम् ॥५१॥
चतुर्भुज उवाच । अद्य प्रभृति देवेशाः पातालस्थान् महासुरान् । मा हिंस्यथ महाभागा मया संस्थापितान् पुरा ॥५२॥ स्वर्गेषु
चामरस्थानं पृथिव्यां च नृणां सदा । पाताले दानवादीनां स्वधर्मस्था भवंतु ते ॥५३॥ यदि भूत्वा विपथगा इमे गर्वेण
मोहिताः । सिद्धिर्न भविता तेषां मद्वाक्यान्नात्र संशयः ॥५४॥ तथेति तं प्रणम्यैव देवाः स्वस्थानमाययुः । तदादि दानवान्
देवा न जघ्नुः स्थलसंश्रितान् ॥५५॥ चतुर्भुजश्च दैत्येंद्रान् सर्वानाज्ञापयत् प्रभुः । ते तथेति तमुच्चार्य हर्षिताः स्वस्थलं
ययुः ॥५६॥ ततश्चतुर्भुजो देवोऽंतर्दधे च प्रजापते । कश्यपो दितिसंयुक्तः शुशोच तमनुस्मरन् ॥५७॥ पितरौ वाक्यमूचे
सा वाणी चाऽकाशसंभवा । स्थाप्य मूर्तिं गणेशस्य भजतं नित्यमादरात् ॥५८॥ तथा चकार दित्या स कश्यपो ब्राह्मणैः
सह । स्थापयामास मूर्तिं वै चतुर्भुजस्य सर्वदाम् ॥५९॥ हृदि चिंतामणिं ध्यात्वा बहिः पूज्य चतुर्भुजम् । संस्थितौ
भक्तियुक्तौ दितिकश्यपकौ किल ॥६०॥ आसुरं भावमुत्सृज्य दितिर्भक्तिसमन्विता । गाणपत्यस्वभावेनाऽभजत्तं तु
चतुर्भुजम् ॥६१॥ एतच्चतुर्भुजस्यैव चरितं कथितं मया । विघ्नराजकलारूपोऽवतारोऽयमुदाहृतः ॥६२॥ य इदं शृणुयान्
मर्त्यः श्रावयेद्वा पठेत् स तु । भुक्तिं मुक्तिं लभेद्व्रह्म भक्तिं विघ्नेश्वरे पराम् ॥६३॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते चतुर्भुजावतारविक्रमवर्णनं नाम पंचदशोऽध्यायः ॥

खं. ७ अ. १६ | पान ३६

॥ श्रीगणेशाय नमः॥ मुद्गल उवाच। ततो बहौ गते काले दैत्येंद्रा बलसंयुताः। देवान् जेतुं सन्नद्धा बभूवुः क्रोधसंयुताः ॥१॥
प्रह्लादं मुख्यकं कृत्वा ब्रह्मशापेन मोहितम्। आयुयुस्तां प्रणेमुस्ते दितिं कश्यपसंयुताम् ॥२॥ तानुवाच स्वयं देवी दितिः
क्रोधसमन्विता। मा गच्छत महादुष्टाः धर्मं संत्यज दैत्यपाः ॥३॥ चतुर्भुजेन देवेशाः स्थापिताः स्वर्गभूमिषु। पाताल-
विवरेष्वत्र यूयं राज्यसमन्विताः ॥४॥ प्रणम्य तामनादृत्य दैत्येशा लोभसंयुताः। ययुर्देवजयार्थे ते ह्यधर्मेण प्रणोदिताः ॥५॥
दितिः कश्यपसंयुक्ता दैत्यानां सुदुरात्मनाम्। पक्षं त्यक्त्वा गणेशानमभजद् भक्तिसंयुता ॥६॥ एवं वै देवपक्षं सा
त्यक्त्वा मुनिसमन्विता। अदितिस्तं स्वपुत्रं चाभजद्विनायकं परम् ॥७॥ दैवीं प्रकृतिमुत्सृज्य मृन्मूर्तिस्थं विनायकम्।
योगभावेन भक्त्या तमभजत्प्रेमसंयुता ॥८॥ विनतायास्तथा दक्ष कश्यपेनोपदेशिताः। शांतियुक्ता गणेशानमभजन्
प्रेमसंयुताः ॥९॥ दक्ष उवाच। दैवीं तु प्रकृतिं त्यक्त्वा तथाऽऽसुरीं महामुने। कथं गणेश्वरं भक्त्या भजंति वद मानवाः
॥१०॥ मुद्गल उवाच। सकामिकं करोति चेन्नरः कर्म यथाविधि। आसुरं तत् समाख्यातं देहसौख्यकरं यतः ॥११॥ निष्का-
मिकं करोति चेन्नरः दैवं प्रकीर्तितम्। विधियुक्तं कर्म दक्ष मुक्तिदं तन्मतं बुधैः ॥१२॥ स्वधर्मस्थैर्जनैः कर्म क्रियते विविधं
परम्। देहधर्मं समाज्ञाय योगरूपं च तत् स्मृतत् ॥१३॥ तदेव देवप्रीत्यर्थं कर्म भक्तिमयं मतम्। भक्तिभावार्थमानंदात्
सस्त्रीको मुनिराकरोत् ॥१४॥ एतत्ते कथितं सर्वं विघ्नराजचरित्रकम्। सर्वसिद्धिप्रदं पूर्णं शांतिदं भक्तिकारणम् ॥१५॥
एवं नानाऽवताराश्च विघ्नराजस्य मानद। तेषां चरित्रकं केन वक्तुं नैव प्रशक्यते ॥१६॥ अयं विघ्नेश्वरो देवः समस्वानंदगो
भवेत्। सत्यासत्ये विनिर्माय प्रभुः क्रीडति मायया ॥१७॥ पूर्णयोगमयश्चायं विघ्नराजः प्रकीर्तितः। तस्यार्थं शृणु भावेन
ब्रह्मबुद्धिप्रकाशकम् ॥१८॥ संप्रज्ञातमयं ब्रह्माऽसंप्रज्ञातगतं तथा। अमयुक्तं महाविघ्नसंयुक्तं नात्र संशयः ॥१९॥
भ्रमहीनं तदेवापि विघ्नहीनं प्रकीर्तितम्। ब्रह्मणि ब्रह्मभूतं चेन्नोभयं तत्र विद्यते ॥२०॥ विश्वेषां विघ्नराजोऽयं विघ्नकर्ता
प्रजापते। विघ्नहर्ता स्वयं साक्षाद्ब्रह्मणं च निरंतरम् ॥२१॥ स्वयं विघ्नयुतो नैव विघ्नहीनो न विद्यते। एवं ज्ञात्वा नरो
ब्रह्मभूतो भवति विघ्नपम् ॥२२॥ इदं वैघ्नेश्वरं चित्रं चरितं संशृणोति यः। पठेद्वा तस्य विघ्नेशः प्रसन्नो जायते सदा ॥२३॥
प्रसन्ने विघ्नराजेंद्रे किं किं वै दुर्लभं भवेत्। सर्वसिद्धियुतः सोऽन्ते नरो ब्रह्मैव जायते ॥२४॥ नानेन सहशं किंचित्
पावनं कुत्र वर्तते। भुक्तिमुक्तिप्रदं दक्ष चरित्रं संश्रुतं त्वया ॥२५॥ पंचाग्निसाधनादीनि तपांसि विविधानि यः।

खं. ७ अ. १६ पान ३७
कुर्यात्तेभ्योऽधिकं पुण्यमस्य श्रवणतो लभेत् ॥२६॥ तीर्थानि विविधान्येव साधयित्वा फलं लभेत् । तेभ्योऽधिकं लभेत्
पुण्यं खंडस्यास्य श्रवान्नरः ॥२७॥ यज्ञानां सांगजातानां फलं तस्मात् प्रजापते । अधिकं श्रवणादस्य लभेत् खंडस्य मानवः
॥२८॥ इष्टापूर्तादिकं सर्वं यः करोति नरोत्तमः । तेभ्योऽधिकं लभेत्तस्य श्रवणान्नात्र संशयः ॥२९॥ पुत्रपौत्रादिसंयुक्तो
धनधान्यादिसंयुतः । आरोग्येण नरो युक्तो भवेदस्य तु संश्रवात् ॥३०॥ वंध्यादिदोषभावेन पीडितो यदि मानवः । अस्य
श्रवणमात्रेण पीडाहीनो भवेत् सदा ॥३१॥ यस्य गेहे स्थितश्चायं खंडो विघ्नेशभक्तिदः । कदा तस्य पिशाचेभ्यश्चौरादिभ्यो
भयं न हि ॥३२॥ नाग्निभूतं न भूतेभ्यो भयं राजभवं कदा । ग्रहेभ्यो राशिसंस्थेभ्यः पूतनादिभयं न च ॥३३॥ धर्मार्थ-
काममोक्षाणां दायकोऽयं प्रकीर्तितः । ब्रह्मभूयप्रदः साक्षाच्छ्रवणेन न संशयः ॥३४॥ बहुनाऽत्र किमुक्तेन यत्र विघ्नपतिः
स्वयम् । संस्थितस्तेन सामान्यं भविष्यति किमप्यहो ॥३५॥ इति ते कथितं सर्वं विघ्नराजस्य चेष्टितम् । भज त्वं सर्वभावेन
गणेशं सुखमाप्स्यसि ॥३६॥ न श्राव्यं दुर्जनायेदं चरित्रं सर्वसिद्धिदम् । साधवे गाणपत्याय श्राव्यं यत्नेन मानद ॥३७॥
सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । दक्षो हृष्टमनास्तं तु प्रणनाम कृतांजलिः ॥३८॥ मया ते कथितं पूर्णं
चरित्रं विघ्नपस्य यत् । यथा मुद्गलवक्त्राच्च निःसृतं तादृशं परम् ॥३९॥ भवतां संगयोगेन पावितोऽहं न संशयः ।
श्रोतुमिच्छसि किं भूयो वद शौनक ते हितम् ॥४०॥ विघ्नराजसमं नैव यथा विप्र तथा परम् । चरित्रं विघ्नराजस्य सर्व-
सिद्धिप्रदायकम् ॥४१॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते चरितमाहात्म्यवर्णनं नाम षोडशोऽध्यायः समाप्तः ॥
॥ इति श्रीमुद्गलपुराणे सप्तमः खंडः समाप्तः ॥
॥ श्रीगजाननार्पणमस्तु ॥

॥ इति श्रीमुद्गलपुराणे सप्तमः खंडः समाप्तः ॥

॥ अथ श्रीमुद्गलपुराणे अष्टमः खंडः प्रारभ्यते ॥

[Page Header]
खं. ८ अ. १ | पान १

[Main Text]
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । विघ्नराजचरित्रं तु श्रुतं सर्वप्रदं परम् । ममनाशकरं पूर्णं त्वत्तोऽस्माभिर्महामते ॥१॥
धन्योऽसि ज्ञानयुक्तोऽसि व्यासतुल्योऽसि निश्चितम् । व्यासाधिकोऽथवा किं नु शिष्यस्तस्य महात्मनः ॥२॥ श्रुत्वा
श्रुत्वा न मे तृप्तिर्जायते तत् कथामृतम् । माहात्म्यं धूम्रवर्णस्याधुना वद सुखप्रदम् ॥३॥ सूत उवाच । शृणु शौनक
माहात्म्यं धूम्रवर्णस्य सर्वदम् । यथा व्यासाच्छ्रुतं पूर्णं तथा ते कथयाम्यहम् ॥४॥ श्रुत्वा विघ्नेशमाहात्म्यं दक्षो हृष्टमना
अभूत् । प्रणम्य मुद्गलं सोऽपि पप्रच्छ विनयान्वितः ॥५॥ दक्ष उवाच । विघ्नेशस्य श्रुतं पूर्णं माहात्म्यं सर्वसिद्धिदम् ।
न तृप्तोऽहं महायोगिन्नमृतादधिकं यतः ॥६॥ अधुना धूम्रवर्णस्य माहात्म्यं वद विस्तरात् । कीदृशांडशमयश्चायं गणेशो
धूम्रवर्णकः ॥७॥ कीदृशं ब्रह्म तस्यैव केन योगेन लभ्यते । कति तस्यावताराश्च किं कर्मा कीदृशं महः ॥८॥ केन
संसाधितो देवो देहधारी बभूव ह । कं दैत्यं वशमानीय धर्ममास्थापयत् प्रभुः ॥९॥ इत्यादि सर्वमाहात्म्यं वद योगींद्र
सत्तम । ब्रह्मांड त्वत्समं नास्ति ब्रह्मदायकपात्रकम् ॥१०॥ सूत उवाच । एवं पृष्टो महायोगी मुद्गलः शौनकोऽब्रवीत् ।
दक्षं हृष्टमनाः साक्षात् ज्ञात्वा भक्तियुतं परम् ॥११॥ मुद्गल उवाच । दक्ष त्वं योगिवर्योऽसि निश्चितं सर्वभावतः । नान्यथा
गणनाथस्य कथायां जायते रसः ॥१२॥ धूम्रवर्णावतारस्य चरितं सर्वसिद्धिदम् । कथयिष्यामि भक्त्या ते समासेन
प्रजापते ॥१३॥ विस्तरेण शिवाद्याश्च वेदाद्या न बभूविरे । समर्थास्तत्र कोऽहं तु स्वल्पज्ञानप्रधारकः ॥१४॥ अत्र ते
कथयिष्यामि चेतिहास पुरा भवम् । शेषस्य शंकरस्यैव संवादेन समन्वितम् ॥१५॥ प्रणम्य शेषनागश्च एकदा शंकरं
पुरा । पप्रच्छ सिद्धिदं पूर्णं सर्वज्ञं करुणानिधिम् ॥१६॥ त्वत्तः परतरं नास्ति वेदश्रुतिप्रमाणतः । त्वं ध्यानसंयुतः
स्वामिन् भजसे कं शिवं परम् ॥१७॥ अतः संशययुक्तोऽहं पृच्छामि सर्वभावतः । किं मोहार्थं महेशान करोषि चेष्टितं
नवम् ॥१८॥ मुद्गल उवाच । एवं पृष्टः शिवः साक्षात्तमुवाच सुहर्षितः । भक्तं योगप्रियं दृष्ट्वा साधु चेष्टासमन्वितम् ॥१९॥
शिव उवाच । एवं पृष्टोऽहमेकांते सनकाद्यैर्महाप्रियैः । तत्तेऽहं शृणु वक्ष्यामि ज्ञानं गाणेशबोधकम् ॥२०॥ एकदा सनका-
द्याश्च दृष्ट्वा मां नियमे रतम् । पप्रच्छुस्त्वं यथा शेष तथा संशयसंयुताः ॥२१॥ सनकाद्या ऊचुः । महेश्वरो भवान् साक्षा-
त्तवेशो नैव विद्यते । कं ध्यायसि महादेव मिथ्या मोहप्रदायक ॥२२॥ तेषां तद्वचनं श्रुत्वा हर्षितोऽहं च काश्यप । ऊचे
योगं गणेशाख्यं पूर्णशांतिप्रदायकम् ॥२३॥ ईशत्वमनीशत्वं च मायायुक्तं न संशयः । ब्रह्मणि ब्रह्मभूतस्य कथं तद्वर्तते

खं. ८ अ. १
पान २

द्विजाः ॥२४॥ येनेशत्वं च मे दत्तमनीशत्वं तथाऽपरम् । जनेभ्यस्तं गणाधीशं जज्ञेऽहं भक्तिसंयुतः ॥२५॥ अहंकारयुताः
सर्वे न जानंति गजाननम् । तं जित्वाऽहं मुनींद्राश्च सेवे तस्य पदद्वयम् ॥२६॥ शिवस्य वचनं श्रुत्वा सनकाद्यास्तमब्रुवन् ।
विस्मिता भावसंयुक्ता गणेशज्ञानलालसाः ॥२७॥ सनकाद्या ऊचुः । अभिमानं महादेव जेतुं नैव प्रशक्यते । वेदादिभिः
च देवेशैरस्माभिश्चान्ययोगिभिः ॥२८॥ नरोऽहं देवरूपोऽहं आत्माहं खस्वरूपकः । ब्रह्माहं च महेशान अहं तेषु प्रति-
ष्ठितः ॥२९॥ अहं केनैव योगेन सदाशिव जितस्त्वया । वद तस्य चरित्रं नो विस्तरेण सुशांतिदम् ॥३०॥ श्रीशिव उवाच ।
अहं ब्रह्मणि विप्रेशा गतो ब्रह्मास्मिना सह । महावाक्यमये योगे ब्रह्माऽहं दृश्यते न च ॥३१॥ अहं नास्ति तथा ब्रह्म
नेति ब्रह्माहमंजसा । बोधार्थं साधनं चेदं महावाक्यं स्मृतं परम् ॥३२॥ ततः संशयसंयुक्ता सनकाद्यास्तमब्रुवन् । न बुद्धं
वचनं नाथ त्वदीयं दुर्गमं परम् ॥३३॥ अतः सुलभयोगेन वद योगं महेश्वर । दयया शिष्यमुख्यांश्च तारणाय सुशांति-
दम् ॥३४॥ श्रीशिव उवाच । अत्र वः कथयिष्यामि चेतिहासं पुरातनम् । अहम्भावविनाशार्थमहंकारस्य सौख्यदम् ॥३५॥
एकदा ज्योतिषां नाथः सूर्य आत्मा शरीरिणाम् । ब्रह्मणां चाभिषिक्तः स कर्मणां राज्यकर्मणि ॥३६॥ स प्राप्य राज्य-
मुग्रं तत् कर्मणां ज्योतिषां पतिः । अभिमानयुतोऽत्यंतं बभूवे देवदेवपः ॥३७॥ कर्मणा सृष्टिकर्ता वै ब्रह्मा लोकपितामहः ।
पालकः कर्मणा विष्णुर्हरः संहारकोऽभवत् ॥३८॥ कर्मणाऽन्नप्रभावेण पोषिका शक्तिरेव च । कर्माधीनं जगत् सर्वं सेश्वरं
नात्र संशयः ॥३९॥ सोऽहं कर्ममयो देवः कर्मणां चालकः परः । मदधीनमिदं भाति भानुरेवं सुगर्वितः ॥४०॥ अहंकारेण
संयुक्तश्छिङ्कां चक्रे कदा प्रभुः । तस्य छिङ्कासमुत्पन्नः पुरुषः सुन्दराकृतिः ॥४१॥ स पपात महीपृष्ठे न ज्ञातस्तेन
भानुना । महाकायो विशालाक्षो बलयुक्तो व्यराजत ॥४२॥ तत्राकस्मात् समायातः शुक्रः सर्वार्थकोविदः । पप्रच्छ
हर्षसंयुक्तस्तं दृष्ट्वा भावसंयुतः ॥४३॥ शुक्र उवाच । कोऽसि त्वं कुत्र ते वासः कर्तुमिच्छसि किं वद । माता पिता च ते
त्राता कः किं मत्त इहेच्छसि ॥४४॥ पुरुष उवाच । सूर्यपुत्रो द्विजश्रेष्ठ तस्य छिङ्कासमुद्भवः । अनाथोऽहं महाभाग
पतितो धरणीतले ॥४५॥ त्वं दयायुक्तभावेन मां पृच्छसि न संशयः । त्वदधीनो भविष्यामि शाधि मां मुनिसत्तम
॥४६॥ श्रीशिव उवाच । तस्य तद्वचनं श्रुत्वा शुक्को योगविदांवरः । ध्यानेनालोक्य तत्कर्म तमुवाच शुभावहम् ॥४७॥
शुक्र उवाच । अहम्भावात् समुत्पन्नस्त्वं सूर्यान्नात्र संशयः । अहंनामा भवस्वाद्य तपः कुरु महामते ॥४८॥ एवमुक्त्वा

खं. ८ अ. २ पान ३
ददौ तस्मै गाणेशं षोडशाक्षरम् । मंत्रं विधिसमायुक्तं ततः सोऽंतर्हितोऽभवत् ॥४९॥ अहं तत्र तपस्तेपे ध्यात्वा गणपतिं
हृदि । निराहारपरो भूत्वा जपमंत्रपरायणः ॥५०॥ शीतोष्णवातवर्षादिसहने दृढनिश्चयः । जित्वा खानि प्रयत्नेन
तोषयामास विघ्नपम् ॥५१॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते अहमुत्पत्तिवर्णनं नाम प्रथमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । एवं वर्षसहस्रेण तं दिव्येन गजाननः । ययौ प्रसन्नभावेन भक्त्या वरार्थमादरात् ॥१॥
आखुवाहस्त्रिनेत्रश्च गजवक्त्रो महोदरः । चतुर्भुजश्च पाशाद्यैः शोभितः सिद्धिवुद्धियुक् ॥२॥ एकदंतः शूर्पकर्णो देवैर्मु निसम-
न्वितैः । संस्तुतः स्वगणैश्चैव सेवितः सर्वदायकः ॥३॥ तं दृष्ट्वाऽहं समुत्थाय प्रणामं कृतांजलिः । पूजयामास विघ्नेशं सिद्धि-
बुद्धिसमन्वितम् ॥४॥ ततः क्रमेण देवान् स मुनीन् पूज्य पुनः प्रभुम् । प्रणनाम प्रतुष्टाव गणेशं प्रकृतांजलिः ॥५॥ अहमुवाच ।
नमस्ते गणनाथाय हेरंबाय परात्मने । सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥६॥ ब्रह्मसु ब्रह्मनाथाय निजेषु स्वस्वरूपिणे ।
सांख्याय ते परत उत्थानस्थेषु नमो नमः ॥७॥ ज्ञानेषु बोधरूपाय सोऽहंदेहिषु ते नमः । देहेषु बिंदुरूपाय विघ्नेशाय
नमो नमः ॥८॥ स्रष्टृषु ब्रह्मदेवाय विष्णवे पालकेषु ते । संहर्तृषु शिवायैवैकदंताय नमो नमः ॥९॥ प्रकाशकेषु सूर्याय
मोहकेषु च शक्तये । देवेषु देवराजाय विनायकाय ते नमः ॥१०॥ अग्नये ते दाहकेषु यमाय नीतिधारिणाम् । रक्षःसु
नैर्ऋतायैव शूर्पकर्णाय ते नमः ॥११॥ वायवे बलयुक्तेषु निधिषु धनपाय ते । रुद्रेषु कालरूपाय नमो लंबोदराय वै ॥१२॥
प्रजापतिषु दक्षाय नागेशे शेषरूपिणे । अनंतविभवायैव किं ते स्तौमि नमो नमः ॥१३॥ यं स्तोतुं न समर्थाश्च
वेदाद्या योगिनोऽमलाः । तं किं स्तवीमि विघ्नेशमल्पबुद्धिप्रधारकः ॥१४॥ धन्योऽहं कृतकृत्योऽहं सफलो मे भवः पिता ।
माता कुलं तथा ज्ञानं त्वदंघ्रियुगदर्शनात् ॥१५॥ एवमुक्त्वा गणेशानं प्रणनाम महासुरः । हर्षेण महता युक्तस्तमुवाच
गजाननः ॥१६॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । पठते शृण्वते चैव मयि भावप्रदायकम् ॥१७॥

पुत्रपौत्रादिकं सौख्यं भुक्तिं मुक्तिं लभेन्नरः । अस्य पठनमात्रेण मद्भक्तिं भ्रमनाशिनीम् ॥१८॥ वरान् वृणु महाभाग
मनेप्सितान् ददाम्यहम् । तपसा स्तोत्रमुख्येन तुष्टोऽहं ते महादरात् ॥१९॥ अहमुवाच । प्रसन्नोऽसि यदा नाथ भक्तिं देहि
त्वदीयिकाम् । यद्यदिच्छामि तत्तन्मे सफलं सर्वदाऽस्तु च ॥२०॥ मायाविकारयुक्तेभ्यो मरणं नैव मे भवेत् । राज्यं ब्रह्मांड-
गोलस्य देहि मे भोगसंयुक्तम् ॥२१॥ आरोग्यं विजयं ढुंढे संग्रामे ह्यतुलं तथा । अमोघास्त्रं सदा मेऽस्तु त्वत्प्रसादाच्च देहि
भोः ॥२२॥ तथेति तमहं देवो जगाद गणनायकः । अंतर्धाय स्वमात्मानं निजलोकं जगाम ह ॥२३॥ ततोऽतिहर्षसंयुक्तोऽहं
जगाम कविं पुनः । तं प्रणम्य स्ववृत्तांतं कथयामास विस्तरात् ॥२४॥ श्रुत्वा मुनिवरः सोऽपि तं प्रशंस्य महासुरम् ।
असुरानाह्वयामास श्रेष्ठान् काव्यो महामतिः ॥२५॥ तस्याज्ञया त्वरावंतो मुनिं सर्वे समागताः । असुरांस्तान् महातेजा हितं
काव्यो जगाद वै ॥२६॥ अहमासुरवृत्तांतं श्रुत्वा ते शुक्रवक्त्रतः । हर्षितास्तं प्रणम्यादौ जगुर्वचो हितावहम् ॥२७॥ असुरा
ऊचुः । आज्ञापय महायोगिन् कार्यं चेतोगतं प्रभो । करिष्यामो वयं दासास्त्वत्पादस्य जवान्विताः ॥२८॥ तेषां वचनमाकर्ण्य
काव्यः सर्वार्थकोविदः । ब्राह्मणान् वेदनिष्ठांश्च समानाय्य पुपूज ह ॥२९॥ तैरहं सिंचयामासासुराणां राज्यकर्मणि ।
यथाशास्त्रविधानेन दैत्याधीशं चकार ह ॥३०॥ प्रधानास्तस्य पंचाऽसन् सुहृदास्तेजसा युताः । शंखो वेदघ्नकः कालः पैशुनो-
ऽधर्मधारकः ॥३१॥ नगरं निर्ममे सोऽपि विषयप्रियनामकम् । अहमासुरकस्तत्र राज्यं चकार हर्षतः ॥३२॥ समायाता
निवासार्थं जना वर्गाश्रमन्विताः । असुरा विविधाश्चैव सुखं लेभुः समास्थिताः ॥३३॥ प्रमादासुरपुत्रीं वै ममतां रूप-
शालिनीम् । तस्मै ददौ प्रपादश्च यौवनस्थां महात्मने ॥३४॥ ममतासंयुक्तो रेमे दैत्येंद्रोऽहं प्रहर्षितः । मोहितो मायया तस्या
ममताया वशे स्थितः ॥३५॥ तस्यां पुत्रौ महावीर्यौ जनयामास दैत्यपः । गर्वश्रेष्ठौ तयोर्नाम चक्रुः सर्वे द्विजातयः ॥३६॥
एवं बहौ गते काले तमुवाच प्रमादकः । किं स्थितोऽसि महावीर जय देवादिकान् प्रभो ॥३७॥ वरदानबलेन त्वं निर्भयोऽसि
न संशयः । वराणां सफलं सर्वं कुरु भोगपरं महः ॥३८॥ तथेति श्वशुरं सोऽपि जगादाऽहं प्रतापवान् । समानाय्य कविं तत्र
पूजयामास दैत्यपैः ॥३९॥ तस्याऽज्ञां गृह्य दैत्येशः परान् दैत्यान् समाह्वयत् । तैः संयुतः स शुक्रेण प्रधानैः शुशुभेऽसुरः
॥४०॥ दिग्विजयार्थमहं तत्र सर्वानाज्ञापयत् प्रभुः । सन्नद्धास्तं समाजग्मुर्दैत्या परमदारुणाः ॥४१॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते अहमासुरराज्यप्राप्तिवर्णनं नाम द्वितीयोऽध्यायः ॥

शीर्षक (Header):
खं. ८ अ. ३ । पान ५


॥ श्रीगणेशाय नमः ॥ शिव उवाच । रथारूढः स्वयं तन्नाहं निर्जगाम दैत्यपैः । पुत्रौ तथा प्रधानांश्च सन्नद्वा असुरा ययुः ॥१॥
नाना वर्णा महाक्रूराः कालस्य भयदायकाः । नाना वाहनगाः सर्वे तमनु प्रययुः किल ॥२॥ चतुरंगचमूमध्ये शुशुभे
दैत्यनायकः । अपारसेनया युक्तः पृथ्वीं जेतुं मनोदधे ॥३॥ शंखादयो महावीरा नृपान् जग्मुः सुदारुणाः । जित्वा राजकुलं
सर्वं समाजग्मुर्महासुरम् ॥४॥ नृपास्तैः किं द्विजा युद्धं करिष्यंति महाबलैः । मृताः केचित् क्षताः केचित् केचित्तान शरणं
ययुः ॥५॥ करदांस्ते नृपान् कृत्वा तेषां राज्ये स्वसेवकान् । स्थापयामासुरव्यग्रान् दैत्येंद्रा हर्षसंयुताः ॥६॥ सप्तद्वीपवतीं
जित्वा पृथ्वीं पातालमाययुः । दैत्येंद्रा नागमुख्यांस्ते जयार्थं जयशालिनः ॥७॥ शेषो नागयुतस्तेषां शरणं समुपागतः ।
ज्ञात्वा वरबलं योगी साम चक्रे महासुरैः ॥८॥ वार्षिकं करभारं स स्वीकृत्य स्वस्थलं ययौ । नागेंद्रैः संवृतः शेषो दुःख-
युक्तेन चेतसा ॥९॥ तथापि दैत्यमुख्यास्ते दैत्यं दैत्यसमन्वितम् । समीपे तस्य संस्थाप्य ययुरहं महाबलाः ॥१०॥ ततो
दैत्येंद्रसंयुक्तः काव्येनाऽहंप्रतापवान् । स्वर्गं ययौ महातेजा वरगर्वसमन्वितः ॥११॥ दूतं संप्रेषयामासाहमिंद्रस्यैव सन्निधौ ।
स गत्वा देवराजाय प्रणम्यैतद्वचो जगौ ॥१२॥ ततः क्रोधसमायुक्त इंद्रो देवेंद्रमुख्यकैः । विचार्यांगिरसं सर्वैर्जगाम
प्रणाम तम् ॥१३॥ तेनापि सत्कृतः सोऽपि जगाद वचनं परम् । सर्वेषां दुःखदं पूर्णं असुराणां जयावहम् ॥१४॥
इंद्र उवाच । अहं वरसमायुक्तः समायातो महाबलः । दूतेन नो वदत्यद्य शरणं याहि देवपैः ॥१५॥ अतः सुरैः समायुक्तो
भवंतं सर्ववेदिनम् । समायातो वद स्वामिन् त्वदाज्ञावशगा वयम् ॥१६॥ गुरुरुवाच । गणेश्वरवरदानेन मत्तोऽसौ नात्र
संशयः । जेष्यते सकलं तस्माच्छरणं नैव शोभनम् ॥१७॥ अतो वयं विधातारं व्रजामहे त्वरान्विताः । स श्रेष्ठः सर्वभावेन
करिष्यति हितं च नः ॥१८॥ ततः सर्वे विधातारं जग्मुर्देवाः सवासवाः । प्रणम्य तं जगुः सर्वे वृत्तांतं दैत्यसंभवम् ॥१९॥
श्रुत्वा खेदयुतो ब्रह्मा गृह्य तान् शंकरं ययौ । तं प्रणम्य जगौ सर्वं स देवो वृत्तमुल्बणम् ॥२०॥ जगाम सोऽपि निःश्वस्य
तैः सार्धं विष्णुमादरात् । प्रणम्य कथयामास वृत्तांतं दुःखदायकम् ॥२१॥ श्रुत्वा क्रोधयुतो विष्णुः समाश्वास्य
महेश्वरम् । सदेवं तं जगादाऽसौ पराक्रमयुतं वचः ॥२२॥ श्रीविष्णुरुवाच । हनिष्यामि महादैत्यमहं चासुरसंयुतम् । मायायुक्त-
त्वमेवं यन् मम तन्न प्रबाधते ॥२३॥ एवमुक्त्वा महादेवं तत्रैवासंस्थितोऽभवत् । देवैः सह महाभागः प्रतीक्षन् दैत्यपौरुषम्
॥२४॥ अहंकारासुरस्तत्र ज्ञात्वा वृत्तांतमादरात् । प्रविवेशामरावत्यां दैत्येंद्रैर्हर्षसंयुक्तः ॥२५॥ इंद्रासनसमारूढः सेव्यमानो-

यहाँ दिए गए पृष्ठ का मूल पाठ (Transliteration/Transcription) निम्नलिखित है:

ऽप्सरोगणैः । गंधर्वैर्गीयमानः स शुशुभे परमश्रिया ॥२६॥ ततो देवपदेषु संस्थापयामास चासुरान् । स्वर्गभोगं चकारैवं
दैत्येंद्रैः श्वशुरेण च ॥२७॥ ततः स दैत्यसंघैस्तैः सन्नद्धः प्रययौ द्विजाः । ब्रह्मलोकं महोग्रतं विधिहीनं ददर्श ह ॥२८॥
विवेश हर्षयुक्तस्तन्नगरं दैत्यसंयुतः । ब्रह्मासनसमासीनो बुभुजे विविधान् परान् ॥२९॥ ततः स दैत्यपैः सर्वं ज्ञात्वा
वृत्तांतमंजसा । कैलासं भानुलोकं तु शक्तिलोकं ययौ क्रमात् ॥३०॥ तत्र विलाससंयुक्तो बुभुजे विविधान् परान् । विकुंठ-
विजयर्थं स प्रययौ दैत्यपैर्वृतः ॥३१॥ दूतं संप्रेषयामास कालं सर्वभयंकरम् । स गत्वा केशवं नत्वा जगौ वै वाक्य-
मुल्बणम् ॥३२॥ काल उवाच । अहं त्वसुरसंयुक्त आययौ स महाबलः । तेनाऽहं सामभावार्थं प्रेषितस्ते प्रसन्निधौ ॥३३॥
त्यक्त्वा विकुंठं देवेशैर्गच्छ त्वं यत्र ते रुचिः । नारायण न हन्मि त्वां नोचेद्युद्धोद्यतो भव ॥३४॥ कालस्य वचनं श्रुत्वा
केशवः क्रोधसंयुतः । जगाद तं महादैत्यं दहन्निव प्रधर्षयन् ॥३५॥ श्रीविष्णुरुवाच । किं मां पापस्वरूपस्त्वं वदसि मंदविक्रम ।
हनिष्याम्यहमद्यैव दैत्ययुक्तं महासुरम् ॥३६॥ गच्छ दूत स्वभावस्थं न हन्मि त्वां खलाधम । स्वपदं त्यज्य दैत्येशाधीनोऽहं
किं भवामि तु ॥३७॥ ततोऽहंकारकं गत्वा कालासुरः प्रतापवान् । वृत्तांतं कथयामास दैत्येंद्रैः संयुतं परम् ॥३८॥ श्रुत्वा
दैत्यगणाः सर्वे क्रोधयुक्ता बभूविरे । अहंकारासुरेणैव युक्ता युद्धोद्यता बभुः ॥३९॥ तान्निवार्य महाबाहुरहं क्रोधसमन्वितः ।
जगाद दैत्यमुख्यान् स वाक्यं सर्वहितावह्म् ॥४०॥ अहमुवाच । किमर्थं श्रमसंयुक्ता भविष्यथ महाबलाः । अमोघास्त्र-
वरैर्युक्तः करिष्याम्यधुना सुखम् ॥४१॥ एवमुक्त्वा ततो दैत्यः सज्जं कृत्वा महद्धनुः । मुमोचाग्निमयं चास्त्रं संमंत्र्य
क्रोधसंयुतः ॥४२॥ सहसास्त्रं प्रजज्वाल दिशो दश महोज्ज्वलम् । विकुंठं दाहयामास देवान् सर्वान् समंततः ॥४३॥ ततः
क्षोभयुता देवास्तत्यजुर्वरुणास्त्रकम् । तेनैव तन्न शांतं तु बभूवे तेजसान्वितम् ॥४४॥ ततः खेदयुताः सर्वे पपुलुर्भयसंयुताः ।
पीडिता अग्निनाऽत्यंतं त्यक्त्वा वैकुंठमेव च ॥४५॥ वरुणश्च स्वयं दृष्ट्वा जगाम रणमूर्धनि । चंद्रेण संयुतः सोऽपि जलं
सृष्ट्वा व्यवस्थितः ॥४६॥ जलेन न च शांतोऽभूदग्निः परमदारुणः । दाहयुक्तः पपालाऽसौ वरुणश्चंद्रसंयुतः ॥४७॥ ततः
शक्तिः समायाता महास्त्रं वरुणात्मकम् । मोचयामास तस्मात्तु जलधारा प्रवर्तिता ॥४८॥ घृतेन संयुतस्तत्र यथाग्निर्जल-
संयुतः । जज्वल मायया तस्याऽहंकारस्य विशेषतः ॥४९॥ ततो दाहसमायुक्ता शक्तिः पपाल तत्क्षणात् । क्रुद्धो भानुः
स्वयं तत्राऽजगाम क्रोधसंयुतः ॥५०॥ सोऽपि स्ववीर्यसंयुक्तं वरुणास्त्रं जहौ मृधे । पूर्ववद्वाहसंयुक्तः पपाल च दिवाकरः

खं. ८ अ. ४ पान ७
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
॥५१॥ ततः शिवः स्वयं तद्रूययौ क्रोधसमन्वितः । हतोद्यमः पपालाऽसौ दाहयुक्तः स्वभावतः ॥५२॥ ततोऽतिखेदसंयुक्तो
विष्णुः स्वयमुपागतः । तत्याज वारुणं शस्त्रं स्वसत्तासंयुक्तं परम् ॥५३॥ तथापि न स शांतोऽभूदग्निः परमदारुणः ।
जज्वलातीव सर्वत्र दाहयामास देवपान् ॥५४॥ ततोऽतिदाहसंयुक्तः पपाल च जनार्दनः । विष्णुना संयुताः सर्वे देवेशाः
पप्लुर्भयात् ॥५५॥ गत्वा गिरिगुहासंस्था बभूवुर्भयसंकुलाः । कंदादिभक्षयंतस्ते दिवसानतिचक्रमुः ॥५६॥ ज्ञात्वा
वृत्तांतमेवाहं समाहृत्य स्वशस्त्रकम् । आग्रेयमगमद्दैत्यैर्वैकुंठं हर्षसंयुतः ॥५७॥ तत्र स्थित्वाऽभिमानी स परां मेने
कृतार्थताम् । न मत्तः श्रेष्ठ इत्येव गर्वयुक्तो बभूव ह ॥५८॥ ततो गर्वं शिवस्यैव तथा स्थाप्य पदेऽसुरः । श्रेष्ठं विकुंठनाथं
च स चक्रे पुत्रमुत्तमम् ॥५९॥ पिशुनं शक्तिलोकस्य वेदघ्नं सर्वलोपकम् । प्रमादं ब्रह्मणो नाथं चकार मदसंयुतः ॥६०॥
शंखमिंद्रपदस्यैव नाथं चक्रे महासुरः । कालं यमस्य लोकस्य कमलं वरुणस्य च ॥६१॥ कुबेरस्य पदे स्थाप्याऽधर्मधारक-
मादरात् । ततः स्वनगरं सर्वैः समाययौ महाबलः ॥६२॥ तत्रस्थः प्रशासासौ ब्रह्मांडं लोकसंकुलम् । अहं मेने न
किंचिद्वै समं भाग्येन तेजसा ॥६३॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते अहमसुरब्रह्मांडजयो नाम तृतीयोऽध्यायः ॥
❖❖❖
॥ श्रीगणेशाय नम ॥ शिव उवाच । दैत्योऽहंकारकोऽत्यंतं परस्त्रीलालसस्ततः । बभूव दैत्यपैः सर्वैर्नागकन्याः समानयत् ॥१॥
देवकन्या नराणां च स्त्रियः कन्या विशेषतः । समाहृत्य बलात् सोऽपि बुभुजे सर्वदूषकः ॥२॥ मद्यमांसपरोऽत्यंतं बभूव
द्विजसत्तमाः । गणेशं त्यज्य दुष्टात्मा पापकर्मपरोऽभवत् ॥३॥ एकदाऽहं सभासंस्थं जगादाऽधर्मधारकः। दैत्येंद्रैः प्रेरितः सर्वैः
कृत्वा करपुटं वचः ॥४॥ अधर्मधारक उवाच । जितं त्वया महाभाग ब्रह्मांडं लोकसंकुलम् । जगदीशस्त्वमेवैको नान्यः कश्चन
विद्यते ॥५॥ देवा विष्णुमुखाः सर्वे भवंति वनसंस्थिताः । प्रकीर्तिताः शत्रवो नो वेदेषु च सुरासुराः ॥६॥ शस्त्रादिभिश्च देवेंद्र्रा
मरिष्यंति कदापि न । अमरा वेदवादेषु कथिता पश्य मानद ॥७॥ कर्मान्ना अमराः सर्वे नष्टे कर्मणि दैत्यप । मरिष्यंति न
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖